74016: ऋदृशोऽङि गुणः

Padacheda: ऋदृशः | S | 6 | 1 |

अङि | S | 7 | 1 |

गुणः | S | 1 | 1 |

Sutrartha


Vasu English Summary

गुण is substituted for the vowel of the root before the affix अङ् in the roots ending in ऋ or ॠ as well as दृश् ‘to see’.

Vasu English Translation

गुण is substituted for the vowel of the root before the affix अङ् in the roots ending in ऋ or ॠ as well as दृश् ‘to see’. As शकलाङ्गुष्ठकोऽकरत्, अहं तेभ्योऽकरं नमः, असरत्, आरत्, अदर्शत्, अदर्शताम्, अदर्शन् ॥ The affix अङ् means the Aorist-character अङ् of which the above examples are given. It also is the krit-affix (3.3.104). of which we have जॄ–जरा ॥

The word अकरत् is अङ् Aorist formed from कृ by (3.1.59). The word असरत् is from सृ (3.1.56). अदर्शत् by (6.1.57).

Kashika

ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्योऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।

Siddhanta Kaumudi

ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥

Balamanorama

ऋदृशोऽङि गुणः - ऋदृशोऽङि । ‘ऋ’ इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे ‘शल इगुपधा’ दिति क्सादेशे प्राप्ते सतीत्यर्थः ।

Tattvabodhini

ऋदृशोऽङि गुणः - अदाङ्क्षीदिति ।वदव्रजे॑ति वृद्धिः । अदांष्टाम् । अदाङ्क्षुः ।

Padamanjari

ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ’कृमृदॄउहिभ्यश्च्छन्दसि’ इति च्लेरङ् । असरदिति ।’सर्तिशास्त्यर्तिभ्यश्च’ इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत - ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥

Nyaas

क्ङिति च (1.1.5) इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। अकरत् इति। कृञो लुड्, च्लिः, तिप्, **कृमृदृरुहिभ्यश्छन्दसि** (3.1.59) इति च्लेरङ। `असरत् इति। सृ गतौ (धातुपाठः-935)। आरत् इति। ऋ गतिप्रापणयोः (धातुपाठः-936), सर्त्तिशास्त्यर्त्तिभ्यश्च (3.1.56) इति च्लेरङ्, अर्तेरजादित्वादाटि कृते आटश्च (6.1.87) इति वृद्धिः। अदर्शत् इत इरितो वा (3.1.57) इत्यङ्। अथ गुणग्रहणं किमर्थम्। अकार एव नोच्येत? नैवं शक्यम्; अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति॥

Prakriyasarvasvam

ऋवर्णान्ताद् दृशेश्चाङि परे गुणः स्यात् । जरा । लब्धिर्जीर्णिश्च बाहुलकात् । घटादयः मितः । घटा व्यथा प्रथा तद्वत् त्वराथो मर्दनं म्रदा । खदा विदारो विस्तारः प्रसा स्यात् कदनं कदा ।। १५७ ।। भिदादिस्तु भिदिच्छिदिविदिदयिरुजिसृजिक्षिपिचुरिप्रच्छिभ्योऽसंज्ञायाम् । ङित्त्वाद्गुणः । भिदा । छिदा । विदा । दया । रुजा । मृजा । क्षिपा । चुरा । ङित्त्वात् प्रसारणम् । पृच्छा । असंज्ञायामित्युक्तेर्नाम्नि क्तिनेव । भित्तिः कुड्यम् । विच्छित्तिः अलङ्कारः । गुहितुलिवसिवपिक्षपिक्षिभ्यः संज्ञायाम् । गुहा । तुला । वसा । वपा । क्षपा । इयङ् । क्षिया । चोरितुल्योश्चुरादिणिजनित्यत्वान्न । रिखिलिखिविगुभिसिधिमिधिगुधिभ्यो गुणश्च । रेखा । लेखा । शोभा । सेधा सत्त्वम् । मेधा । गोधा । ऋकृहृधृभ्यो वृद्धिश्च । आरा प्रतोदश्चर्मसीवनसूचिर्वा । कारा बन्धगृहम् । हारा मानम् । हरणमिति वामनः । मुक्ताहार इत्यन्ये । धारा । तारा नक्षत्रम् । ‘तारा तु नृस्त्रियोरि’ति केशवोक्तेः पुंस्यपि । क्लीबे तु चिन्त्यम् । ‘कृपेः संप्रसारणं च (गण० ३-३-१०४) । कृपा । चुदेर्डो दीर्घश्चेति रामः । चूडा । ‘जट सङ्घात’ इत्यस्य भिदाद्यङि जटेति स्वामी । तथा विस्रंसेरङि नलोपे विस्रसा जरा इति ।। असरत् असरताम् । श्लुगतयोरेवातिसृत्योर्ग्रहान्छ्यङ् नेति केचित् । तत्र सिचि वृद्धिः । असार्षीत् । असाष्टाम् । असार्षम् । असार्ष्व । एवमर्तेरपि । आरत्, आर्षीत् इत्युह्यम् । चिणि असारि । असरेताम् असरन्त । असरथाः । असरध्वम् । असरे । असरावहि असरामहि । सिज्मतेऽजन्तत्वाद्वा चिण्वदिटि असारिषाताम्, असारिषत । असारिष्ठाः । रेफात् परत्वाद् ‘विभाषेटः’ । असारिढ्वम्, असारिध्वम् । असारिषि असारिष्वहि । चिण्वदिडभावे ।

Sutra Prayogas

  • दर्शता (भट्टिकाव्यम्): ऋ-दृशोऽङि गुणः इति गुणः।

  • आरताम् (भट्टिकाव्यम्): ऋ - शोडि इति गुणः।

  • अजरत् (भट्टिकाव्यम्): ऋदृशोऽङि इति गुणः।

  • समारन्त (भट्टिकाव्यम्): ऋ-दृशो ऽङि गुणः इति गुणः।

  • आक्रन्दिषुः (भट्टिकाव्यम्): ऋदृशो ऽङि गुणः इत्याक्रन्दिपुः आक्रन्दितवन्तः।

  • अन्वारत् (भट्टिकाव्यम्): ऋदृशो ऽङि गुणः इति गुणः।