74083: दीर्घोऽकितः ================== **Padacheda:** दीर्घः | S | 1 | 1 | अकितः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A long vowel is substituted for the अ of the reduplicate in the Intensive (with expressed or elided यङ्) when the reduplicate receives no augment having an indicatory क् । Vasu English Translation ------------------------ A long vowel is substituted for the अ of the reduplicate in the Intensive (with expressed or elided यङ्) when the reduplicate receives no augment having an indicatory क् । The reduplicate receives augments like मीक्, मुक् by the following *sutras*. Thus पापच्यते, and पापचीति, यायज्यते and यायजीति ॥ Why do we say "when it gets no augment"? Observe यंयम्यते, यंयमीति, रंरम्यते, रंरमीति ॥ Objection:- When the न् augment is added, the reduplicate will end in a consonant, and as it does not end in a vowel, there will be no occasion for lengthening; hence the employment of the term अकितः is useless. Answer:- The employment of this term by the *Acharya* indicates the existence of the following maxim : अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन् बाधन्ते "so far as changes of a reduplicative syllable are concerned, rules which teach those changes do not supersede one another". What is the necessity of this indication (*jnapaka*)? Observe डोढौक्यते, here the rule of lengthening of this *sutra*, does not supersede, though it is subsequent, the rule of shortening in (7.4.59); so the diphthong औ is shortened to उ, and it is then *gunated* by (7.4.82). Secondly observe अचीकरत्, here इ is substituted in the reduplicate by (7.4.79) plus (7.4.93), and then this is lengthened by (7.4.94), the latter not superseding the former. Thirdly observe मीमांसते &c, where in मान् + सन् (3.1.6), the reduplicate is lengthened, but that does not prevent the इ of (7.4.79). Fourthly observe अजीगणन्, where the ई substitute (7.4.97) does not supersede the *sutra* (7.4.60), by which the ण् of गण् is elided. Bhashya ------- दीर्घोऽकितः अकित इति किमर्थम् ? ॥ यंयम्यते रंरम्यते ॥ अकित(1) इति शक्यमकर्तुम् ॥ कस्मान्न भवति - यंयम्यते रंरम्यते इति ? ॥ नुकि कृतेऽनजन्तत्वात् ॥ अत उत्तरं पठति ॥ अकिद्वचनमन्यत्र किदन्तस्याऽलोऽन्त्यनिवृत्त्यर्थम् ॥ अकिद्वचनं क्रियते ज्ञापकार्थम् ॥ किं ज्ञाप्यम्(2) ? ॥ एतज्ज्ञापयत्याचार्योऽन्यत्र किदन्तस्याऽभ्यासस्यालोऽन्त्यविधिर्न(3) भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ प्रयोजनं ह्रस्वत्वात्वेत्त्वगुणेषु ॥ (ह्रस्वत्वाऽत्वेत्त्वगुणेषु प्रयोजनम्) ॥ ह्रस्वत्वम् - अवचच्छतुः अवचच्छुः । अत्वं - चच्छृदतुः चच्छृदुः ॥ इत्त्वं - चिच्छादयिषति चिच्छर्दयिषति । गुणः - चेच्छिद्यते चोच्छुप्यते । तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ॥ विप्रतिषेधात्सिद्धम् ॥ नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाऽप्येतानि सिद्धानि । तुक् क्रियतामेते विधय इति, किमत्र कर्तव्यं, परत्वादेते विधय इति ॥ तदन्ताऽग्रहणाद्वा ॥ अथ वा नैवं विज्ञायते - अभ्यासस्याऽजन्तस्य ऋकारान्तस्याऽकारान्तस्येगन्तस्येति ॥ कथं तर्हि ? ॥ अभ्यासे योऽच्, अभ्यासे य ॠकारः, अभ्यासे योऽकारः,अभ्यासे य इगिति । एवं च कृत्वा दीर्घत्वं प्राप्नोति ॥ एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति ॥ किम् ? ॥ अपवादो नुग्दीर्घत्वस्येति ॥ एवं तर्हि सिद्धे सति यदकित इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा - अभ्यासविकारेषु बाधका न बाधन्त इति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्तं स न दोषो भवति ॥ ( दीर्घोऽकितः ) ॥ Kashika ------- अकितोऽभ्यासस्य दीर्घो भवति यङि यङ्लुकि च। पापच्यते। पापचीति। याय्ज्यते। यायजीति। अकितः इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्र अपवादत्वान् नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्हि अकितः इत्यनेन एतज् ज्ञाप्यते, अभ्यासविकारेष्वपवादा न उत्सर्गान् विधीन् बाधन्ते इति। किम् एतस्य ज्ञापने प्रयोजनम्? डोढौक्यते इत्यत्र दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरदित्यत्र **दीर्घो लघोः** (7.4.94) इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, **ई च गणः** (7.4.97) इतीत्वेन हलादिशेषो न बाध्यते अजीगणत्। Siddhanta Kaumudi ----------------- अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥ Laghu Siddhanta Kaumudi ----------------------- अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥ Tattvabodhini ------------- **दीर्घोऽकितः** - दीर्घोऽकितः । अकितः किम् । यंयम्यते । रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाऽचाअत्र लोपोऽभ्यासस्ये॑त्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाऽजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतित्यादौ । तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याऽजन्तत्वाऽभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाऽकित इत्यनेन । न चाभ्यासावयवस्याऽचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यं, संभवति सामानाधिकरणे वैयधिकरण्यस्याऽन्याय्यत्वात् । येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः — डोढौक्यते इत्यत्राभ्यासह्रस्वं बाधित्वा परत्वात्दीर्घोऽकितः॑ इति दीर्घे कृते डोढौक्यत इति स्यात् । तस्मादभ्यासविकारेषु उत्सर्गविधीन्बाधका न बाधन्त इति ज्ञापनायाऽकित इति ग्रहणं कर्तव्यमिति । रतथाचोक्तज्ञापकनिर्वाहायदीर्घोऽकितः॑ इत्यत्राऽभ्यासस्याऽचेति वैयकरम्यपक्षस्याश्रयणाद्यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् । अटाटत इति । इह टशब्दस्य द्वित्वम् । Padamanjari ----------- अपवादत्वादिति । नाप्राप्ते दीर्घे नुक आरम्भावदपवादत्वम् । अनजन्तत्वादेवेति । दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादभ्यासविशेषणादजन्तस्याभ्यासस्य दीर्घो विधीयत इति भावः । अभ्यासविकारेष्वित्यादि । अपवादग्रहणं बाधकमात्रोपलक्षणम्, उत्सर्गग्रहणमपि बाध्यमात्रोपलक्षणम् । तत्र ह्रस्वत्वस्यावकाशः - ययावित्यत्र, दीर्घत्वस्यावकाशः - पापच्यत इत्यादि; डोढौक्यत इत्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वस्यः प्रसङ्गः, नापवादत्वात् । तथा सन्वद्भावस्यावकाशः - अचिक्षणदिति, दीर्घत्वस्यावक्राशः - अदीदिपदिति; अचीकरदित्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वप्रसङ्गः । मीमांसते इत्यत्राप्यनैमितिकत्वेनान्तरङ्गत्वाद्दीर्घत्वप्रसङ्गः, इत्वं तु सनि परतोऽङ्गाधिकारेऽभ्यासस्याकारान्तस्य विधानाद्वहिरङ्गम् । अजीगणदित्यत्र त्वेकस्मिन् येननाप्राप्तिन्यायेन हलादिशेषस्येत्वमपवादत्वाद् बाधकं प्राप्नोति । इह तु अपचच्छतुः, अपचच्छुः, चच्छदतुः, चच्छदुः, चिच्छादयिषति, चिच्छर्दयिषति, चेच्छिद्यते - इति परत्वात् ह्रस्वत्वात्वेत्वगुणेषु कृतेषु पश्चातुक्, क्रियते; तेनैतन्न नोदनीयम् - तुकि कृते एत विधयो न प्राप्नुवन्तीति । ठोहाक् त्यागेऽ इत्यस्य धातोर्निषेधो न भवति, धातुर्ह्ययं कित्, न त्वभ्यासः । ककारस्तु'हश्च व्रीहिकालयोः' इत्यत्र हाङ्हाकीः सामान्येन ग्रहणार्थः ॥ Nyaas ----- `यंयम्यते` इति। `यम उपरमे` (धातुपाठः-984), **नुगतोऽनुनासिकान्तस्य** (7.4.85) इति नुक्। `ननु च` इत्यादिनाऽकित इत्येतत्प्रत्याचष्टे। यंयम्यत इत्यत्र मा भूदित्येवमर्थं `अकितः` इत्युच्यते। अत्र ह्रपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यतीति नार्थोऽकित इत्यनेन। `एवं तर्हि` इत्यादिना `अभ्यासविकारेष्वपवादा नोत्सर्गान्? विधीन्? बाधन्ते` (व्या।प।23) इत्येतां परिभाषां ज्ञापयितुं `अकितः` इत्येतदुच्यत इति दर्शयति। `डोढौक्यते` इति। `ढौकृ गतौ` (धातुपाठः-98) इत्यस्य यङि कृते हलादिशेषे च `ह्रस्वः` (7.4.59) इति ह्रस्वत्वम्, पूर्वसूत्रेण गुणः। तत्रासत्यस्मिन्? ज्ञापके पिपासतीत्येवमादौ सावकाशं ह्रस्वत्वं **दीर्घोऽकितः** (7.4.83) इत्येनेन सन्ध्यक्षरे दीर्घत्वेन बाध्येत। दीर्घस्य दीर्घविधाने प्रयोजनाभावाद्दीर्घो न भविष्यतीति चेत्? नैतत्; अस्ति हि दीर्घस्य दीर्घविधाने प्रयोजनम्, किं तत्? ह्रस्वो मा भूदिति। एवं चासत्यस्मिन्? ज्ञापके `अचीकरत्` इत्यत्राप्यचिक्षणदित्यादौ सावकाशमित्त्वम्? `दोर्घो लघोः` (7.4.94) इति दीर्घत्वेन बाध्येत। `मीमांसते` इत्यादावसत्यस्मिन्? ज्ञापके पिपक्षतीत्यादौ सावकाशं `सन्यतः` (7.4.79) इतीत्त्वं मान्बधादिसूत्रेण (3.1.6) विहितेन दीर्घत्वेन बाध्यते। `अजीगणत्` इत्यत्राप्यसत्यास्मेन्? ज्ञापके पपाठेत्यादौ सावकाशो हलादिशेषः **ई च गणः** (7.4.97) इतीत्त्वेन बाध्यते। अस्मस्तु सति तर्वमेतन्न बाध्यते। ननु चासति प्रयोजने ज्ञापकं भवति; अस्ति चास्य प्रयोजनम्, किं तत्? धातुकित्त्वमपेक्ष्य जहातेर्मा भूत् - जाहाति, जाहेतीति? नैतदस्ति; यदि ह्रेतत्? प्रयोजनं स्यात्, तदा `अहाकः` इति प्रतिषेधं कुर्यात्। किञ्च `अकितः` इत्यभ्यासस्य विशेषणं भवितुमर्हति, यद्यभ्यासावस्थायां कित्त्वमुपजायते। न च जहातेः कित्त्वमभ्यासमपेक्षते, पूर्वमेव हि तदभ्यासाद्भवति। तस्माज्जहातेः - जाहाति, जाहेतीति रूपेण भवितव्यम्। ततश्च `अकितः` इति वचनं ज्ञापकमेव। कित्करणं तु जहातेः **हश्च व्रीहिकालयोः** (3.1.148) इत्यत्र सामान्यग्रहणाविघातार्थम्। अथ दीर्घग्रहणं किमर्थम्; आदित्येव नोयेत/ नैवं शक्यम्, `अकितः` इत्यस्य ज्ञापकता नोपपद्यते। सति हि दीर्घग्रहणे नुकि कृतेऽनजन्तत्वादेव हि दीर्घस्य प्राप्तिर्नास्तीति `अकितः` इति प्रतिषेधस्य ज्ञापकत्वमुपपद्यते। आकारस्तु विधीयमानोऽजन्तस्याभ्यासस्य स्यादिति `अकितः` इत्यस्य ज्ञापकत्वं न स्यात्। तस्माद्दीर्घग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- नुगाद्यागमजनितकित्त्वरहितस्याभ्यासस्य यङ्यङ्लुकोः परयोर्दीर्घः स्यात् । पापच्यते । लुङि-अपापचिष्ट । पापचाञ्चक्रे । चिणि-'न धातुलोप-' (१-१-४) इति वृद्ध्यभावाद् अपापचि । रुचेर्यङ् नेति माधवाद्याः । भृशं रोचते । 'सूचिसूत्रिम्मूत्र्यट्यर्त्यशूर्णोतीनां यङ् वाच्यः' (वा०) । आदौ त्रयाणां ण्यन्तत्वेन द्वयच्त्वाद् अन्येषामहलादित्वाच्चोक्तिः । णिलोपः । सोसूच्यते । असोसूचिष्ट । सोसूचाञ्चक्रे । सोसूच्यते । मोमूत्र्यते । अट्य इत्यस्य द्वितीयैकाचो द्वित्वम् । हलादिशेषः । अभ्यासदीर्घः । अटाट्यते : एवम् अशाश्यते । भुक्तिव्याप्त्यर्थयोर्ग्रह इति हरः । ऊर्णोनूयते । अर्तेस्तु । Sudha ----- **दीर्घोऽकित इति** । **अभ्यासस्येति ।** **अत्र लोपोऽभ्यासस्य** (7.4.58) इत्यतोऽभ्यासस्येत्यनुवर्तते इति भावः । **यङि यङ्लुकि चेति ।** **गुणो यङ्लुकोः** (7.4.82) इत्यतस्तदनुवृत्तेरिति भावः । "वाव्रज्यते ।" व्रजधातोः **नित्यं कौटिल्ये गतौ** (3.1.23) इति यङि द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च कृते । "व व्रज् य" इति जाते **दीर्घोऽकितः** (7.4.83) इति दीर्घे **सनाद्यन्ता** (3.1.32) इति धातुत्वाल्लटस्ते शपि, **अतो गुणे** (6.1.97) इति पररूपे टरेत्वे च "वाव्रज्यते" इति । "वाव्रज्येते", "वाव्रज्यन्ते" । "वाव्रज्यसे", "वाव्रज्येथे", "वाव्रज्यध्वे" । "वाव्रज्ये", "वाव्रज्यावहे", "वाव्रज्यामहे" ।