74084: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्

Padacheda: नीक् | S | 1 | 1 |

वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The augment नीक् is added to the reduplicate of the Intensive (with expressed or elided यङ्) in the following - 1. वञ्च् 2. संस्र 3. ध्वंस् 3. भ्रंश् 4. कस् 5. पत् 6. पद् and 7. स्कन्द्।

Vasu English Translation

The augment नीक् is added to the reduplicate of the Intensive (with expressed or elided यङ्) in the following - 1. वञ्च् 2. संस्र 3. ध्वंस् 3. भ्रंश् 4. कस् 5. पत् 6. पद् and 7. स्कन्द्। Thus वनीवच्यते and वनीवञ्चीति; सनीस्रस्यते and सनीस्रंसीति; दनीध्वस्यते and दनीध्वंसीति; बनीभ्रस्यते and बनीभ्रंसीति, (बनीभ्रश्यते and बनीभ्रंशीति), चनीकस्यते and चनीकसीति; पनीपत्यते and पनीपंतीति, पनीपद्यते and पनीपदीति; चनीस्कद्यते and चनीस्कन्दीति ॥ The nasal is elided in one alternative by (6.4.24).

Kashika

वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च। वञ्चु वनीवच्यते। वनीवञ्चीति। स्रंसु सनीस्रस्यते। सनीस्रंसीति। ध्वंसु दनीध्वस्यते। दनीध्वंसीति। भ्रंसु बनीभ्रस्यते। बनीभ्रंसीति। कस चनीइकस्यते। चनीकसीति। पत पनीपत्यते। पनीपतीति। पद पनीपद्यते। पनीपदीति। स्कन्द चनीस्कद्यते। चनीस्कन्दीति।

Siddhanta Kaumudi

एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥

Tattvabodhini

नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् - इत्यादीति । दनीध्वनस्यते । बनीभ्रस्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते । एं वनीञ्चीति सनीरुआंतीति दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम् । *हन्तेर्हिसायां यङि घ्नीभावो वाच्यः । घ्नीभाव इति । ह्नीभावे कृतेऽपिअभ्यासाच्चे॑ति कुत्वेन जेघ्नीयत इति सिध्यति, तथापि प्रक्रियालाघवायघ्नी॑त्युक्तमिति मनोरमा । अन्ये तुसेर्हिः॑मेर्नि॑रिति इकारोच्चारणसामर्थ्याद्यताएरु॑रित्युत्वं न भवति तथा ह्नीभावे हि कृतेअभ्यासाच्चे॑ति कुत्वं न स्यादित्याशयेन घ्नीभावः कृत इत्याहुः । अत्र च दिग्यादेशेनैव घ्रीभावेन द्वित्वं न बाध्यते पुनः प्रसङ्गविज्ञानादिति केचित् । वस्तुतस्तु यङन्तावयवस्य द्वितीयाऽवजवधिकस्य द्वित्वं, ध्नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद्द्वत्वं निर्बाधमेव ।

Padamanjari

वञ्चुकसिपतिपदयो गत्यर्थाः ।’स्कन्दिः शोषणार्थः’ , इतरे अवस्रंसनार्थाः । वनीवच्यते इत्यादौ ठनिदिताम्ऽ इत्युपधालोपः । वनीवञ्चीतीत्यादौ न भवति यङे लुमता लुप्तत्वादीकारोच्चारणसामर्थ्यान्नीकि कृते गुणह्रस्वौ न भवतः ॥

Prakriyasarvasvam

एषामभ्यासस्य यङ्यङ्लुकोर्नीक् स्यात् । नलोपः । वञ्चिर्गत्यर्थः प्रलम्भ- नार्थश्च । वनीवच्यते । सनीस्रस्यते । दनीध्वस्यते । भ्रंसिः स्रंसनार्थः । बनीभ्रस्यते । भ्रंश्विति केचित् पठन्तीति माधवः । वनीभ्रश्यते । विवनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते । पापतिरित्यत्र तु निपातनान्नीङ् न ।