74074: ससूवेति निगमे

Padacheda: ससूव | T | | |

इति | S | 0 | 0 |

निगमे | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) ससूव is irregularly formed in the लिट् (Perfect Tense).

Vasu English Translation

In the छन्दस् (Vedas) ससूव is irregularly formed in the लिट् (Perfect Tense). It is derived from सू ॥ Thus ससूव स्थविरं विपश्चिताम् otherwise सुषुवे ॥ Rig. IV. 1.10.

This word ससूव might well have been included in sutra (7.4.65).

Kashika

ससूव इति निपात्यते। सूतेर्लिटि परस्मैपदं वुगागमः अभ्यासस्य च अत्वं निपात्यते। ससूव स्थाविरं विपश्चिताम्। सुषुवे इति भाषायाम्।

Siddhanta Kaumudi

सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ॥

Padamanjari

दाधर्त्यादिष्वेवैतत्पठितव्यम् ॥

Nyaas

सूतेः इति। षूङ्? प्राणिगर्भविमोचने (धातुपाठः-1031) - इत्येतस्य। सुषुवे इति। ङित्त्वादात्मनेपदम्; उवङ्। इतिकरणमेवम्प्रकाराणामन्येषामुपसङग्रहार्थम्। तेन जाग्रमः, अदर्शमेत्यादि सिद्धं भवति। जाग्रम इति जागर्तेरग्निपात्यते। अदर्शमेति लङि दृशेः पश्यादेशाभावः। जागृम्, अपश्यामेति भाषायामृ। दाधर्त्त्यादिषु ससूवग्रहयणं न कृतम्; वैचित्र्यार्थम्॥

Prakriyasarvasvam

सूतेर्लिटि सुषुवे इति प्राप्ते गुष्टिः ससूव स्थविरम् ।