74096: विभाषा वेष्टिचेष्ट्योः¶
Padacheda: विभाषा | S | 1 | 1 |
वेष्टिचेष्ट्योः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
Short अ is optionally substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of वेष्ट् and चेष्ट्।
Vasu English Translation¶
Short अ is optionally substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of वेष्ट् and चेष्ट्। Thus अववेष्टत् or अविवेष्टत्, अचचेष्टत् and अचिचेष्टत् ॥ In one alternative there is shortening of the reduplicate (7.4.59), and after such shortening, there is अ substituted in the other alternative.
Kashika¶
वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययमादेशो भवति चङ्परे णौ परतः। अववेष्टत्, अविवेष्टत्। अचचेष्टत्, अचिचेष्टत्। अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति।
Siddhanta Kaumudi¶
अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-(SK2565) इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् ।<!काण्यादीनां वेति वक्तव्यम् !> (वार्तिकम्) ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥
Balamanorama¶
विभाषा वेष्टिचेष्ट्योः - विभाषा वेष्टिचेष्ट्योः । ‘अत्र लोपः’ इत्यस्मादभ्यासस्येत्यनुवर्तते । ‘अत्स्मृदृत्वरे’ त्यतोऽदिति,सन्वल्लघुनी॑इत्यतश्चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः । णावित्यार्थिकम् । तदाह — अभ्यासस्याऽत्त्वमिति । अबिभ्रजदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम् ।दीर्घो लघो॑रिति तु न, संयोगापरत्वादलघुत्वात् । काण्यादीनां वेति ।णौ चङ्युपधाया इति ह्रस्व॑ इति शेषः । ण्यन्ताः कणरणेति । ‘कण निमीलने’रण शब्दे॑, ‘भण शब्दे’श्रण दाने॑,लुप छेदने॑,हेठ विबाधाया॑मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ।ह्वेञ् स्पर्धायां शब्दे च॑ । आत्त्वे युकि च निर्देशः । ‘वण शब्दे’ दन्त्योष्ठआदिः,लुठ प्रतिघाते॑टवर्गद्वितीयोपधः,लप व्यक्तायां वाचि॑ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । ‘चण दाने’ तालव्यादिः । ‘लुट स्तेये’ टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च । अचकाणदिति । उपधाह्रस्वाऽभावपक्षे रूपम् । अरीरणत्- अरराणत् । अबीभणत्- अबभाणत् ।अशिश्रणत्- अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजूहवत्-अजुहावत् । अवीवणत्- अववाणत् । अलूलुठत् - अलुलोठत् । अलीलपत- अललापत् । अचीचमत्- अचचाणत् । अलूलुटत्- अलुलोटत् ।
Nyaas¶
वेष्ट वेष्टने (धातुपाठः-255), चेष्ट चेष्टायाम् (धातुपाठः-256) - एतयोरभ्यासस्य लघुपरता नास्तीत्यप्राप्त एव सन्वद्भाव इति अनेन विभाषाऽकारो विधीयते॥
Prakriyasarvasvam¶
अनयोः चङ् परे णावभ्यासस्य अत्वं वा स्यात् । अबवेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । अत्वाभावेऽभ्यासह्रस्व एव इक् । शासयति ।
Sutra Prayogas¶
अचिचेष्टच्च (भट्टिकाव्यम्): वि- भाषा वेष्टि- चेष्टयोः इत्यभ्यासस्यात्वपक्षे रूपम्।
रावणीनववेष्टताम् (भट्टिकाव्यम्): विभाषा चेष्टि-चेष्टयोः इत्यभ्यासस्यात्वम्।