74016: ऋदृशोऽङि गुणः ==================== **Padacheda:** ऋदृशः | S | 6 | 1 | अङि | S | 7 | 1 | गुणः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- गुण is substituted for the vowel of the root before the affix अङ् in the roots ending in ऋ or ॠ as well as दृश् 'to see'. Vasu English Translation ------------------------ गुण is substituted for the vowel of the root before the affix अङ् in the roots ending in ऋ or ॠ as well as दृश् 'to see'. As शकलाङ्गुष्ठकोऽकरत्, अहं तेभ्योऽकरं नमः, असरत्, आरत्, अदर्शत्, अदर्शताम्, अदर्शन् ॥ The affix अङ् means the Aorist-character अङ् of which the above examples are given. It also is the *krit*-affix (3.3.104). of which we have जॄ--जरा ॥ The word अकरत् is अङ् Aorist formed from कृ by (3.1.59). The word असरत् is from सृ (3.1.56). अदर्शत् by (6.1.57). Kashika ------- ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्योऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्। Siddhanta Kaumudi ----------------- ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥ Balamanorama ------------ **ऋदृशोऽङि गुणः** - ऋदृशोऽङि । 'ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे 'शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः । Tattvabodhini ------------- **ऋदृशोऽङि गुणः** - अदाङ्क्षीदिति ।वदव्रजे॑ति वृद्धिः । अदांष्टाम् । अदाङ्क्षुः । Padamanjari ----------- ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ'कृमृदॄउहिभ्यश्च्छन्दसि' इति च्लेरङ् । असरदिति ।'सर्तिशास्त्यर्तिभ्यश्च' इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत - ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥ Nyaas ----- **क्ङिति च** (1.1.5) इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। `अकरत्` इति। कृञो लुड्, च्लिः, `तिप्, **कृमृदृरुहिभ्यश्छन्दसि** (3.1.59) इति च्लेरङ। `असरत्` इति। `सृ गतौ` (धातुपाठः-935)। `आरत्` इति। `ऋ गतिप्रापणयोः` (धातुपाठः-936), `सर्त्तिशास्त्यर्त्तिभ्यश्च` (3.1.56) इति च्लेरङ्, अर्तेरजादित्वादाटि कृते `आटश्च` (6.1.87) इति वृद्धिः। `अदर्शत्` इत **इरितो वा** (3.1.57) इत्यङ्। अथ गुणग्रहणं किमर्थम्। अकार एव नोच्येत? नैवं शक्यम्; अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति॥ Prakriyasarvasvam ----------------- ऋवर्णान्ताद् दृशेश्चाङि परे गुणः स्यात् । जरा । लब्धिर्जीर्णिश्च बाहुलकात् । घटादयः मितः । घटा व्यथा प्रथा तद्वत् त्वराथो मर्दनं म्रदा । खदा विदारो विस्तारः प्रसा स्यात् कदनं कदा ।। १५७ ।। भिदादिस्तु भिदिच्छिदिविदिदयिरुजिसृजिक्षिपिचुरिप्रच्छिभ्योऽसंज्ञायाम् । ङित्त्वाद्गुणः । भिदा । छिदा । विदा । दया । रुजा । मृजा । क्षिपा । चुरा । ङित्त्वात् प्रसारणम् । पृच्छा । असंज्ञायामित्युक्तेर्नाम्नि क्तिनेव । भित्तिः कुड्यम् । विच्छित्तिः अलङ्कारः । गुहितुलिवसिवपिक्षपिक्षिभ्यः संज्ञायाम् । गुहा । तुला । वसा । वपा । क्षपा । इयङ् । क्षिया । चोरितुल्योश्चुरादिणिजनित्यत्वान्न । रिखिलिखिविगुभिसिधिमिधिगुधिभ्यो गुणश्च । रेखा । लेखा । शोभा । सेधा सत्त्वम् । मेधा । गोधा । ऋकृहृधृभ्यो वृद्धिश्च । आरा प्रतोदश्चर्मसीवनसूचिर्वा । कारा बन्धगृहम् । हारा मानम् । हरणमिति वामनः । मुक्ताहार इत्यन्ये । धारा । तारा नक्षत्रम् । 'तारा तु नृस्त्रियोरि'ति केशवोक्तेः पुंस्यपि । क्लीबे तु चिन्त्यम् । 'कृपेः संप्रसारणं च (गण० ३-३-१०४) । कृपा । चुदेर्डो दीर्घश्चेति रामः । चूडा । 'जट सङ्घात' इत्यस्य भिदाद्यङि जटेति स्वामी । तथा विस्रंसेरङि नलोपे विस्रसा जरा इति ।। असरत् असरताम् । श्लुगतयोरेवातिसृत्योर्ग्रहान्छ्यङ् नेति केचित् । तत्र सिचि वृद्धिः । असार्षीत् । असाष्टाम् । असार्षम् । असार्ष्व । एवमर्तेरपि । आरत्, आर्षीत् इत्युह्यम् । चिणि असारि । असरेताम् असरन्त । असरथाः । असरध्वम् । असरे । असरावहि असरामहि । सिज्मतेऽजन्तत्वाद्वा चिण्वदिटि असारिषाताम्, असारिषत । असारिष्ठाः । रेफात् परत्वाद् 'विभाषेटः' । असारिढ्वम्, असारिध्वम् । असारिषि असारिष्वहि । चिण्वदिडभावे । Sutra Prayogas -------------- * **दर्शता** (भट्टिकाव्यम्): `ऋ-दृशोऽङि गुणः` इति गुणः। * **आरताम्** (भट्टिकाव्यम्): `ऋ - शोडि` इति गुणः। * **अजरत्** (भट्टिकाव्यम्): `ऋदृशोऽङि` इति गुणः। * **समारन्त** (भट्टिकाव्यम्): `ऋ-दृशो ऽङि गुणः` इति गुणः। * **आक्रन्दिषुः** (भट्टिकाव्यम्): `ऋदृशो ऽङि गुणः` इत्याक्रन्दिपुः आक्रन्दितवन्तः। * **अन्वारत्** (भट्टिकाव्यम्): `ऋदृशो ऽङि गुणः` इति गुणः।