74075: निजां त्रयाणां गुणः श्लौ

Padacheda: निजाम् | S | 6 | 3 |

त्रयाणाम् | S | 6 | 3 |

गुणः | S | 1 | 1 |

श्लौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

गुण is substituted for the vowel of the reduplicate in the Reduplicated Present form (श्लु) of निज् , विज् and विष्।

Vasu English Translation

गुण is substituted for the vowel of the reduplicate in the Reduplicated Present form (श्लु) of निज् , विज् and विष्। Thus नेनेक्ति, वेवेक्ति, वेवेष्टि ॥ The word त्रयाणां could have been spared in this sutra, as these three roots stand at the end of a subdivision, and निजां would have denoted these three without the word trayanam. The word is however used here for the sake of the subsequent sutra. Why do we say in the reduplicated Present form? Observe निनेज in the Perfect.

Bhashya

निजां त्रयाणां गुणः श्र्लौ ॥ त्रिग्रहणानर्थक्यं गणान्तत्वात् ॥ त्रिग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ गणान्तत्वात् । त्रय एव निजादयः ॥ उत्तरार्थं तु ॥ उत्तरार्थं तर्हि त्रिग्रहणं कर्तव्यम् - भृञ्ञामित् - त्रयाणां(3) यथा स्यात् - इह मा भूत् - जहाति ॥ ( निजां त्रयाणां गुणः श्र्लौ ) ॥

Kashika

निजादीनां त्रयाणां अभ्यासस्य गुणो भवति श्लौ सति। णिजिर्नेनेक्ति। विजिर्वेवेक्ति। विष्लृ वेवेष्टि। त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणम् समाप्त्यर्थं पठ्यते एव इति। श्लौ इति किम्? निनेज।

Siddhanta Kaumudi

णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥

Laghu Siddhanta Kaumudi

णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज, निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥

Tattvabodhini

निजां त्रयाणां गुणः श्लौ - निजाम् । श्लाविति किम् । निनेज ।

Padamanjari

निजिरि, विजिर, विष्लृ व्याप्तौ जुहोत्यादिष्वमी त्रयः । त्रयाणां ग्रहणमुतरार्थमिति ।’भृञामित्’ इतीत्वं त्रयाणामेव यता स्यात् । अथेहार्थमपि कस्मान्न भवति ? तत्राह - एषां हीति । यदि तर्ह्युतरार्थं त्रिग्रहणं कर्तव्यम्, तदेवास्तु, वृत्करणं तु निजामन्ते शक्यमकर्तुम् ? सत्यम्; तदपि कृतमित्येव । गुणग्रहणमिक्परिभाषोपस्थानार्थम्, तेन हलादिशेषे कृते गुणो भवति; अन्यथा तदपवादो हल एव एकारः स्यात् । अथ ठभ्यासविकारेष्वपवादो नोत्सर्गान् बाधतेऽ इत्याश्रीयेत ? तदा विस्पष्टार्थं गुणग्रहणम् ॥

Nyaas

बहुवचननिर्देशादाद्यर्थो गम्यत इत्यत आह - एवाम् इत्यादि। णिजिर्? शौचपोषणयोः (धातुपाठः-1093), विजिर्? पृथग्भावे (धातुपाठः-1094), विष्लृ व्याप्तौ (धातुपाठः-1095) - इत्येते णिजादयो जौहोत्यादिकाः। त्रिग्रहणमुत्तरार्थम् इति। भृञामित् (7.4.76) इतीत्त्वम्। त्रयाणामेव यथा स्यादधिकानां मा भूदित्येवमर्थं त्रिग्रहणम्। एतदर्थमपि कस्मान्न भवति? इत्यत आह - एवाम् इत्यादि। यद्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते बृत्करणं किमर्थम्? एतद्गणकारः प्रष्टव्यः, न सूत्रकारः। अन्यो हि गणकारोऽन्यश्च सूत्रकारः इत्युक्तं प्राक्। गणकारेणापि वैचित्र्यार्थं वृत्करणं कृतमिति वेदितव्यम्। विचित्रा हि गणस्य कृतिर्गणकारेण। अथ गुणग्रहणं किमर्थम्, एकार एव नोच्येत? अशक्यमेवेदं वक्तुम्; एवं ह्रुच्यमाने द्वेव्यमपि कश्चिद्विजानीयात् - हलादिशेषापवादोऽयं निजादीनामेकर इति। गुणग्रहणे हि संज्ञाविधाने नियम इतीक एव भवति, हलस्तु हलपादिशेषेण निवृत्तिर्भवति॥

Prakriyasarvasvam

निजविजविषां श्लावभ्यासस्य गुणः स्यात् । पित्सु धातोरपि गुणः । नेनेक्ति वस्त्रं, श्रियं वा । नेनिक्तः । नेनिजति । नेनेक्षि । नेनिक्थः । नेनेज्मि । नेनिज्वः; नेनिक्ते । नेनिजाते । नेनिजते । नेनिक्षे । नेनिग्ध्वे । नेनिजे । नेनिज्वहे । विजिर् पृथग्भावे । विष्लृ व्याप्तौ । वेवेक्ति, वेविक्ते । वेवेष्टि, वेविष्टे कर्मणि निज्यते । लिङि नेनिज्यात् । नेनिज्याताम्; नेनिजीत । नेनिजीयाताम् । नेनिजीरन् । नेनिजीथाः । नेनिजीध्वम् । नेनिजीय । नेनिजीवहि । लोटि नेनेक्तु, नेनिक्तात् । नेनिग्धि । नेनिक्तम् ।