81003: अनुदात्तं च ================== **Padacheda:** अनुदात्तम् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- That which is called अम्रेडित (repeated) is gravely accented. Vasu English Translation ------------------------ That which is called अम्रेडित (repeated) is gravely accented. Thus भुङ्क्ते भु॒ङ्क्ते॒; पशून् प॒शू॒न् ॥ That is, all the vowels of the *amredita* become *anudatta* or accentless. In the above examples, the root भूञ् becomes *atmanepadi* by (1.3.66): the Personal endings are *anudatta* by (6.1.186); the *vikarana* शनम् gets the acute by (3.1.3); the अ꣡ of this न꣡ is elided by (6.4.111), and thus भुङ्क्ते꣡ becomes finally acute by *udatta*-*nivrtti*-*svara* (6.1.161). The *amredita* *bhunkte* becomes wholly *anudatta*. The word पशु is formed by the affix कु and is finally acute. Kashika ------- अनुदात्तं च तद् भवति यदामे्रडितसंज्ञम्। भुङ्क्तेभु॒ङ्क्ते॒। पशून्प॒शू॒न्॥ Siddhanta Kaumudi ----------------- द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ॥ Padamanjari ----------- परमित्यनेन सामानाधिकरण्यातस्य चाज्झल्समुदायरूपत्वादन्यर्थोऽत्रानुदातशब्दः - अविद्यमानमुदातमनुदातमिति । स्वरितेऽप्युदातस्य भावातस्यापि निवृत्तिः । एवमपि न ज्ञायते - केन स्वरेणाम्रेडितं प्रयोक्तव्यमिति ? उच्यते; उदातस्वरितौ तावन्निषिद्धौ, न चास्वरकस्याच उच्चारणं सम्भवति, तत्र पारिशेष्यादनुदातत्वमेव भविष्यति । यद्वा - अनुदाताच्कमनुदातम्, आम्रेडितस्था अचोऽनुदाता भवन्तीत्यर्थः । भुङ्क्तभुङ्क्त इति ।'भुजो' नवनेऽ इत्यात्मनेपदम्, तस्य'तास्यनुदातेत्' इत्यनुदातत्वम्, श्नमः प्रत्ययस्वरः, तस्य'श्नसोरल्लोपः' इत्यल्लोपे उदातनिवृत्तिस्वरेण भुङ्क्तेशब्दोऽन्तोद्रुतिः, द्विर्वचनेन परस्यानुदातत्वम् । पशुशब्दः कुप्रत्ययान्तोऽन्तोदातः ॥ Nyaas ----- प्रकृतिस्वरे प्राप्ते परस्यानुदात्तत्वमुच्यते। अनुदात्तशब्दश्चात्र परशब्दसामानाधिकरण्यान्न शास्त्रीयमनुदात्तमाह, किं तर्हि? अन्वर्थो विज्ञायते -अविद्यमानमुदात्तमनुदात्तमिति। शास्त्रीये ह्रनुदात्ते गृह्रमाणे सम्बन्धार्थं परस्यैति षष्ठ्युच्चारयितव्या स्यात्। तथा च **अलोऽन्त्यस्य** (1.1.52) स्यात्। अथापि सर्वस्येत्यनुवर्तत, एवमपि वचनप्रामाण्यादेककाल एव सर्वादेशः प्रसज्येत। तस्मादन्वर्थस्यैव ग्रहणं युक्तम्। `भुङक्तेभुङ्क्ते` इति। **भुजोऽनवने** (1.3.66) इत्यात्मनेपदम्। तस्मिन्? कृते सति शिष्टस्वरत्वाद्धातुस्वरं बाधित्वा प्रत्ययस्वरः। श्नमि कृते यद्यपि तस्य स्वरः सतिशिष्टः, तथापि `विकरणस्वरः सार्वधातुकस्वरं न बाधते` इति तेशब्द एव स्वरे प्रसक्ते **तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः** (6.1.186) इति सार्वधातुकस्यानुदात्तत्वम्, श्नसोरल्लोपे कृते **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इति पुनस्तेशब्द उदात्तः, नित्ये चार्थे द्विर्वचनम्, तस्मिन्? कृतेऽनेन परमनुदात्तं भवति। `पशून्पशून्` इति। `कुभ्र्रश्च` (द।उ।1-107) इत्यत `कुः` इत्यनुवर्तमाने `अर्जिवृशिकसम्यमिपशिबाध#आमृजिपशितुग्धुग्दीर्घहकाराश्च` (द।उ।1।112) इति कुप्रत्ययः, दृशे पशिरदिशश्च। पशृशब्दः प्रत्ययस्वरेणान्तोदात्तः, विभक्त्यकारेण सहैकादेशः, **एकादेश उदात्तेनोदात्तः** (8.2.5) वीप्सायां द्विर्वचनम्, अनेन परस्यानुदात्तत्वम्॥ Prakriyasarvasvam ----------------- आम्रेडितमनुदात्तं स्यात् इति सर्वानुच्चः । एवं दिवे दिव इत्याविष्वप्या- म्रेडितस्य सर्वानुच्चत्वमूह्यम् ।