74074: ससूवेति निगमे ==================== **Padacheda:** ससूव | T | | | इति | S | 0 | 0 | निगमे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) ससूव is irregularly formed in the लिट् (Perfect Tense). Vasu English Translation ------------------------ In the छन्दस् (Vedas) ससूव is irregularly formed in the लिट् (Perfect Tense). It is derived from सू ॥ Thus ससूव स्थविरं विपश्चिताम् otherwise सुषुवे ॥ *Rig*. IV. 1.10. This word ससूव might well have been included in *sutra* (7.4.65). Kashika ------- ससूव इति निपात्यते। सूतेर्लिटि परस्मैपदं वुगागमः अभ्यासस्य च अत्वं निपात्यते। ससूव स्थाविरं विपश्चिताम्। सुषुवे इति भाषायाम्। Siddhanta Kaumudi ----------------- सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ॥ Padamanjari ----------- दाधर्त्यादिष्वेवैतत्पठितव्यम् ॥ Nyaas ----- `सूतेः` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) - इत्येतस्य। `सुषुवे` इति। ङित्त्वादात्मनेपदम्; उवङ्। इतिकरणमेवम्प्रकाराणामन्येषामुपसङग्रहार्थम्। तेन जाग्रमः, अदर्शमेत्यादि सिद्धं भवति। जाग्रम इति जागर्तेरग्निपात्यते। अदर्शमेति लङि दृशेः पश्यादेशाभावः। जागृम्, अपश्यामेति भाषायामृ। दाधर्त्त्यादिषु ससूवग्रहयणं न कृतम्; वैचित्र्यार्थम्॥ Prakriyasarvasvam ----------------- सूतेर्लिटि सुषुवे इति प्राप्ते गुष्टिः ससूव स्थविरम् ।