74083: दीर्घोऽकितः

Padacheda: दीर्घः | S | 1 | 1 |

अकितः | S | 6 | 1 |

Sutrartha


Vasu English Summary

A long vowel is substituted for the अ of the reduplicate in the Intensive (with expressed or elided यङ्) when the reduplicate receives no augment having an indicatory क् ।

Vasu English Translation

A long vowel is substituted for the अ of the reduplicate in the Intensive (with expressed or elided यङ्) when the reduplicate receives no augment having an indicatory क् । The reduplicate receives augments like मीक्, मुक् by the following sutras. Thus पापच्यते, and पापचीति, यायज्यते and यायजीति ॥ Why do we say “when it gets no augment”? Observe यंयम्यते, यंयमीति, रंरम्यते, रंरमीति ॥

Objection:- When the न् augment is added, the reduplicate will end in a consonant, and as it does not end in a vowel, there will be no occasion for lengthening; hence the employment of the term अकितः is useless.

Answer:- The employment of this term by the Acharya indicates the existence of the following maxim : अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन् बाधन्ते “so far as changes of a reduplicative syllable are concerned, rules which teach those changes do not supersede one another”. What is the necessity of this indication (jnapaka)? Observe डोढौक्यते, here the rule of lengthening of this sutra, does not supersede, though it is subsequent, the rule of shortening in (7.4.59); so the diphthong औ is shortened to उ, and it is then gunated by (7.4.82). Secondly observe अचीकरत्, here इ is substituted in the reduplicate by (7.4.79) plus (7.4.93), and then this is lengthened by (7.4.94), the latter not superseding the former. Thirdly observe मीमांसते &c, where in मान् + सन् (3.1.6), the reduplicate is lengthened, but that does not prevent the इ of (7.4.79). Fourthly observe अजीगणन्, where the ई substitute (7.4.97) does not supersede the sutra (7.4.60), by which the ण् of गण् is elided.

Bhashya

दीर्घोऽकितः अकित इति किमर्थम् ? ॥ यंयम्यते रंरम्यते ॥ अकित(1) इति शक्यमकर्तुम् ॥ कस्मान्न भवति - यंयम्यते रंरम्यते इति ? ॥ नुकि कृतेऽनजन्तत्वात् ॥ अत उत्तरं पठति ॥ अकिद्वचनमन्यत्र किदन्तस्याऽलोऽन्त्यनिवृत्त्यर्थम् ॥ अकिद्वचनं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम्(2) ? ॥ एतज्ज्ञापयत्याचार्योऽन्यत्र किदन्तस्याऽभ्यासस्यालोऽन्त्यविधिर्न(3) भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ प्रयोजनं ह्रस्वत्वात्वेत्त्वगुणेषु ॥ (ह्रस्वत्वाऽत्वेत्त्वगुणेषु प्रयोजनम्) ॥ ह्रस्वत्वम् - अवचच्छतुः अवचच्छुः । अत्वं - चच्छृदतुः चच्छृदुः ॥ इत्त्वं - चिच्छादयिषति चिच्छर्दयिषति । गुणः - चेच्छिद्यते चोच्छुप्यते । तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ॥ विप्रतिषेधात्सिद्धम् ॥ नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाऽप्येतानि सिद्धानि । तुक् क्रियतामेते विधय इति, किमत्र कर्तव्यं, परत्वादेते विधय इति ॥ तदन्ताऽग्रहणाद्वा ॥ अथ वा नैवं विज्ञायते - अभ्यासस्याऽजन्तस्य ऋकारान्तस्याऽकारान्तस्येगन्तस्येति ॥ कथं तर्हि ? ॥ अभ्यासे योऽच्, अभ्यासे य ॠकारः, अभ्यासे योऽकारः,अभ्यासे य इगिति । एवं च कृत्वा दीर्घत्वं प्राप्नोति ॥ एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति ॥ किम् ? ॥ अपवादो नुग्दीर्घत्वस्येति ॥ एवं तर्हि सिद्धे सति यदकित इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा - अभ्यासविकारेषु बाधका न बाधन्त इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्तं स न दोषो भवति ॥ ( दीर्घोऽकितः ) ॥

Kashika

अकितोऽभ्यासस्य दीर्घो भवति यङि यङ्लुकि च। पापच्यते। पापचीति। याय्ज्यते। यायजीति। अकितः इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्र अपवादत्वान् नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्हि अकितः इत्यनेन एतज् ज्ञाप्यते, अभ्यासविकारेष्वपवादा न उत्सर्गान् विधीन् बाधन्ते इति। किम् एतस्य ज्ञापने प्रयोजनम्? डोढौक्यते इत्यत्र दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरदित्यत्र दीर्घो लघोः (7.4.94) इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः (7.4.97) इतीत्वेन हलादिशेषो न बाध्यते अजीगणत्।

Siddhanta Kaumudi

अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥

Laghu Siddhanta Kaumudi

अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥

Tattvabodhini

दीर्घोऽकितः - दीर्घोऽकितः । अकितः किम् । यंयम्यते । रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाऽचाअत्र लोपोऽभ्यासस्ये॑त्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाऽजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतित्यादौ । तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याऽजन्तत्वाऽभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाऽकित इत्यनेन । न चाभ्यासावयवस्याऽचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यं, संभवति सामानाधिकरणे वैयधिकरण्यस्याऽन्याय्यत्वात् । येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः — डोढौक्यते इत्यत्राभ्यासह्रस्वं बाधित्वा परत्वात्दीर्घोऽकितः॑ इति दीर्घे कृते डोढौक्यत इति स्यात् । तस्मादभ्यासविकारेषु उत्सर्गविधीन्बाधका न बाधन्त इति ज्ञापनायाऽकित इति ग्रहणं कर्तव्यमिति । रतथाचोक्तज्ञापकनिर्वाहायदीर्घोऽकितः॑ इत्यत्राऽभ्यासस्याऽचेति वैयकरम्यपक्षस्याश्रयणाद्यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् । अटाटत इति । इह टशब्दस्य द्वित्वम् ।

Padamanjari

अपवादत्वादिति । नाप्राप्ते दीर्घे नुक आरम्भावदपवादत्वम् । अनजन्तत्वादेवेति । दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादभ्यासविशेषणादजन्तस्याभ्यासस्य दीर्घो विधीयत इति भावः । अभ्यासविकारेष्वित्यादि । अपवादग्रहणं बाधकमात्रोपलक्षणम्, उत्सर्गग्रहणमपि बाध्यमात्रोपलक्षणम् । तत्र ह्रस्वत्वस्यावकाशः - ययावित्यत्र, दीर्घत्वस्यावकाशः - पापच्यत इत्यादि; डोढौक्यत इत्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वस्यः प्रसङ्गः, नापवादत्वात् । तथा सन्वद्भावस्यावकाशः - अचिक्षणदिति, दीर्घत्वस्यावक्राशः - अदीदिपदिति; अचीकरदित्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वप्रसङ्गः । मीमांसते इत्यत्राप्यनैमितिकत्वेनान्तरङ्गत्वाद्दीर्घत्वप्रसङ्गः, इत्वं तु सनि परतोऽङ्गाधिकारेऽभ्यासस्याकारान्तस्य विधानाद्वहिरङ्गम् । अजीगणदित्यत्र त्वेकस्मिन् येननाप्राप्तिन्यायेन हलादिशेषस्येत्वमपवादत्वाद् बाधकं प्राप्नोति । इह तु अपचच्छतुः, अपचच्छुः, चच्छदतुः, चच्छदुः, चिच्छादयिषति, चिच्छर्दयिषति, चेच्छिद्यते - इति परत्वात् ह्रस्वत्वात्वेत्वगुणेषु कृतेषु पश्चातुक्, क्रियते; तेनैतन्न नोदनीयम् - तुकि कृते एत विधयो न प्राप्नुवन्तीति । ठोहाक् त्यागेऽ इत्यस्य धातोर्निषेधो न भवति, धातुर्ह्ययं कित्, न त्वभ्यासः । ककारस्तु’हश्च व्रीहिकालयोः’ इत्यत्र हाङ्हाकीः सामान्येन ग्रहणार्थः ॥

Nyaas

यंयम्यते इति। यम उपरमे (धातुपाठः-984), नुगतोऽनुनासिकान्तस्य (7.4.85) इति नुक्। ननु च इत्यादिनाऽकित इत्येतत्प्रत्याचष्टे। यंयम्यत इत्यत्र मा भूदित्येवमर्थं अकितः इत्युच्यते। अत्र ह्रपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यतीति नार्थोऽकित इत्यनेन। एवं तर्हि इत्यादिना अभ्यासविकारेष्वपवादा नोत्सर्गान्? विधीन्? बाधन्ते (व्या।प।23) इत्येतां परिभाषां ज्ञापयितुं अकितः इत्येतदुच्यत इति दर्शयति। डोढौक्यते इति। ढौकृ गतौ (धातुपाठः-98) इत्यस्य यङि कृते हलादिशेषे च ह्रस्वः (7.4.59) इति ह्रस्वत्वम्, पूर्वसूत्रेण गुणः। तत्रासत्यस्मिन्? ज्ञापके पिपासतीत्येवमादौ सावकाशं ह्रस्वत्वं दीर्घोऽकितः (7.4.83) इत्येनेन सन्ध्यक्षरे दीर्घत्वेन बाध्येत। दीर्घस्य दीर्घविधाने प्रयोजनाभावाद्दीर्घो न भविष्यतीति चेत्? नैतत्; अस्ति हि दीर्घस्य दीर्घविधाने प्रयोजनम्, किं तत्? ह्रस्वो मा भूदिति। एवं चासत्यस्मिन्? ज्ञापके अचीकरत् इत्यत्राप्यचिक्षणदित्यादौ सावकाशमित्त्वम्? दोर्घो लघोः (7.4.94) इति दीर्घत्वेन बाध्येत। मीमांसते इत्यादावसत्यस्मिन्? ज्ञापके पिपक्षतीत्यादौ सावकाशं सन्यतः (7.4.79) इतीत्त्वं मान्बधादिसूत्रेण (3.1.6) विहितेन दीर्घत्वेन बाध्यते। अजीगणत् इत्यत्राप्यसत्यास्मेन्? ज्ञापके पपाठेत्यादौ सावकाशो हलादिशेषः ई च गणः (7.4.97) इतीत्त्वेन बाध्यते। अस्मस्तु सति तर्वमेतन्न बाध्यते। ननु चासति प्रयोजने ज्ञापकं भवति; अस्ति चास्य प्रयोजनम्, किं तत्? धातुकित्त्वमपेक्ष्य जहातेर्मा भूत् - जाहाति, जाहेतीति? नैतदस्ति; यदि ह्रेतत्? प्रयोजनं स्यात्, तदा अहाकः इति प्रतिषेधं कुर्यात्। किञ्च अकितः इत्यभ्यासस्य विशेषणं भवितुमर्हति, यद्यभ्यासावस्थायां कित्त्वमुपजायते। न च जहातेः कित्त्वमभ्यासमपेक्षते, पूर्वमेव हि तदभ्यासाद्भवति। तस्माज्जहातेः - जाहाति, जाहेतीति रूपेण भवितव्यम्। ततश्च अकितः इति वचनं ज्ञापकमेव। कित्करणं तु जहातेः हश्च व्रीहिकालयोः (3.1.148) इत्यत्र सामान्यग्रहणाविघातार्थम्। अथ दीर्घग्रहणं किमर्थम्; आदित्येव नोयेत/ नैवं शक्यम्, अकितः इत्यस्य ज्ञापकता नोपपद्यते। सति हि दीर्घग्रहणे नुकि कृतेऽनजन्तत्वादेव हि दीर्घस्य प्राप्तिर्नास्तीति अकितः इति प्रतिषेधस्य ज्ञापकत्वमुपपद्यते। आकारस्तु विधीयमानोऽजन्तस्याभ्यासस्य स्यादिति अकितः इत्यस्य ज्ञापकत्वं न स्यात्। तस्माद्दीर्घग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

नुगाद्यागमजनितकित्त्वरहितस्याभ्यासस्य यङ्यङ्लुकोः परयोर्दीर्घः स्यात् । पापच्यते । लुङि-अपापचिष्ट । पापचाञ्चक्रे । चिणि-‘न धातुलोप-’ (१-१-४) इति वृद्ध्यभावाद् अपापचि । रुचेर्यङ् नेति माधवाद्याः । भृशं रोचते । ‘सूचिसूत्रिम्मूत्र्यट्यर्त्यशूर्णोतीनां यङ् वाच्यः’ (वा०) । आदौ त्रयाणां ण्यन्तत्वेन द्वयच्त्वाद् अन्येषामहलादित्वाच्चोक्तिः । णिलोपः । सोसूच्यते । असोसूचिष्ट । सोसूचाञ्चक्रे । सोसूच्यते । मोमूत्र्यते । अट्य इत्यस्य द्वितीयैकाचो द्वित्वम् । हलादिशेषः । अभ्यासदीर्घः । अटाट्यते : एवम् अशाश्यते । भुक्तिव्याप्त्यर्थयोर्ग्रह इति हरः । ऊर्णोनूयते । अर्तेस्तु ।

Sudha

दीर्घोऽकित इतिअभ्यासस्येति । अत्र लोपोऽभ्यासस्य (7.4.58) इत्यतोऽभ्यासस्येत्यनुवर्तते इति भावः । यङि यङ्लुकि चेति । गुणो यङ्लुकोः (7.4.82) इत्यतस्तदनुवृत्तेरिति भावः । “वाव्रज्यते ।” व्रजधातोः नित्यं कौटिल्ये गतौ (3.1.23) इति यङि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च कृते । “व व्रज् य” इति जाते दीर्घोऽकितः (7.4.83) इति दीर्घे सनाद्यन्ता (3.1.32) इति धातुत्वाल्लटस्ते शपि, अतो गुणे (6.1.97) इति पररूपे टरेत्वे च “वाव्रज्यते” इति । “वाव्रज्येते”, “वाव्रज्यन्ते” । “वाव्रज्यसे”, “वाव्रज्येथे”, “वाव्रज्यध्वे” । “वाव्रज्ये”, “वाव्रज्यावहे”, “वाव्रज्यामहे” ।