74015: आपोऽन्यतरस्याम्¶
Padacheda: आपः | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Optionally the feminine अङ्ग (stem) in आ is not shortened before the affix कप्।
Vasu English Translation¶
Optionally the feminine अङ्ग (stem) in आ is not shortened before the affix कप्। As बहुखट्वाकः or बहुखट्वकः, बहुमालकः or बहुमालाकः ॥
Kashika¶
आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम्। बहुखट्वाकः, बहुखट्वकः। बहुमाल कः बहुमालकः।
Siddhanta Kaumudi¶
कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥
Balamanorama¶
आपोऽन्यतरस्याम् - आपोऽन्यतरस्याम् । कपीति ।न कपी॑त्यतस्तदनुवृत्तेरिति भावः । आबन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति ।शृद्दृप्रां ह्रस्वो वा॑ इत्यतस्तदनुवृत्तेरिति भावः ।न कपी॑ति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुवमालाक इति । बह्व्यो माला यस्येति विग्रहः । ह्रस्वपक्षे ‘बहुलमालक’ इति भावति । कपो वौकल्पिकत्वात् पक्षे बहुमालः । सर्वत्रस्त्रियाःपुंवदि॑ति पुंवत्त्वम् ।
Nyaas¶
बहुखट्वाकः इति। शेषाद्विभाषा (5.4.154) इति कप्॥
Prakriyasarvasvam¶
आबन्तस्य कपि ह्रस्वो वा स्यात् । बहुमालकः बहुमालाकः । कबभावे बहुमालः । अनावन्तस्यापि ह्रस्वो वेति कौमुदी । सुसोमपकः, सुसोमपाकः ॥
Sutra Prayogas¶
अतस्तरद् (भट्टिकाव्यम्): अत् स्मृ-हृ-त्वर इत्यादिना अत्वम्।
अददरत्तस्य (भट्टिकाव्यम्): अत् स्मृ-हृ-स्वर इत्यादिनाभ्यासस्यात्वम्।