81036: यावद्यथाभ्याम्¶
Padacheda: यावद्यथाभ्याम् | S | 3 | 2 |
Sutrartha¶
Vasu English Summary¶
The finite verb retains its accent in connection with यावत् and यथा।
Vasu English Translation¶
The finite verb retains its accent in connection with यावत् and यथा। Thus यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ यावदधीते꣡ यथाधीते꣡, देवदत्तः प꣡चति यावत्, देवदत्तः प꣡चति यथा ॥ The meaning is that the verb retains its accent, even when यावत् and यथा follow after it. Another example is यथा चित् कण्वमावतम् ॥ The word आवतम् is the Imperative (लोट्) Second Person Dual of the root अव् ॥ यावत् स्तोतृभ्योऽरदोगृणानाः ॥ The verb अरदः is Imperfect (लङ्) Second Person singular of the root रद् ‘to scratch’. The accent, is on अ (the augment).
Kashika¶
यावद् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यादव् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। यावद॒धी॒ते। यथा अ॒धी॒ते। देवदत्तः पच॑ति यावत्। देवदत्तः पच॑ति यथा। परेणापि योगे भवति प्रतिषेधः॥
Siddhanta Kaumudi¶
आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ॥
Padamanjari¶
यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु ।’यावद्यथाभ्याम्’ इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम् -‘यद्वृतान्नित्यम्’ इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ॥
Nyaas¶
किमर्थं पुनरिदमारभ्यते? न यद्वृत्तान्नित्यम् (8.1.66) इत्येव सिद्धमिति यश्चोदयेत्, तं प्रति -देवदत्तः पचति यावत्, देवदत्तः पचति यथा -इत्येतदुदाहरणद्वयमुपन्यस्तम्। एषोऽभिप्रायः -यद्वृत्तादिति पञ्चमीनिर्देशात्? तस्मादित्युत्तरस्य (1.1.67) इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्। इह तु तृतीयनिर्देशात्? तत्रापि भवतीति॥