74057: मुचोऽकर्मकस्य गुणो वा ============================ **Padacheda:** मुचः | S | 6 | 1 | अकर्मकस्य | S | 6 | 1 | गुणः | S | 1 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- When मुच् has an Intransitive signification गुण is optionally substituted for its vowel before the अनिट् सन् of the Desiderative. Vasu English Translation ------------------------ When मुच् has an Intransitive signification गुण is optionally substituted for its vowel before the अनिट् सन् of the Desiderative. By (1.2.10), after a root ending in a consonant, the सन् is like कित् and does not cause *Guna*. The present *sutra* ordains it optionally. As मोक्षते or मुमुक्षते वत्सः स्वयमेव ॥ In the Transitive there is one form only, as मुमुक्षति वत्सं देवदत्तः ॥ मुच् becomes Intransitive when it has a Reflexive significance, or when it expresses a mere action. The reduplication is elided by (7.4.58). Kashika ------- मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। **हलन्ताच् च** (1.2.10) इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव। अकर्मकस्य इति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा। Siddhanta Kaumudi ----------------- सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः (SK2348) । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि - (SK2506) इति वेट् । निनर्तिषति । निनृत्सति ॥ Laghu Siddhanta Kaumudi ----------------------- णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥ Balamanorama ------------ **मुचोऽकर्मकस्य गुणो वा** - मुचोऽकर्मकस्य । सादौ सनीति । शेषपूरणमिदम् ।सः सी॑त्यतः सीत्,सनि मीमे॑त्यतः सनीति चानुवृत्तेरिति भावः ।हलन्ताच्चे॑ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोप इति । 'अत्र लोपः' इत्यनेने॑ति शेषः । मोक्षते इति । 'अत्र लोपः' इत्यभ्यासलोपः । तङि त्विति । 'न वृद्भ्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः । निनृत्सतीति । इडभावपक्षेहलन्ताच्चे॑ति कित्त्वान्न गुणः । Tattvabodhini ------------- **मुचोऽकर्मकस्य गुणो वा** - मुचोऽकर्मकस्य ।हलन्ताच्चे॑ति कित्त्वेन गुणाऽभावे प्राप्ते विधिरयम् । विवत्सतीति ।वृद्भ्यः स्यसनो॑रिति विकल्पेन परस्मैपदम् । Padamanjari ----------- मुमुक्षत इति ।'भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्' इति कर्मकर्तरि यगभावः । अतिदेशेन स्वश्रयस्यानिवृतेः कर्तरि शब्भवति; यथा - नमते दण्डः स्वयमेवेति । कर्मविशेषस्याविवक्षितत्वाद्वेति । उक्तं हि - 'प्रसिद्धेरविवक्षातः कर्मणो' कर्मिका क्रिया ।ऽ इति ॥ Nyaas ----- `मोक्षते` इति। `मुच्लू मोक्षणे` (धातुपाठः-1430)। **चोः कुः** (8.2.30) इति कुत्वम्; `इण्कोः` (8.3.57) इति षत्वम्, `कर्मवत्कर्मणा` (3.1.87) इत्यदिना कर्मवदतिदेशादात्मनेपदम्। `स्वयमेव` इति वचनं कर्मकर्त्तृत्वप्रदर्शनार्थम्। वत्सं मोक्तुमिच्छति, स मोक्तुमिष्यमाणो मुक्तिक्रियां प्रत्यानुकूल्यं यदा प्रतिपद्यते तदा स्वतन्त्रत्वादस्मिन्? कर्मणि कर्त्तृत्वेन विवक्षिते मुचिरकर्मको भवति। अथ गुणग्रहणं किमर्थम्, नोदित्येवोच्येत? नमु चैदं सत्योकारश्चकारस्य स्थाने **अलोऽन्त्यस्य** (1.1.52) प्राप्नोति, गुणग्रहणादिक एव भवति, संज्ञाविधाने नियमात्? नैतदस्ति; अच इत्यनुवर्तते। तेनान्त्यस्य न भविष्यति। एवं तह्र्रेतज्ज्ञापयति - अचेति निवृत्तमिति। तेन **अत्र लोपोऽभ्यासस्य** (7.4.58) इत्यत्रातोऽभ्यासस्य लोपो न भवति। सति त्वजधिकारे, मा भूत्? तस्यानुवृत्तिरपार्थिकेत्यच एव लोपः स्यात्॥ Prakriyasarvasvam ----------------- सादौ सनि परेऽकर्मकस्य मुचेर्वा गुणः स्यात् । अभ्यासस्य लोपः । भवेदकर्मता चास्य कर्मकर्तरि तेन तङ् । यक्चिणौ तु सनन्तस्य नेत्युक्तं कर्मकर्तरि ॥ ७८८ ॥ मोक्षते वत्सः स्वयमेव, मुमुक्षते वा । सकर्मकस्य तु न । मुमुक्षति वत्सं कृष्णः । उच्छी विवासे । अत्र तुकि चुत्वस्यासिद्धत्वेन हलादिशेषाद् उतिच्छिषतीति प्राप्ते ‘खपूर्वाः खय इति वाच्यम्’ । (वा) इति तकारपूर्वस्य छकारस्य शेषः । छस्य चत्वम् । उच्छिच्छिषति । उतिच्छिषतीत्यप्यस्तीति कौमुदी* । ‘द्युतिस्वाप्योः—’ (७-४-६७) इत्यभ्यासस्य प्रसारणम् । ‘रलो व्युपधात्—’ (१-२-२६) इति वा कित्त्वम्, दिद्युतिषते, दिद्योतिषते । सुष्वापयिषति । स्फारयतीत्यत्र णौ कृतस्यात्त्वस्य द्वित्वे कार्ये स्थानिवत्त्वात् पुस्फारयिषति । अनात्त्वे-पुस्फुरयिषति । एवं वृद्धावावोः स्थानिवत्त्वात् तुष्टावयिषति । ‘ओः पुयण्ज्यपरे’ (७-४-८०) इतोत्त्वात् पिपविषते, पिपावयिषति । बिभावयिषति । यणि—यियावयिषति । रिरावयिषति । लिलावयिषति । जकारे—जिजावयिषति । अवर्णापरत्वाभावात् बुभूषतीत्यत्र न । ‘स्रवतिशृणोति-’ (७-४-८१) इत्यादिना वेत्त्वम् । सिस्रावयिषति, सुस्रावयिषति । शिश्रावयिषति, शुश्रावयिषति इत्यादि । अथ षोपदेशानां सर्वत्राभ्यासेणः परस्य सस्य षत्वे प्राप्ते ।