74051: रि च =========== **Padacheda:** रि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **तास्-प्रत्ययस्य अन्तिमवर्णस्य रेफे परे लोपः भवति ।** लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य रेफे परे लोपः जायते । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अयं लोपः अन्तिम-वर्णस्यैव भवति । यथा, पठ्-धातोः लुट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् - पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → पठ् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + तस् [**तिप्तस्..** (3.4.78) इति तस् ] → पठ् + इ + तास् + रौ [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति तस्-प्रत्ययस्य रौ-आदेशः] → पठ् + इ + ता+ रौ [**रि च** (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठितारौ ज्ञातव्यम् - अस्मिन् सूत्रे 'तास्त्योः' इत्यस्मात् केवलं 'तास्' इति अनुवर्तते, 'अस्' इति न - यतः अस्-इत्यस्मात् परे रेफादिप्रत्ययः न भवितुम् सम्भवति । Sutrartha (English) ------------------- The last letter (सकार) of the तास्-प्रत्यय is removed when followed by a रेफ. Vasu English Summary -------------------- The final स् of तास् (the character of the second future) and अस् 'to be' is elided before an affix beginning with र्। Vasu English Translation ------------------------ The final स् of तास् (the character of the second future) and अस् 'to be' is elided before an affix beginning with र्। As कर्तारौ, कर्त्तारः, अध्येतारौ, अध्येतारः ॥ The स् of अस् 'to be' is elided in the Perfect, because it is there that a र् beginning affix can follow it. Thus व्यतिरे (See (6.4.111). According to the reading of *Padamanjari*, there can be no example of अस् ॥ अस्तेरुदाहरणं न प्रदर्शितं, रेफादेरसम्भवात् ॥ Kashika ------- रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः। Siddhanta Kaumudi ----------------- रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥ Laghu Siddhanta Kaumudi ----------------------- रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः॥ Balamanorama ------------ **रि च** - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् । Tattvabodhini ------------- **रि च** - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते,ततो रादिप्रत्ययस्याऽसंभवात्॥ Padamanjari ----------- अस्तेरुदाहरणं न प्रदर्शितम्, रेफादेरसम्भवात् ॥ Nyaas ----- `कर्तारौ, कर्तारः` इति। लुट्, तस्, झिः, **लुटः प्रथमस्य डारौरसः** (2.4.85) इति तसो झेश्च यथाक्रमं रौरसौ भवतः। `अध्येतारौ, अध्येतारः` इति। इङो ङित्त्वादत्मनेपदम्? आताम्, झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्। केचित्तु - `व्यतिरे` इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्, अथ तु नास्त्येवं सत्ययुक्तम्। **इरयो रे** (6.4.76) इति रेभावश्छन्दसि विधीयते, `यथादृष्टानुविधिश्छन्दसि` (व्या।प।68) इति। चकारः पूर्वापेक्षया समुच्चयार्थः॥ Prakriyasarvasvam ----------------- रेफादौ (प्रत्यये) परे तासेः सस्य लोपः स्यात् । भवितारौ । भवितारः । भवितास् सि ।