74096: विभाषा वेष्टिचेष्ट्योः ============================= **Padacheda:** विभाषा | S | 1 | 1 | वेष्टिचेष्ट्योः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- Short अ is optionally substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of वेष्ट् and चेष्ट्। Vasu English Translation ------------------------ Short अ is optionally substituted for the vowel of the reduplicate in the reduplicated Aorist of the Causative of वेष्ट् and चेष्ट्। Thus अववेष्टत् or अविवेष्टत्, अचचेष्टत् and अचिचेष्टत् ॥ In one alternative there is shortening of the reduplicate (7.4.59), and after such shortening, there is अ substituted in the other alternative. Kashika ------- वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययमादेशो भवति चङ्परे णौ परतः। अववेष्टत्, अविवेष्टत्। अचचेष्टत्, अचिचेष्टत्। अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति। Siddhanta Kaumudi ----------------- अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-(SK2565) इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् । (वार्तिकम्) ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥ Balamanorama ------------ **विभाषा वेष्टिचेष्ट्योः** - विभाषा वेष्टिचेष्ट्योः । 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'अत्स्मृदृत्वरे' त्यतोऽदिति,सन्वल्लघुनी॑इत्यतश्चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः । णावित्यार्थिकम् । तदाह — अभ्यासस्याऽत्त्वमिति । अबिभ्रजदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम् ।दीर्घो लघो॑रिति तु न, संयोगापरत्वादलघुत्वात् । काण्यादीनां वेति ।णौ चङ्युपधाया इति ह्रस्व॑ इति शेषः । ण्यन्ताः कणरणेति । 'कण निमीलने'रण शब्दे॑, 'भण शब्दे'श्रण दाने॑,लुप छेदने॑,हेठ विबाधाया॑मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ।ह्वेञ् स्पर्धायां शब्दे च॑ । आत्त्वे युकि च निर्देशः । 'वण शब्दे' दन्त्योष्ठआदिः,लुठ प्रतिघाते॑टवर्गद्वितीयोपधः,लप व्यक्तायां वाचि॑ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । 'चण दाने' तालव्यादिः । 'लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च । अचकाणदिति । उपधाह्रस्वाऽभावपक्षे रूपम् । अरीरणत्- अरराणत् । अबीभणत्- अबभाणत् ।अशिश्रणत्- अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजूहवत्-अजुहावत् । अवीवणत्- अववाणत् । अलूलुठत् - अलुलोठत् । अलीलपत- अललापत् । अचीचमत्- अचचाणत् । अलूलुटत्- अलुलोटत् । Nyaas ----- `वेष्ट वेष्टने` (धातुपाठः-255), `चेष्ट चेष्टायाम्` (धातुपाठः-256) - एतयोरभ्यासस्य लघुपरता नास्तीत्यप्राप्त एव सन्वद्भाव इति अनेन विभाषाऽकारो विधीयते॥ Prakriyasarvasvam ----------------- अनयोः चङ् परे णावभ्यासस्य अत्वं वा स्यात् । अबवेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । अत्वाभावेऽभ्यासह्रस्व एव इक् । शासयति । Sutra Prayogas -------------- * **अचिचेष्टच्च** (भट्टिकाव्यम्): `वि- भाषा वेष्टि- चेष्टयोः` इत्यभ्यासस्यात्वपक्षे रूपम्। * **रावणीनववेष्टताम्** (भट्टिकाव्यम्): `विभाषा चेष्टि-चेष्टयोः` इत्यभ्यासस्यात्वम्।