74082: गुणो यङ्लुकोः

Padacheda: गुणः | S | 1 | 1 |

यङ्लुकोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

गुण is substituted for the final of इ and उ (with their long) of a reduplicate when the Intensive character यङ् follows and also when it is elided.

Vasu English Translation

गुण is substituted for the final of इ and उ (with their long) of a reduplicate when the Intensive character यङ् follows and also when it is elided. Thus चेचीयते, लोलूयते with यङ्, and जोहवीति with यङ् लुक् ॥ The ईट् is added in the latter by (7.3.94). So also चोक्रुशीति from क्रुश् (7.3.94) and (7.3.87).

Bhashya

गुणो यङ्लुकोः ॥ ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि(1) परं दीर्घत्वम् ॥ ऐचोर्यङि दीर्घत्वं प्राप्नोति डोढौक्यते तोत्रौक्यत इति ॥ ननु च ह्रस्वत्वे कृते (गुणो(1) भविष्यति) दीर्घत्वं न भविष्यति ॥ न सिद्ध्यति ॥ किं कारणम् ? ॥ ह्रस्वाद्धि परं दीर्घत्वम् । ह्रस्वत्वं क्रियतां दीर्घत्वमिति(2) किमत्र कर्तव्यम् ? ॥ परत्वादीर्घत्वेन भवितव्यम् ॥ न वाऽभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् ॥ न वैष दोषः ॥ किं कारणम् ? ॥ अभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् । अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्त इत्येषा परिभाषा कर्तव्या ॥ कान्येतस्याः परिभाषायाः प्रयोजनानि ? ॥ प्रयोजनं सन्वद्भावस्य दीर्घत्वम्(3) ॥ (सन्वद्भावस्य(1) दीर्घत्वं प्रयोजनम्) ॥ अचीकरत् अजीहरत् ॥ सन्वद्भावमपवादत्वाद्दीर्घत्वं न बाधते ॥ मान्प्रभृतीनां दीर्घत्वमित्त्वस्य ॥ मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वन्न बाधते ॥। गणेरीत्वं हलादिशेषस्य ॥ गणेरीत्वमपवादत्वाद्धलादिशेषं न बाधते ॥ इदमयुक्तं वर्तते ॥ किमत्राऽयुक्तम् ? ॥ ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्त्वा तत उच्यते - न वाभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वादिति । तस्याश्च परिभाषायाः प्रयोजनानि नामोच्यन्ते - प्रयोजनं सन्वद्भावस्य दीर्घत्वं, मान्प्रभृतीनान्दीर्घत्वमित्त्वस्य(5), गणेरीत्वं हलादिशेषस्यति च । न(1) खलु सन्वद्भावमपवादत्वाद्दीर्घत्वं बाधते ॥ किं तर्हि ? ॥ परत्वात् । न खल्वपि मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वं बाधते ॥ किं तर्हि ? ॥ अन्तरङ्गत्वात् । न खल्वपि गणेरीत्वमपवाद्धलादिशेषं बाधते ॥ किं तर्हि ? ॥ अनवकाशत्वात् ॥ एवं तर्हीयं परिभाषा कर्तव्या - अभ्यासविकारेषु बाधका न बाधन्त इति(2) ॥ सा तर्ह्येषा परिभाषा कर्तव्या ? ॥ न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषेति यदयमकित इति प्रतिषेधं शास्ति ॥

Kashika

यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि जोहवीति। यगो वा इति इड्विकल्पः। चोक्रुशीति।

Siddhanta Kaumudi

अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः - (SK2304) इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः - (SK2453) इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥<!सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः !> (वार्तिकम्) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥

Laghu Siddhanta Kaumudi

अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥

Tattvabodhini

गुणो यङ्लुकोः - ब्राउवो वचिरित्यादीति । वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः । धातुग्रहणाऽभावे धिगित्यव्ययादपि स्यात्तस्य क्रियावाचित्वादेकाच्त्वाच्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः ।

Padamanjari

लुक्शब्देनात्र यङ्लुगेव गृह्यते; सन्निधानात् । किञ्च - अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति । चोक्रुशीतिति । क्रुशेर्यङ्लुगन्तातिप्,’यङे वा’ इतीट्,’नाभ्यस्तस्याचि पिति’ इति लघूपधगुणप्रतिषेधः ॥

Nyaas

अभ्यसस्य गुणोऽयं विधीयते। तेन यद्यप्यत्र लुक्शब्दोऽयं सामान्यः, तथापि यङ्लुक एव सम्प्रत्ययो भवति। न ह्यत्र लुक्यभ्यासः सम्भवतीति मत्वाऽऽह - यङि यङ्लुकि च इत्यादि। चौक्रुशीति क्रुश आह्वाने (धातुपाठः-856) यङ्, तस्य यङोऽचि च (2.4.74) इति लृक्, यङो वा (7.3.94) इतीट्, न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणनिषेधाद्यङो लुकि कृते गुणो न प्राप्नोतीति लुग्ग्रहणम्। पुगन्तलघुपधस्य च (7.3.86) इति प्राप्तोऽपि गुणः नाभ्यस्तस्याचि पिति सार्वधातुके (7.3.87) इति निषिध्यते॥

Prakriyasarvasvam

यङि यङ्लुकि च पर इगन्तस्याभ्यासस्य गुणः स्यात् । ङित्त्वाद्‌गुणस्य न गुणः । ङित्त्वादेव तङ् च । बोभूयते । पुनर्भवत्यतिशयेन भवतीति वार्थः । द्विर्भवनेऽपि पौनःपुन्यमस्तीति हरः । सार्वधातुके तङन्तभूवत् । लुङादौ ‘अतो लोपः’ (६-४-४८) । अबोभूयिष्ठ । अबोभूयिषाताम् । बोभूयाञ्चक्रे । बोभूयिता । बोभूयिष्यते । भावे - बोभूय्यते । चिणि - अबोभूयि । प्राप्ययति कर्मण्यपि । अभिभवत्यति कर्मकर्तर्यजन्तत्वाद् ‘अचः कर्मकर्तरि’ (३-१-६२) इति वा चिण् । अभ्यबोभूयि, अभ्यबोभूयिष्ट । भिदेर्यङ् । द्वित्वादगुणः । अभ्यासस्य ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः । बेभिद्यते । लुङि सिचि ‘यस्य हलः’ (६-४-४९) इति यलोपः । उपधागुणं प्राप्ते यलोपस्य सिच्च्कृत्त्वाद् ‘न धातुलोप आर्धधातुके’ (१-१-४) इति निषेधः । अबेभिदिष्ट । बेभिदाञ्चक्रे । बेभिदिषीष्ट । बेभिदिता । बेभिदिष्यते । कर्मणि यकि ‘यस्य हलः’ (६-४-४९) । बेभिद्यते । चिणि-अबेभिदि । ढौकेरभ्यासस्य ह्रस्वे कृते गुणः । डौढौक्यते । पचेर्यङ् । प पच्य ।

Sudha

गुणो यङ्लुकोरिति । यङ् च लुक् च इति द्वन्द्वात् सप्तमी । लुगिह यङ एव विवक्षितः उपस्थितत्वात् । अत्र लोपोऽभ्यासस्य (7.4.58) इत्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासस्येति । इक्परिभाषया इगन्तस्येति लभ्यते । “बोभूयते” भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङ् प्रत्यये ङकारेत्संज्ञायां लोपे च सन्यङो (6.1.9) इति द्वित्वे पूर्वोऽभ्यासः (6.1.4) इत्यभ्याससंज्ञायां हलादिः शेषः (7.4.60) इत्यादिहलःशिष्टे ह्रस्वे अभ्यासे चर्च (8.4.54) इति भस्य बत्वे गुणो यङ्लुकोः (7.4.82) इत्यभ्यासस्य गुणे “बोभूय” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् वर्तमाने लट् (3.2.123) इति लटि, यङो ङित्वात् अनुदात्तङित आत्मनेपदम् (1.3.12) इति लटो लः स्थाने तङि तिङ्शित्सार्वधातुकम् (3.4.113) इति तस्य सार्वधातुकसंज्ञायां कर्तरि शप् (3.1.68) इति शपि अनुबन्धलोपे अतो गुणे (6.1.97) इति पररूपे टित आत्मनेपदानां टेरे (3.4.79) इति तस्य टेरेत्वे “बोभूयते” इति रूपम् । “बोभूयेते”, “बोभूयन्ते” । “बोभूयसे”, “बोभूयेथे”, “बोभूयध्वे” । “बोभूये”, “बोभूयावहे”, “बोभूयामहे” । “बोभूयाञ्चक्रे” । भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि सन्यङो (6.1.9) इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये च जाते गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभूय” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायाम् परोक्षे लिट् (3.2.115) इति लिटि <!कास्यनेकाच आम्वक्तव्यः!> (वार्त्तिकम् (3.1.35)) इति आमि, आमः (2.4.81) इति लिटो लुकि, कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति लिट्परकृञोऽनुप्रयोगे “बोभूयाम् कृ लिट्” इति जाते लिटो लः स्थाने ते, लिटस्तझयोरेशिरेच् (3.4.81) इति तस्य एशि आदेशे लिटि धातोः (6.1.8) इति कृञो द्वित्वे अभ्यासत्वे अभ्यासकार्ये “बोभूयाम् चकृ ए” इति भूते यणि कृते आमो मस्य अनुस्वारे परसवर्णे च कृते “बोभूयाञ्चक्रे” इति रूपम् । लुटि — “बोभूयिता” । लृटि — “बोभूयिष्यते” । लोटि — “बोभूयताम्” । लङि — “अबोभूयत” । लिङि — “बोभूयेत” । आशिषि — “बोभूयिषीष्ट” । “अबोभूयिष्ट ।” भू-इत्यस्माद् धातोः यङि द्वित्वेऽभ्यासगुणे जश्त्वे “बोभूय” इत्यस्य धातुत्वाल्लुङो लः स्थाने तप्रत्ययेऽटि च्लेः सिचि इचावितौ तयोर्लोपे च कृते स् इत्यस्य आर्धधातुकत्वे इटि अतो लोपः (6.4.48) इति यङोऽकारय लोपे षत्वे ष्टुत्वे च “अबोभूयिष्ट” इति रूपम् । आताम्प्रभृतिषु —“अबोभूयिषाताम्”, “अबोभूयिषत” । “अबोभूयिष्ठाः”, “अबोभूयिषाथाम्”, “अबोभूयिध्वम्” । “अबोभूयिषि”, “अबोभूयिष्वहि”, “अबोभूयिष्महि” ।

Sutra Prayogas

  • लेलिहानाः (शिशुपालवधम्): गुणो यङ्लुकोः इत्यभ्यासस्य गुणः।