74017: अस्यतेस्थुक्¶
Padacheda: अस्यतेः | S | 6 | 1 |
थुक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The अङ्ग (stem) अस् ‘to be’ (अस्यते) gets the augment थुक् before this Aorist अङ्।
Vasu English Translation¶
The अङ्ग (stem) अस् ‘to be’ (अस्यते) gets the augment थुक् before this Aorist अङ्। As आस्थत्, आस्थताम्, आस्थन् ॥ See (3.1.52).
Kashika¶
अस्यतेरङ्गस्य थुगागमो भवति अङि परतः। आस्थत्, आस्थताम्, आस्थन्।
Siddhanta Kaumudi¶
अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति - (SK2438) इति वचनं तङर्थम् । तङ् तु उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ।{$ {!1210 यसु!} प्रयत्ने$} ॥
Balamanorama¶
अस्यतेस्थुक् - अस्यतेस्थुक् । शेषं पूरयति — अङि परे इति ।ऋदृशोऽङी॑त्यतस्तदनुवृत्तेरिति भावः । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादस्धातोरन्तत्यावयवः । ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धेअस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति — अस्य पुषादित्वादित । तङर्थमिति ।पर्यास्थते॑त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः । नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह — तङ् तु उपसर्गादिति वक्ष्यते इति ।पदव्यवस्थाया॑मिति शेषः । यसु प्रयत्ने ।
Padamanjari¶
आस्थदिति । ठस्यतिवक्तिख्यातिभ्योऽङ्ऽ ॥
Nyaas¶
आस्थत् इति। असु क्षेपणे (धातुपाठः-1209) अस्यतिवक्तिखक्यातिभ्योऽङ् (3.1.52) इति च्लेरङादेशः॥
Prakriyasarvasvam¶
अस्यतेरङि थुक् स्यात् । आस्थत् । आस्थताम् । आस्थन् । एवं निरास्थत् । तङि निरास्थत । निरास्थेताम् । निरास्थन्त । निरास्थथाः । निरास्थध्वम् । निरास्थे । निरास्थावहि । कर्तर्यङुक्तेः कर्मणि सिच् । आसि । आसिषाताम् । कर्मकर्तरि तु आसि शन्नुः स्वयमेव । कर्तृत्वादङि आस्थेताम् । आस्थन्त इत्यादि तङ्वत् । लिटि आस । आसतुः । आसुः । आसिथ । आसथुः । आस । आस । आसिव । एवं निरास । तङि निरासे । निरासाते । निरासिषे । निरासिध्वे । निरासिवहे । अस्यात् । असिता । असिष्यति । तङि निरसिषीष्ट इत्यादि । <karika>पुषाद्यङि नशेरेत्वं वेति वृत्तिकृतो मतम् । नश एदिति दुर्गोऽपि तेनानेशत् तथानशत् ॥ ७१६ ॥</karika> ॥ इति श्यन्विकरणः ॥
Sutra Prayogas¶
आस्थत् (शिशुपालवधम्): अस्यतेस्थुक् इति थुगागमः।
निरास्तत् (भट्टिकाव्यम्): अस्यतेस्थुक् इति थुक् ॥
अजीगणद् (भट्टिकाव्यम्): ई च गणः इति अभ्यासस्येकारः।
निरास्थच्च (भट्टिकाव्यम्): अस्यतेस्थुक् इति ।
आस्थतां (भट्टिकाव्यम्): अस्यतेस्थुक् यथा अन्धकारमता निष्टां विस्तारितवन्तौ।