74095: अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्

Padacheda: अत् | S | 1 | 1 |

स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

Short अ is substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of the roots 1. स्मृ 2. दॄ 3. त्वर 4. प्रथ 5. म्रद 6. स्तॄ and 7. स्पश्।

Vasu English Translation

Short अ is substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of the roots 1. स्मृ 2. दॄ 3. त्वर 4. प्रथ 5. म्रद 6. स्तॄ and 7. स्पश्। Thus असस्मरत्, अददरत्, अतत्वरत्, अपप्रथत्, अमम्रदत्, अपस्पशत् ॥ This debars the इ which would have come under (7.4.93). The short अ indicates that it is not to be lengthened by (7.4.94), as अददरत् ॥

Kashika

स्मृ दॄ त्वर प्रथ म्रद स्तॄ स्पश इत्येतेषामभ्यासस्य अतित्ययमादेशो भवति चङ्परे णौ परतः। स्मृ असस्मरत्। दॄ अददरत्। त्वर अतत्वरत्। प्रथ अपप्रथत्। म्रद अमम्रदत्। स्तॄ अतस्तरत्। स्पश अपस्पशत्। सन्वद्भावातित्वं प्राप्तमनेन बाध्यते। तपरकरणसामर्थ्यातति कृते दीर्घो लघोः (7.4.94) इत्येतदपि न भवति, अददरत्।

Siddhanta Kaumudi

एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् ।{$ {!1554 पृथ!} प्रक्षेपे$} । पर्थयति ॥

Balamanorama

अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् - अत्स्मृ । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति ।सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते । चङ् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः । इत्त्वेति । ‘सन्यतः’ इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते । अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः । रपरत्वम् ।

Padamanjari

तपरकरणसार्थ्यादिति । स्थानिनो ह्रस्वत्वाद् भाव्यमानत्वेन सवर्णग्रहणाच्च नानेन दीर्घस्य प्रसङ्गः, अतो लक्षणान्तरेण प्राप्तं दीर्घत्वं तपरकरणेन व्यावर्त्यते ॥

Nyaas

स्मृ चिन्तायाम् (धातुपाठः-933), दृ भये (धातुपाठः-808), ञि त्वरा सम्भ्रमे (धातुपाठः-775), प्रथ प्रख्याने (धातुपाठः-1553), म्रद मर्दने (धातुपाठः-767), स्तृञ्? आच्छादने (धातुपाठः-1484), स्पशबाधनस्पर्शनयोः (धातुपाठः-887)। अथ अददरत् इत्यत्र दीर्घो लघोः (7.4.94) इति दीर्घत्वं कस्मान्न भवतीत्याह - तपरकरणसामर्थ्यात् इत्यादि। अनेनैव हि लक्षणेन दीर्घो औव प्राप्नोति, यस्य निवृत्तिस्तपरकरणेन क्रियते; भाव्यमानोऽण्? सवर्णान्? न गृह्णाति (व्या।पा।35)। इति भाव्यमानानां सवर्णानामग्रहणात्? सर्वत्र स्थादिनो ह्रस्वत्वाच्च। तत्र यदि लक्षणान्तरेणापि प्राप्नुक्तो दीर्घस्य निवर्तकं तपरकरणं न स्यान्निरर्तकमेव तपरकरणं स्यात्। तस्मात्? तपरकरणसामर्थ्यादिति कृते दीर्घो लघोः (7.4.94) इति दीर्घो न भवतीति भावः॥

Prakriyasarvasvam

एषां चङपरे णौ परेऽभ्यासस्य सन्वदित्त्वापवादोऽत् स्यात् । स्मारयति । असस्मरत् । दारयति । अददरत् । स्तारयति । अतस्तरत् । स्पाशयति । अपस्पशत् । स्वरप्रदन्नदां तु णौ वृद्धौ कृतायां, ‘घटादयो मितः’ (ग-सू) इति मित्त्वे,

Sutra Prayogas

  • अतत्वरच्च (भट्टिकाव्यम्): अत् स्मृ-हृ- स्वर इत्यभ्यासस्यात्वम्।

  • अपप्रथद् (भट्टिकाव्यम्): अत् स्मृ-हृ-स्वर इत्यादिना ऽत्वम्।