74073: भवतेरः

Padacheda: भवतेः | S | 6 | 1 |

अः | S | 1 | 1 |

Sutrartha

लिट्-लकारे परे भू-धातोः अभ्यासस्य अकारादेशः भवति ।

लिट्लकारे परे भू-धातोः लिटि धातोरनभ्यासस्य (6.1.8) इत्यनेन द्वित्वे प्राप्ते द्वयोः यः पूर्वः तस्य पूर्वोऽभ्यासः (6.1.4) इत्यनेन अभ्याससंज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण अकारादेशः भवति । अलोऽन्त्यस्य (1.1.52) इत्यनेन अयमन्त्यादेशः भवति । यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - भू + लिट् [परोक्षे लिट् (3.2.115) ] → भूव् ल् [भुवो वुग्लुङ्लिटोः (6.4.88) इति वुक्-आगमः।] → भूव् भूव् ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → भू भूव् ल् [हलादि शेषः (7.4.60) इति वकारस्य लोपः] → भुभूव् ल् [ह्रस्वः (7.4.59) इति अभ्यासे विद्यमानस्य ऊकारस्य ह्रस्वादेशः ] → भभूव् ल् [भवतेरः (7.4.73) इति अभ्यासस्य अन्तिमवर्णस्य अकारः] → भभूव् तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भभूव् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → भभूव् अ [इत्संज्ञालोपः] → बभूव [अभ्यासे चर्च्च (8.4.54) इति अभ्यासस्य जश्त्वम्]

Sutrartha (English)

When followed by लिट्-लकार, the अभ्यास of the verb root भू is converted to अकार.

Vasu English Summary

अ is substituted for the vowel of the reduplicate of भू ‘to be’ in the लिट् (Perfect Tense).

Vasu English Translation

अ is substituted for the vowel of the reduplicate of भू ‘to be’ in the लिट् (Perfect Tense). As बभूव, बभूवतुः, बभूवुः, बभूवे ॥ Why do we say ‘in the Perfect’? Observe बभूषति and बोभूयते ॥

The word भवतेः is shown in the sutra in the Active Voice, therefore the rule will not apply to Passive and Reflexive forms; as अनुबुभूवे कम्बलो देवदत्तेन ॥ This opinion of Kasika, however, is not endorsed by later Grammarians.

Kashika

भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते।

Siddhanta Kaumudi

भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥

Laghu Siddhanta Kaumudi

भवतेरभ्यासोकारस्य अः स्याल्लिटि॥

Balamanorama

भवतेरः - भवतेरः । भवतेः- अ इति छेदः । भवतेरिति निर्देशः । भूधातोरित्यर्थः ।इक्श्तिपौ धातुनिर्देशे॑ इत्युक्तेः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येनुव्रतते । ‘व्यथो लिटि’ इत्यस्माल्लिटीति । भूधातोरभ्यासस्य भवन्नकारः ‘अलोऽन्त्यस्ये’ त्यन्त्यस्योकारस्य भवति । तदाह - अभ्यासोकारस्येति ।नानर्थकेऽलोन्त्यविधि॑रिति तु नेह प्रवर्तते, ‘अनभ्यासविकारे’ इत्युक्तेः ।

Tattvabodhini

भवतेरः - ॒अत्र लोपोऽभ्यसस्ये॑ति सूत्रादभ्यासपदमनुवर्तते । अत्र प्राचोक्तं — भवतेरिति कर्तृनिर्देशाद्भावकर्मणोर्नाऽत्वमिति । व्याख्यातं च तत्पौत्रेण — कत्र्रर्थयोः श्तिप्शपोर्निर्देशादित्यर्थ॑ इति । तन्न । धातुनिर्देशमात्रे श्तिपो विधानात्, शपश्च विकरणत्वनानर्थकत्वात्, कत्र्रर्थके परे विहितस्यापि तस्य श्तिपः शित्त्वसामर्थ्यादेवेह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्याउपसर्गात्सुनोतिसुवती॑त्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात्, अपसिद्धान्तश्चाऽयमिति स्पष्टमेवाकरदृशाम् । प्रयुञ्जते चकर्मण्यप्यकारं कवयः — तस्यातपत्रं बिभरांबभूवे॑,विभावरीभिर्विभरांबभूविरे॑ इत्यादि । एतच्च प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम् ।अत्र नव्याः — श्तिपः शित्त्वसामर्थ्यादेवेह शपः प्रवृत्ति॑रिति यदुक्तं, तन्नापिबतिर्ग्लायतिरित्यादौ पिबद्यादेशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । एवं चउपसर्गात्सुनोतिसुवति॑,भवतेरः॑ध्यायतेः संप्रसारणं चे॑त्यादिनिर्देशादकर्तृवाचिन्यपि परे शवादय इत्येव व्याख्येयम् । अन्यथाइक्श्तिपौ॑ इति सूत्रे वक्ष्यमाणस्वग्रन्थेन सह विरोधापत्तेः । केचित्तु — शित्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौआर्धधातुकस्येड्वलादे॑रितीडागमनिवृत्त्या,ब्रावीति॑रित्यत्रब्राउव ईडि॑ तीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तञ्चिन्त्यम् ।तितुत्रे॑ त्यनेनेंण्निषेधादाद्र्धधातुकत्वेऽपि क्षत्यभावात् ।ब्राउव ई॑डित्यत्रब्राउवः परस्य हलादेः पित ईडागम॑ इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाऽभावेऽपि क्षत्यभावात् । न च हलादेःपित्प्रत्ययस्यसार्व्धातुकस्ये॑ति विशेषणाऽभावे ब्राउवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्राऽतिप्रसङ्गः स्यादिति वाच्यं, थलोऽत्र पित्तवाऽभावात् । न च स्थानिवद्भावेन पित्त्वं, श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विध#आविति तन्निषेधात् । तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसाम्रथ्यादकर्तर्यपि शपः प्रवृत्तिरिति ग्रन्थो निराकर्तव्य इत्याहुः । तदपरे न क्षमन्ते । थलः पित्त्वाऽभावे हिअसंयोगाल्लिट्कि॑दिति कित्त्वात्वचिस्वपी॑ति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत्, किंतु ऊचिथ ऊक्थेति स्यात् । तस्मात्स्थानिवत्त्वेन थलः पित्त्वेऽभ्युपगते उवक्थेत्यादावतिप्रसङ्गवारणायपितः सार्वधातुकस् ईडागम॑ इति व्याख्यातमेव, तथा च ब्रावीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चिद्यदुक्तं तदपि सम्यगेवेति॥

Padamanjari

ठुरत्ऽ इत्यस्यानन्तरमिदं नोक्तं लिटीत्युपजीवनाय । यदि पुनस्तदत्रैवोच्येत ? नैवं शक्यम्; लिट।लेव हि स्यात् । श्तिपा निर्द्देशो यङ्लुग्निवृत्यर्थः ॥

Nyaas

बभूव इति। भुवो वुग्लुङ्लिटोः (6.4.88) इति वृक्। अनुबभूवे इति। कर्मण्यात्मनेपदम्। श्तिपा निर्देशी यङ्लुग्निवृत्त्यर्थः - वोभावेति॥

Prakriyasarvasvam

भुवोऽभ्यासस्य लिट्यत्वं स्यात् । जश्त्वं बभूवान् । कृञश्चक्रुवान् । भिदेर्बिभिद्वान् । दिव् वस्, वकारादौ किति प्रत्यये च्छ्वोः शूड् वेति कोमुदी । तत्र वस्य ऊठ्पक्षे यण् । द्युवस् । पुनर्द्वित्वं, द्युद्युवस् । हलादिशेषेण यलोपः । ह्रस्वः । दुद्युवान् । ऊडभावे दिदिव् वस् । ‘लोपो व्योः’ (६-१-६६) इति वलोपः, दिदिवान् । एवं विच्छेः छस्य वा शत्वं, विविश्वान् विविच्छ्वान् ॥