74097: ई च गणः

Padacheda: ई | S | | | 1

च | S | 0 | 0 |

गणः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the reduplicated Aorist of the Causative, ई is substituted optionally for the vowel of the reduplicate in गण्।

Vasu English Translation

In the reduplicated Aorist of the Causative, ई is substituted optionally for the vowel of the reduplicate in गण्। As अजीगणत् or अजगणत् ॥ गण is a root which ends in अ, and this अ being elided by (6.4.48) before the Causative णि, the rule (7.4.93), does not apply to it, because there is an ak-lopa here, so in the other alternative, it has its natural अ ॥

Kashika

गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारादत् च। अजीगणत्, अजगणत्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः। अष्टमोऽध्यायः प्रथमः पादः।

Siddhanta Kaumudi

गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् ।{$ {!1855 शठ!} {!1856 श्वठ!} सम्यगवभाषणे$} ।{$ {!1857 पठ!} {!1858 वठ!} ग्रन्थे$} ।{$ {!1859 रह!} त्यागे$} । अररहत् ।{$ {!1860 स्तन!} {!1861 गदी!} देवशब्दे$} । स्तनयति । गदयति अजगदत् ।{$ {!1862 पत!} गतौ वा$} । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ।{$ {!1863 पष!} अनुपसर्गात्$} । गतावित्येव । पषयति ।{$ {!1864 स्वर!} आक्षेपे$} । स्वरयति ।{$ {!1865 रच!} प्रतियत्ने$} । रचयति ।{$ {!1866 कल!} गतौ संख्याने च$} ।{$ {!1867 चह!} परिकल्कने$} । परिकल्कनं दम्भः शाठ्यं च ।{$ {!1868 मह!} पूजायाम्$} । महयति । महतीति शपि गतम् ।{$ {!1869 सार!} {!1870 कृप!} {!1871 श्रथ!} दौर्बल्ये$} । सारयति । कृपयति । श्रथयति ।{$ {!1872 स्पृह!} ईप्सायाम्$} ।{$ {!1873 भाम!} क्रोधे$} । अबभामत् ।{$ {!1874 सूच!} पैशून्ये$} ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् ।{$ {!1875 खेट!} भक्षणे$} ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ।{$ {!1876 क्षोट!} क्षये$} ।{$ {!1877 गोम!} उपलेपने$} । अजुगोमत् ।{$ {!1878 कुमार!} क्रीडायाम्$} । अचुकुमारत् ।{$ {!1879 शील!} उपधारणे$} । उपधारणमभ्यासः ।{$ {!1880 साम!} सान्त्वप्रयोगे$} । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ।{$ {!1881 वेल!} कालोपदेशे$} । वेलयति । काल इति पृथग्धातुरित्येके । कालयति ।{$ {!1882 पल्पूल!} लवनपवनयोः$} ।{$ {!1883 वात!} सुखसेवनयोः$} । वातयति । अववातत् ।{$ {!1884 गवेष!} मार्गणे$} । अजगवेषत् ।{$ {!1885 वास!} उपसेवायाम् $}।{$ {!1886 निवास!} आच्छादने$} । अनिनिवासत् ।{$ {!1887 भाज!} पृथक्कर्मणि$} ।{$ {!1888 सभाज!} प्रीतिदर्शनयोः$} । प्रीतिसेवनयोरित्यन्ये । सभाजयति ।{$ {!1889 ऊन!} परिहाणे$} । ऊनयति । ओः पुयण्जि (SK2577) इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् ।{$ {!1890 ध्वन!} शब्दे$} । अदध्वनत् ।{$ {!1891 कूट!} परितापे$} । परिदाहे इत्यन्ये ।{$ {!1892 सङ्केत!} {!1893 ग्राम!} {!1894 कुण!} {!1895 गुण!} चामन्त्रणे$} । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् - केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केतेति ।{$ {!1896 कूण!} सङ्कोचने इति$} ।{$ {!1897 स्तेन!} चौर्ये$} ॥ अतिस्तेनत् ॥ आ गर्वादात्मनेपदिनः ॥{$ {!1898 पद!} गतौ$} । पदयते । अपपदत ।{$ {!1899 गृह!} ग्रहणे$} । गृहयते ।{$ {!1900 मृग!} अन्वेषणे$} । मृगयते । मृग्यतीति कण्ड्वादिः ।{$ {!1901 कुह!} विस्मापने$} ।{$ {!1902 शूर!} {!1903 वीर!} विक्रान्तौ$} ।{$ {!1904 स्थूल!} परिबृंहणे$} । स्थूलयते । अतुस्थूलत ।{$ {!1905 अर्थ!} उपायाच्ञायाम्$} । अर्थयते । आर्तथत ।{$ {!1906 सत्र!} सन्तानक्रियायाम्$} । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते ।{$ {!1907 गर्व!} माने$} ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ {$ {!1908 सूत्र!} वेष्टने$} । सूत्रयति । असुसूत्रत् ।{$ {!1909 मूत्र!} प्रस्रवणे$} । मूत्रयति । मूत्रति ।{$ {!1910 रूक्ष!} पारुष्ये$} ।{$ {!1911 पार!} {!1912 तीर!} कर्मसमाप्तौ$} । अपपारत् । अतितीरत् ।{$ {!1913 पुट!} संसर्गे$} । पुटयति ।{$ {!1914 धेक!} दर्शन इत्येके$} । अदिधेकत् ।{$ {!1915 कत्र!} शैथिल्ये$} । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि - (SK2314) इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (गणसूत्रम् -) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (गणसूत्रम् -) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (गणसूत्रम् -) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ।<!आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति !> (वार्तिकम्) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥

Laghu Siddhanta Kaumudi

गणयतेरभ्यासस्य ई स्याच्छङ्परे णौ चादत् । अजीगणत्, अजगणत् ॥ इति चुरादयः ॥ १० ॥

Balamanorama

ई च गणः - ई च गणः । ‘सन्वल्लघुनी’ त्यतश्चङ्परे इति,अत्र लोपे॑त्यतोऽभ्यासस्येति चानुवर्तते । तदाह - गणेरभ्यासस्येति ।अत्स्मृदृत्वरे॑ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते । तदाह — चाददिति । स्तनगदी देवशब्दे इति । पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः । तदाह — वा णिजन्त इति । आधृषीयत्वाऽभावाद्विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः । णिच् तु नित्य एव । तदाह — वा अदन्त इत्येके इति । प्रथमपक्षे तु अदन्तत्वमेव । तदाह — आद्ये पतयतीति । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पतांचकारेति । णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः । चङि — अपपतत् । अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति । तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः । अपीपतदिति । अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति । अदन्तस्य त्वस्य धात्वन्तरत्वात् ‘कृपो रो लः’ इति न भवति । स्पृह ईप्सायाम् । आप्तुमिच्छा- ईप्सा । अबभामदिति । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । सूच पैशुन्ये । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति । टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः = अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । ननु ‘साम सान्त्वने’ इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह — सामसान्त्वने इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वे, दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपिसाम सान्त्वप्रयोगे॑ इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणम् - अन्वेषणम् । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । तदाह - अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणम् - न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपेचङी॑त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्यद्विर्वचनेऽची॑ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो॑रित्येव वक्तव्ये ‘पु’ इति पवर्गस्य,य॑णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्मित्यन्वयः । कुत्र लिङ्गमित्यत आह — णिचीत्यादि । द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः ।तथाहि - ‘ओः पुयण्ज्यपरे’ इति सूत्रम् ।सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत॑ इति तद । ‘पुङ्’ पिपवायिषति,भू॑बिभावयिषति,यु॑- यियावयिषति,रु॑- रिरावयिषति,लूञ्- लिलावयिषति,जु॑- जिजवयिषतीत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचिद्विर्वचनेऽची॑ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्रस्वे सति ‘सन्यतः’ इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या ‘सन्यतः’ इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात् । तत्र हि — इको झ॑ल#इति सनः कित्त्वात् ‘श्र्युकः किति’ इति प्राप्तमिण्निषेधं बाधित्वा,स्मिपूङ्रञ्ज्वशां सनी॑ति,सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना॑मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततयाद्विर्वचनेऽची॑ति गुणावाऽदेशयोर्निषेधे सति ‘पू’ ‘यु’ इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन ‘सन्यतः’ इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थंपययो॑रित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणंतु द्वित्वे कार्ये णावच आदेशो ने॑त्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुपते सतिचङी॑ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन ‘सन्यतः’ इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः । ननु ‘कृत संशब्दने’ अस्मात् णौउपधायाश्चे॑ति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृदित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह — यत्र द्विरुक्तावित्यादि । यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः । नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः , नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र ‘क्षु’ इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः । न द्वितीयः, ऊन इ अ त् इति स्थिते सतिने॑त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति ‘नी’ त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह — प्रक्रियायां परिनिष्ठिते रूपे वेति । न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृत इत्त्वस्य न निषेध इति भावः । एवं चचुक्षावयिषती॑त्यत्र ‘क्षु’ इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह — प्रकृते त्विति । औननदित्यत्रेत्यर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः । तत इति । नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह — मा भवानूननदिति । अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति । ‘केत श्रावणे’ इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । ‘समुच्चीयते’ इतिशेषः । सङ्कोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ । स्तेन चौर्ये । अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह — अतिस्तेनदिति । गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः । लुङि - अजगृहत । अग्लोपित्वान्न सन्वत्तवम् । मृग अन्वेषणे । मृगयते इति । इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । ‘मार्ग् अन्वेषणे’ इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः, न तुअचो ञ्णिती॑ति वृद्धि,वृद्धेर्लोपो बलीया॑ निति न्यायात् ।अर्थवेदयो॑रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात् । नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः । नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामर्थ्याण्णिज्विकल्प इति । ननु ‘गर्वते’ इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह — धातोरन्त उदात्त इति । तेन ‘गर्वते’ इत्यत्र वकारादकारौदात्तः फलति । अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः । लिटआम् चेति । ‘गर्वाचक्रे’ इतय्त्र ‘कास्यनेकाचः’ इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः । एवमग्रेऽपीति । ‘मूत्र प्ररुआवणे’ इत्यादावित्यर्थः । इत्यागवर्वीयाः । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वाह — कर्तयति कर्ततीति । प्रातिपदिकाद्धात्वर्थे । चुरादिगमसूत्रमिदम् ।इष्ठ॑वदिति सप्तम्यन्ताद्वतिः । तेन भुवमाचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति यिडागमो न भवति । तदाह — इष्ठे यथेति । अत्रधात्वर्थे इत्यनेन करणमाख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्र ‘भस्याऽढे’ इति पुंवत्त्वम् । ‘द्रढिष्ठ’ इत्यत्रर ऋतो हलादेर्लघो॑रिति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौस्थूलदूरयुवे॑त्यादिना यणादिलोपः, पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । पटयतीति । पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वाट्टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह - परत्वादद्वृद्धौ सत्यां टिलोप इति ।अचो ञ्णितीत॑ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः । अकृतायां तु वृद्धावुकारस्य टेर्लोपः । ततश्चशब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायेन टिलोपोऽनित्यः । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या । एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः । तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः । एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽऽह - अपीपटदिति । एतच्चमुण्डमिश्रे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु — वृद्धेर्लोपो बलीया॑नितिणौ चङी॑ति सूत्रभाष्यमेव प्रमाणं ।मुण्डमिश्रे॑ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुंवद्भावादिकमुदाह्यियते — एनीमाचष्टे एतयति । पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः । दृढमाचष्टे द्रढयति । ‘र ऋतः’ इति रभावः । रुआग्विणमाचष्टे रुआजयति ।विन्मतो॑रिति विनो लुक् । गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात् । रुआग्विणमाचष्टे रुआजयति । सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः । आचारक्विबिव प्रातिपदिकादेवेदम् । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैव प्रपञ्चेति । ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह — करोत्यचष्टे इत्यादि । लडर्थ इत्युपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् ।प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रम् । णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे — णिच्प्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह — वशब्दोऽनुक्तसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह — तथा च वार्तिकमिति । आख्यानात्कृत इति.॒हेतुमति चे॑ति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं — वृत्तकथाप्रबन्धः । तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः ।प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते । कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम् । हननं वधः । ‘हनश्च वधःर’ इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च । कंसस्य वधः कंसवधः । तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथा च फलितं दर्शयति — इह कंसं हन् इ इति स्थिते इति ।

Tattvabodhini

ई च गणः - ई च गणः ।अत्स्मृदृत्वरे॑त्यत्र योऽत् स चकारेण समुच्चीयते । स्तन गदी ।गदी॑ त्यत्र इका निर्दशादतो लोपः । अनेकाच्त्वेनाषोऽपदेशत्वात्षत्वं न । तिस्तनयिषति ।स्तनिह्मषिपुषी॑ति णेरिष्णुचिअयामन्ते॑त्ययादेशः ।स्तनयित्नुर्बलाहकः॑ । पत गतौ वा । गणसूत्रमिदम् । कृपयतीति ।कृपो रो लः॑ इति न प्रवर्तते, तत्र कृपू सामर्थ्य इत्यस्य ग्रहणात्, कृपप्रकृतिकणिजन्तस्य तु धात्वन्तरत्वात् । स्पृह । आप्तुमिच्छा ईप्सा । अबभामदिति । अल्लोपस्य स्थानिवत्त्वात्णौ चङी॑त्युपधाह्रस्वो न । सूच । पिशूनो दुर्जनस्तस्य कर्म पैशुन्यम् । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । साम सान्त्वने इत्यतीतस्य त्विति । अयं धातुरितः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः, पुस्तकान्तरेषु मृघ्यः । केचित्तुसाम सान्त्वने॑ इत्यस्य क्वाप्यपठितत्वेपिषान्त्व सामप्रयोगे॑ इति प्राक्पठितमेव । तत्र चषान्त्व॑सामे॑ति धातुद्वयं प्रयोगे वर्तते । प्रयोगश्च सान्त्वप्रयोगपरः । स च सान्त्वनमेवेत्येवं ग्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समथ्र्यन्ते । गवेष । मार्गणम् — अन्वेषणम् । ऊन परिहाणे । अस्माण्णौ चङि द्वित्वात्परत्वादन्तरङ्गत्वाच्च अल्लोपेनअजादेर्द्वितीयस्ये॑ति णिचा सह दित्वे औ निनदित्यनिष्टं प्रसज्येत, किं तु औननदित्येवं रूपमिष्टम् । तच्च नशब्दस्य दित्वं सिध्यतीति वाच्यं, णिचो द्वित्वनिमित्तत्वाऽभावादत आह — ओः पुयण्जीत्यादि । संपूर्णसूत्रं लिङ्गमिति केषांचिद्भ्रमं निवर्तयितुमाह — पययोरिति । अयं भावः -स्मिपूङ्ञ्ज्वशां सनि॑,सनीवन्तर्द्धे॑ति सूत्राभ्यां पूङ्यौतिभ्यां परस्य सन इडागमे कृतेद्विर्वचनेऽची॑ति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्वित्वमिति — पुपविषते युयविषतीत्यनिष्टं प्रसज्येत । ततश्चाऽभ्यासोवर्णस्येत्वार्थं पययोरित्यपेक्षितम् । अन्यथा पिपविषते यियविषतीति न सिध्येदिति । वर्गप्रत्याहारेति ।पुयण्जी॑ति वर्गादिग्रहणफलं तु — अबीभवत् अमीमवत् अरीरवत्, अलीलवत्, अजीजवत्, बिभावयिषति मिमावयिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम् ।तदुभयं सूपपादम् । णिचि परत्वादन्तरङ्गत्वाच्च वृद्ध्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभत्वात्, अकारस्यसन्यतः॑ इतीत्वेन रूपसिद्धेश्च । ततो वर्गादिग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमिति भावः । ज्ञापनफलं तु यत्रओः पुयण्जी॑त्यस्याऽप्राप्तिस्तत्र बोध्यम् । तद्यथा - चुक्षावयिषति । चङि अचुक्षवत् । तु इति सौत्रो धातुस्ततो णौ सन् । तुतावयिषति । चङि अतूतवत् । नुनावयिषति । अनूनवत् । पुस्फारयिषति । अपुस्फुरत् ।चिस्फुरोर्णौ॑ इति वा आत्वम् । अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति ज्ञापनात्, अन्यथा चिक्षावयिषतीत्यादि प्रसज्येत । तदेतत्सकलमभिप्रेत्य वार्तिककृतोक्तम्ओः पुयण्जिषु वचनं ज्ञापकं — णौ स्थानिवद्भावस्ये॑ति । स्थानिवद्भावः प्रतिषेधस्याप्युपलकक्षणम् । अच आदेशो न स्यादिति । प्रतिषेधपक्षो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्भाव्सयाप्युपलक्षणमिति वा बोध्यम् । नन्वेवं कृतसंशब्दन इति धातोर्णौ चङि इरादेशात्प्रागेव कृत इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान्न तु अचिकीर्तदित्यत आह — यत्र द्विरुक्ताविति । आद्योऽजिति । चङ्सहितस्योत्तरखण्डत्वमभ्युपेत्येदमुक्तम् । अन्ये तु आद्यग्रहणं स्पष्टप्रतिपत्त्यर्थं, धातोरवयस्यैकाचो दित्वे सत्यभ्यासोत्तरखण्डे अज्द्वयाऽसंभवादित्याहुः । औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्याऽलाभादाह — प्रक्रियायामिति । चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह — परिनिष्ठिते रूपे वेति । वाशब्दोऽनास्थायाम् । क्वचिदवर्णपरत्वं विवक्षितं, न तु अमुकत्रैवेत्याग्रह इति भावः । सजातीयापेक्षत्वादिति ।पुयण्जी॑त्यभ्यासोत्तरखण्डे अवर्णपरा भवन्ति । अतस्तथैव ज्ञापकमित्यर्थः । अत एव भाष्यकृतापवर्गादेरन्यस्मिन्नपि हलि अवर्णपरे एव स्थानिवत्तवमिति अचिकीर्तदित्यादौ नाऽतिव्याप्ति॑रिति सिद्धान्तितम् । ननुओः पुयण्जी॑ ति सूत्रे णिचि इति नास्ति, तथा च णिच्यच आदेशो न स्यादित्यर्थे कथमिदं ज्ञापकं भवेत् । न च सामान्यतो द्वित्वे कार्ये अच आदेशो न स्यादित्येव ज्ञाप्यतामिति वाच्यं, दिदवनीयिषति निनयिषतीत्यादावभ्यासे उकारश्रवणप्रसङ्गादिति चेत् । अत्राहुः — येन नाव्यवधानमित्यकेन प्रत्ययेन द्वित्वनिमित्तप्रत्ययस्य व्यवधानमाश्रीयते । तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकं, दिदवनीयिषतीत्यत्र तु ल्युटा क्यचा च व्यवदानादनेकव्यवधानमिति न तद्विषयकं ज्ञापनमिति । अस्मन्मते आचारक्विबन्ताद्दिवनशब्दात्सनि दुदवनिषतीति स्यात्, तच्च नेष्यते,णौ स्थानिवद्भावस्य ज्ञापक॑ मिति वार्तिकोक्तेः । स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम् । अतो वार्तिककारवचनादेव णौ स्थानिवदिति स्वीकर्तव्यम् । तथा च न पूर्वोदाहरणेषु दोष इति दिक् । फलितमाह — प्रकृतेत्वित#इ । औननदिति ।नोनयति ध्वनयती॑ति चङ् निषेधस्त्विह न । तत्र छन्दसीत्यनुवृत्त्यामा त्वायतो जरितुः काममूनयी॑रित्यादिवेदे एव तन्निषेधात् । यद्यपि परिनिष्ठित एवाऽवर्णपरत्वमितयाशयेनउवर्णादेश एव स्थानिवत्स्यान्नाऽन्य॑ इति वदतां बोपदेवादीनां मते औनिनदित्येव भाव्यम्, अवर्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वाऽलाभात्, तथापि अचिकीर्तदित्यादौ स्थानिवत्त्वाशङ्क्य उत्तरभागे अवर्णाऽभावादिति भाष्यकारोक्तपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीत्यौननदितिरूपं निर्बाधमेव । चङि उपधालोपे तस्य स्थानिवत्त्वात्पाय्शब्दस्य द्वित्वमिति वृत्तिग्रन्थो विरुध्येत । अपि चशुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथे॑ति वैयाघ्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुध्येत । एतद्धि पूर्वत्राऽसिद्धमित्यस्य प्रयोजन कथनवार्तिकम् । तद्यथा - शुष्किकेत्यत्र तुउदीचामातः॑ इतीत्वविकल्पो न,शुषः कः॑इति कत्वस्याऽसिद्धत्वेन यकपूर्वत्वाऽभावात् ।सुष्करजङ्घे॑त्यत्र कत्वस्याऽसिद्धत्वादेवन कोपधायाः॑ इति पुंवद्भावनिषेधो न । क्षामिमानित्यत्र तुमादुपधाया॑ इति वत्वं न,क्षायो मः॑ इति मत्वस्याऽसिद्धत्वात् । वहेः क्तान्ताण्णिचि चङि औजढदित्यत्र ढत्वस्याऽसिद्धत्वाण्णौ कृतस्य टिलोपस्य स्थानिवत्त्वाच्च ह्तशब्दस्य द्वित्वं ।कुहोश्चुः॑अभ्यासे चर्च॑ । सन्वदित्वं तु अनग्लोपीति प्रतिषेधान्न भवति । एवं काशिकायामपिपूर्वत्रासिद्ध॑मिति सूत्रे औजढदित्युदाहृत्य, ऊढिमाख्यदौजिढदित्येतत्तु क्तिन्नन्तस्य ऊढिशब्दस्य भवतीत्युक्तं, तदपि विरुध्येत ।उवर्णादेश एव स्थानिव॑दिति नियमे णौ कृतस्य टिलोपस्याऽत्र स्थानिवत्त्वाऽभावेन ह्तशब्दस्य ह्तिशब्दस्य वा द्वित्वाऽसंभवात् । एवं चाऽङ्कधातोर्णिच्यल्लोपे चङि स्थानिवत्त्वात्कशब्दस्य द्वित्वे आञ्चकदिति रूपमेव सर्वसंमतं, न त्वाञ्चिकदिति बोपदेवोक्तमिति बोध्यम् । नन्वचिकीर्तदित्यादौ स्थानिवत्त्वमाशङ्क्योत्तरभागे अवर्णाऽभावादिति वदन्भाष्यकारो न बोपदेवग्रन्थस्य प्रतिकूलः । उत्तरभागे परिनिष्ठितरूपे अवर्णपरत्वमुवर्णादेशस्यैव संभवति नान्यस्येत्याशयेनैव भाष्यकारेण तथोक्तमिति वक्कतुं शक्यत्वादिति चेत् । मैवम् । तथा हि सति यत्रओः पुयण्जी॑त्यस्याऽप्राप्तिस्तत्राप्युवर्णादेश एवस्थानिवत्, ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत् । ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगादिति दिक् । सङ्केत । चत्वारोऽत्र धातवः । पाठान्तरमिति ।सङ्कोचने॑ इत्येतत्पर्यन्तम् । अनेकाच्त्वेनाऽषोपदेशत्वात्षत्वं नेति ध्वनयति — अतिस्तेनदिति । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुणः । लुङि — अजगृहत । अग्लोपान्न सन्वद्भावः । मृगयते इति । मार्गयति मार्गतीति तु मार्ग अन्वेषणे इत्याधृषीयस्य । अर्थ । अर्थयते इति ।वृद्धेर्लोपो बलीया॑नित्यल्लोपान्न वृद्धिः । बोपदेवस्तु — वृद्धौ कृतायां पुकि चाऽर्थापयते इति रूपमाह, तद्रभसात् । न चअर्थवेदसत्याना॑मित्यापुक् स्यादेवेति वाच्यं, तत्र प्रातिपदिकस्य ग्रहणात् । अदन्तत्वसामर्थ्यादिति । कथादिषूपधावृद्धिदीर्घसन्वद्भावविरहेण, सारभामप्रभृतीनामुपधाह्रस्वस्य, गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनाऽदन्तत्वं सार्थकम् । इह त्वदन्तत्वे प्रागुक्तफलाऽभावाण्णिचः पाक्षिकत्वं ज्ञापयीति भावः । नन्वदन्तत्वसार्थकत्वायवाऽल्लोप॑ इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत् । अत्राहुः — चिन्तयतेरिदित्त्वं सामान्यापेक्षं ज्ञापक॑मिति मते इह अदन्त्तवस्य फलं स्पष्टमेव ।विशेषाऽपेक्षं ज्ञापक॑मिति मते तु तत्र तत्र आकार ईकार उकार ऊकारश्चेत्यनुबन्धा यथा ज्ञापकतय#आ स्वीकृतास्तथा अदन्तताऽपि णिच्विकल्पमेव ज्ञापयतु, कॢप्तेनैव णिज्विकल्पेन कृतार्थत्वे अपूर्वस्य लोपबाधस्य कल्पनाया अन्याय्यत्वात् । एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति । असुसूत्रदिति । अनेकाच्त्वान्न षत्वम् । प्रातिपदिकादिति । यदि सुबन्ताण्णिच् स्यात्तदा रुआजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित् । तन्न । इष्ठवद्भावेन भत्वे कुत्वस्याऽप्रसक्तेः । अत्रबहुलं णिच् स्यात् । स च णिच् इष्ठवद्भवती॑त्यन्वयात्पक्षे वाक्यमपि भवतीत्याह — पटुमाचष्ट इति । धात्वर्थ इत्यनेन करणऽऽख्यानादिर्गृह्रत इति भावः । ननु बहून्याचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति णिचोऽपि यिट् स्यात् । अत्राहुः — टे॑रिति सूत्रेणाविष्ठवत्प्रातिपदिकस्ये॑ति वार्तिके प्रातिपदिकग्रहणं प्रत्ययकार्याणामतिदेशो माभूदित्येवमर्थम् । तेनाऽत्र णिचोऽपीण्न भवति, तदभावे भूभावेनापि न भवितव्यं, संनियोगशिष्टत्वात्, किंतु बहयतीत्येव भवितव्यमिति मतान्तरम् । एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति । अन्ये त्वाहुः — इष्ठवदिति हि सप्तम्यन्ताद्वतिः, णावित्युपमेये सप्तमीदर्शनात्, तेन इष्ठनि परे पूर्वस्य यत्कार्यं तदतिदिश्यते न त्विष्ठनोऽपीति । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्रभस्याऽढे तद्धिते॑ इति पुंवद्भावः । क्रशिष्ठः द्रढिष्ठ इत्यत्रर ऋतो हलादे॑रिति रभावः ।साधिष्ठ॑ इत्यादौ टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविनमतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक् । स्थविष्ठ इत्यादौस्थूलदूरे॑त्यादिना यणादिलोपः । प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । तद्वण्णावपीति । पुंवद्भावस्योदाहरणम्- ऐनीमाचष्टे एतयति । टिलोपेनैव सन्नियोगशिष्टत्वान्नकारनिवृत्तौ सिद्धायां पुंवद्भावग्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम् । द्रढयतीत्यादौ रभावः । रुआग्विणमाचष्टे रुआजयतीत्यत्र विनो लुक् । गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक् । अङ्गवृत्तपिरभाषया वृद्धिरत्र न भवति । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयीत्यादौ तु वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन तस्याः परिभाषाया अनित्यत्वज्ञापनादिति दिक् । परत्वाद्वृद्धाविति । लोपः शब्दान्तरप्राप्त्याऽनित्यः । वृद्धिरप्यनित्या । उभयोरनित्ययोः परत्वाद्वृद्धिः । तस्यां कृतायामौकारस्याऽऽवादेशात्प्रागेव परतवाद्वार्णादाङ्गस्य बलीयस्त्वाच्च लोप इत्यर्थः । एवं चाऽनग्लोपित्वाद्दीर्घसन्वद्भावौ स्त इत्याह - अपीपटदिति । इह टिलोपस्य स्थानिवत्त्वेन व्यवधानाद्दीर्घसन्वद्भावौ नति न भ्रमितव्यम्, स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वाऽनपायात् । चङ् परे णौ यल्लघ्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्वद्भावौ स्त एव । केचित्तुचङ् परे णौ यल्लघ्वि॑ति पक्षे पटुशब्दोकारस्य वृद्धौ कृतायां णिच्परं लघु दुर्लभमिति सन्वद्भावाऽप्राप्त्या अपपटदित्येव रूपम् । प्रथमं टिलोपः, पश्चाद्विर्वचनमिति मत्वा अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति मनोरमोक्तं यत्, तन्नादर्तव्यम् ।णिच्यच आदेशो न स्याद्वित्वे कर्तव्ये॑ #इति निषेधपक्षस्य मुख्यतया प्रागुक्तत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम् । अपीपटदित्यत्र द्वितीयाऽच्पर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम् । तथा च द्वितीयस्याऽचो द्वित्वकरणात्प्रथमं टिलोपः स्यादेवेति । वृद्धेर्लोप इति । कृताऽकृतप्राप्तिमात्रेण लोपो नित्यः, वृद्धिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात्, स्वविधौ स्वस्य स्थानिवत्त्वाऽभावाच्च । अस्मस्तु पक्षेमुण्डमिश्रे॑ति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैयथ्र्यमेव, वृद्धेः प्राक् टिलोपे सति अग्लोपित्वसंभवात् । तथा चाऽदन्तत्वनिपातनसामर्थ्याट्टिलोपात्पूर्वं वृद्धिरेवेत्यनग्लोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते । भाष्यद्वयप्रामाण्याद्रूपद्वयमपि साध्विति बहवः । लडर्थस्त्विति । करोत्याचष्टे इति हि कर्तरि वर्तमाने लडेकवचनम् । लडर्थाऽविवक्षायां तु ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्वित्वबहुत्वयोश्च प्रत्ययो भवत्येवेति भावः । यद्यप्येकत्वादिसङ्ख्या लडर्थो न भवति, तथापि लडादेशतिङर्थोऽपीह लडर्थत्वेन गृहीत इति ज्ञेयम् । तेनातिक्रामति । तृतीयाप्रकृतिभृतात्प्राप्तिपदिकाण्णिच् । तृतीयान्तण्णिजित्यन्ये । एवं तत्करोतीत्यत्रापि द्वितीयाप्रकृतिभूताद्द्वितीयान्ताद्वा णिच् । न च सुबन्ताण्णिचि वाचं करोत्याचष्टे वाचाऽतिक्रामति वा वाचयतीत्यत्र कुत्वं विनो लुकि प्राप्तस्य पदकार्यस्य बाधार्थं भसंज्ञातिदेशस्यावश्यकत्वात्,तत्करोती॑त्यादिनिर्देशानुगुणत्वाच्च सुबन्ताण्णिजिति पक्ष एव ज्यायानित्याहुः ।

Padamanjari

‘गण संख्याने’ चुरादावदन्तः, तस्यातो लोपेनानग्लोप इति प्रतिषेधाद्वचनम् । कृतयोर्हलादिशेपदीर्घत्वयोरीत्वमत्वं च विधीयते ।’लोपः पिबतेः’ इत्येतदत्रैव पठितव्यम् - पिबतेरालोपश्चेति, चकारात् ई चाभ्यासस्य ? सत्यम्; विभाषेत्यस्यानुवृत्तिः शङ्क्येत ॥

Nyaas

गण संख्याने (धातुपाठः-1853) चुरादावदन्तः। तत्राकारात्? अतो लोपः (6.4.48) इति लोपे कृतेऽनग्लोप इति वचनादप्राप्तयोरेव सन्बद्भावदीर्घयोरिवमीत्वं विधीयते। चकारो विभाषेत्यनुकर्षणार्थः॥ इति बोधसत्त्वदेशीयाचायं श्रीजिनेन्द्रवुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यचतुर्थः पादःसमाप्तश्च सप्तमोऽध्यायः- - -अष्टमोऽध्यायःप्रथमः पादः

Prakriyasarvasvam

चङ्परे णौ परे गणेरभ्यासस्य ईत्वमत्वं च स्यात् । अजीगणत् । अजगणत् । तद्द्वयम् । पुक्पक्षे गणापयति । अजीगणपत् । मृग अन्वेषणे । कथादिषु पदादय आ गर्वादात्मनेपदिनः । अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणो न । मृगयते । चङि अममृगत । पुकि मृगापयते । अमीमृगपत, ‘भुवने मृगयामि’ इत्यतङ् तु घञन्तान्मृगशब्दात् ‘तत्करोति-’ (वा) इति णिचि । अर्थ याच्ञायाम् । अर्थयते । आर्थिथत । ‘प्रार्थयन्ति’ इति प्रयोगे तु घञन्ताण्णिच्* । अन्क पदे लक्षणे च । अङ्कयति, अङ्कयते । चङि अन्कि अ त् । नकारस्य द्वित्वाभावात् कादेर्द्वित्वम् । ‘द्वित्वे कार्ये णौकृतं स्थानिवत्स्यात्’ (वा०) इत्यल्लोपस्य स्थानिवत्त्वात् कशब्दस्य द्वित्वम् । अभ्यासस्य चुत्वम् । अग्लोपित्वान्न सन्वद्वत्त्वम् । आञ्चकत् । कल्पद्रुमे तु णौकृतस्य स्थानिवत्त्वमात्वावादेशयोरेवेतीह स्थानिवत्त्वाभावात् सणिच्कस्य किशब्दस्य द्विरुक्तौ तत्स्थ इकारः श्रूयत इत्युक्तम् । आञ्चिकत् । प्राग्वत् पुक् पक्षे तु अङ्कापयति । चङि ह्रस्वे क¹प् इत्यस्य द्वित्वम् । हलादिः शेषः । सन्वद्वत्त्वम् । दीर्घः । आचीकपत् । <karika>द्विर्वचनेऽचीति स्यात् स्थानिवदिह चङ्कृतो णिलोपादिः । द्वित्वानिमित्तणिकृते वृद्ध्यल्लोपादिके तु णीकृतगीः ॥ ७२२ ॥</karika> ॥ इति² स्वार्थणिच् ॥

Sudha

ई च गण इति । सन्वल्लघुनि चङ्परेऽनग्लोपे (7.4.93) इत्यतः चङ्परे इति, अत्र लोपोऽभ्यासस्य (7.4.58) इत्यतोऽभ्यासस्येति चानुवर्तते । तदाह — गणयतेरभ्यासस्येति । अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् (7.4.95] इति पूर्वसुत्रात् ‘अद्’ ग्रहणम् चकारादनुकृष्यते । तदाह — चाददिति | “अजीगणत्” , “अजगणत्” । गणधातोर्णिचि अल्लोपे तस्य स्थानिवत्त्वात् वृद्ध्यभावे लुङस्तिप्, इकारलोपेऽटि च्लेश्चङि द्वित्वे अभ्यासत्वे हलादेः शेषे चुत्वे अग्लोपित्वाद्दीर्घसन्वद्भावयोरभावे ई च गणः [[7.4.97) इति ईत्वे “अजीगणत्” इति रूपम्। पक्षे “अजगणत्” इति । “अजीगणताम्”-“अजगणताम्”, “अजीगणन्”-“अजगणन्” । “अजीगणम्”-“अजगणम्” । “अजीगणाव”-“अजगणाव” । “अजीगणाम”-“अजगणाम” इति । लृङि “अगणयिष्यत्” । इति चुरादयः ॥

Sutra Prayogas

  • मावजीगणः (किरातार्जुनीयम्): ई च गणः इति अभ्यासस्य ईकारः।

  • अजगणन् (शिशुपालवधम्): ई च गणः इत्यभ्यासस्य पाक्षिक इत्वाभावः।

  • व्यजीगणत् (शिशुपालवधम्): ई च गणः इत्यभ्यासस्य विकल्पादीकारः।

  • अजीगणत् (भट्टिकाव्यम्): ई च गणः इतीत्वम्।