81037: पूजायां नानन्तरम् ======================== **Padacheda:** पूजायाम् | S | 7 | 1 | न | S | 0 | 0 | अनन्तरम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- But not so when these particles यावत् and यथा immediately precede the verb an denote 'praise'. Vasu English Translation ------------------------ But not so when these particles यावत् and यथा immediately precede the verb an denote 'praise'. That is, the verb loses its accent, and becomes *anudatta*. Thus यावत् प॒च॒ति॒ शोभनम्, यथा पचति शोभनम्, यावत् करोति चारु ॥ Why do we say when denoting 'praise'? Observe यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ ॥ Why do we say 'immediately'? Observe यावद् देवदत्तः प꣡चति शोभनं, यथा देवदत्तः करो꣡ति चारु ॥ Here the verbs retain their accent by the last *sutra*. Kashika ------- यावद् यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायां विषये नानुदात्तं न भवति। किं तर्हि ? अनुदात्तमेव। यावत् प॒च॒ति॒ शोभनम्। यथा प॒च॒ति॒ शोभनम्। यावत् क॒रो॒ति॒ चारु। यथा क॒रो॒ति॒ चारु। पूजायामिति किम् ? यावद् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। अनन्तरमिति किम् ? यावद् देवदत्तः पच॑ति शोभनम्। यथा देवदत्तः क॒रोति॑ चारु। पूर्वणात्र निघातः प्रतिषिध्यते॥ Siddhanta Kaumudi ----------------- यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥ Padamanjari ----------- द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह - कि तर्ह्यनुदातमिति । यावद्देवदत इति । ननु चोतरत्र नियमो विज्ञास्यते - व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युतरत्रास्य प्रयोजनम् - उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु'व्यवाये यदि भवति उपसर्गेणैव' इत्यस्मादेव नियमातत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्तुम् ॥ Nyaas ----- `पूजायां विषये` इति। विषयग्रहणे पूजायामिति विषयसप्तमीति दर्शयति। `किं तह्र्रमुदात्तमेव` इति। द्वौ प्रतिषेधो प्रकृतमर्थं गमयत इति कृत्वा। `यावत्? पचति शोभनम्` इति। स्तुतिरत्र पूजा, सा च क्रियायाः साधनस्य वा॥ Prakriyasarvasvam ----------------- प्रशंसायां यावद्यथाभ्यां युक्तमनन्तरं तिङन्तमनिहतं न, निहतमेव । यावदर्चति हरिं चारु । यथार्चति सुष्ठु । सान्तरे तु न निघातः । यावत्कृष्णमर्चति ।