81007: उपर्यध्यधसः सामीप्ये
===========================
**Padacheda:** उपर्यध्यधसः | S | 6 | 1 |
सामीप्ये | S | 7 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
1. उपरि 2. अधि and 3. अधस् are repeated when it expresses uninterrupted nearness.
Vasu English Translation
------------------------
1. उपरि 2. अधि and 3. अधस् are repeated when it expresses uninterrupted nearness.
The word *samipya* means 'proximity' whether in time or space. As उपर्युपरि दुःखम्, or उपर्युपरि ग्रामम्, अध्यधि ग्रामम्, अधोधो नगरम् ॥ Why do we say 'meaning near'? Observe उपरि चन्द्रमा: ॥ Why the word is not repeated here : उपरि शिरसो घटं धारयति ॥ The relation expressed here is not that of nearness, but that of above and below.
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ।
अधोधो दर्शने कस्य महिमा नोपजायते ॥
Here the doubling is in the sense of *vipsa*.
Kashika
-------
उपरि अधि अधस् इत्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्यु॒प॒रि॒ दुःखम्। उपर्यु॒प॒रि॒ ग्रामम्। अध्य॒धि॒ ग्रामम्। अधोऽधो॑ नगरम्। सामीप्य इति किम् ? उपरि चन्द्रमाः। इह कस्माद् न भवति — उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विवक्षितं न सामीप्यमिति द्विर्वचनं न भवति॥
Siddhanta Kaumudi
-----------------
उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥
Balamanorama
------------
**उपर्यध्यधसः सामीप्ये** - उपर्यध्यधसः । उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम् ।
Tattvabodhini
-------------
**उपर्यध्यधसः सामीप्ये** - उपर्यध्य । सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा । अध्यधि सुखमिति । कालकृतस्योदाहरणमिदम् । सामीप्य इति किम्ष उपरि चन्द्रमाः ।उपरि शिरसो घचं धारयती॑त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम् । अत्र चउपज्ञोपक्रमं तदाद्यचिख्यासाया॑मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः ।
Padamanjari
-----------
उपर्यादीनां योऽर्थस्तस्य सामीप्यद्योतनाय द्विर्वचनम् । सामीप्यमुप्रत्यासतिः, तच्च देशकृतं कालकृतं वा । उपर्युपरिदुः खमिति । कालकृतस्योदाहरणम् । दुः खस्य सामीप्येनोपरिष्टादित्यर्थः । ठुभसर्वतसोःऽ इत्युपसंख्यानेन द्वितीया । उपर्युपरि ग्रामिति । ग्रामस्य सामीप्येनोपरिष्टाद्देश इत्यर्थः । अध्यधि ग्राममिति । अधिरुपरिभावे, यथा -'समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वा' इति । अधोऽधो ग्राममिति । ग्रामस्य सामीप्येनाधस्ताद् देश इत्यर्थः । यथा'नवानधो' धो बृहतः पयोधरान्ऽ इति । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधो दर्शने कस्य महिमा नोपजायते ॥ इति तु वीप्सायां द्विर्वचनम् । उपरि चन्द्रमा इति । अत्र भूगतमपेक्ष्योपरिभावस्य सामीप्यं नास्ति । उपरि शिरस इत्यादि । न हि वस्तुसतैव शब्दत्युत्पतेः प्रधानं कारणम्, किं तर्हि ? विवक्षा, सा चेह नास्ति । शिरस उपरिष्टाद् घट्ंअ धारयति नाधस्तादिति ह्यत्र विवक्षितम् । सामीप्यं तु वस्तुतः सम्भवति ॥
Prakriyasarvasvam
-----------------
एते सामीप्ययुक्ते स्वार्थे द्विरुच्यन्ते । आम्रेडितान्तेषूपर्यादिषु सत्सु द्वितीयेष्टा । उपर्युपरि सौधाग्रं समराङ्गणमध्यधि । अधोऽधो मेघवीथीं च ददृशे सौममुद्भ्रमत् ॥ ५२१ ॥ अतितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते । अतितः केशवं गोपा गावस्तं परितः स्थिताः । समया तं स्थिता राधा निकषा तां सखीजनाः ॥ ५२२ ॥ हा कृष्णमिति शोचामि कृष्णो मां प्रति भासताम् । प्रतौ क्वचिन्नेति रामो बालोऽयं प्रतिभाति मे ॥ ५२३ ॥ तरुणीत्रिशतं यावदित्याद्यवधिवाचिनः । यावतोऽप्यन्वये दृष्टं तच्च सिद्धं दृशिग्रहात् ॥ ५२४ ॥ हाधिग्योगे प्रथमापि दृश्यत इति शृङ्गारे । हा पुत्रकः । धिक् प्रमादः । क्वचिद् गम्यमानापि क्रिया कारकत्वनिमित्तमिति हराद्युक्तैः धिगहं जन्म नारीणामित्यादि- सिद्धिः । कारकत्वनिमित्तं स्याद्गम्यमाना क्रिया क्वचित् । धिगहं जन्म नारीणामित्यादिस्तेन सिध्यति ॥ ५२४(a) ॥ तत्राहं धिक्करोमीति करोत्यर्थो हि गम्यते । उक्तन्यायश्च भूयिष्ठवक्तव्यादिविभञ्जकृत् ॥ ५२५ ॥