74002: नाग्लोपिशास्वृदिताम्

Padacheda: न | S | 0 | 0 |

अग्लोपिशास्वृदिताम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The shortening of the penultimate of the stem, before the causative affix in the reduplicated Aorist, does not take place, when it is a (Denominative) अङ्ग (stem), which has lost a simple (end vowel of the Nominal stem) before the Causative sign and also not, when it is the verb शास् , or a root which has an indicatory ऋ।

Vasu English Translation

The shortening of the penultimate of the stem, before the causative affix in the reduplicated Aorist, does not take place, when it is a (Denominative) अङ्ग (stem), which has lost a simple (end vowel of the Nominal stem) before the Causative sign and also not, when it is the verb शास् , or a root which has an indicatory ऋ। The word अग्लोपिन् means literally a stem, in which a simple vowel (अक् pratyahara) or a portion containing an अक् vowel has been dropped. As the final vowels of Denominative stems are so elided before the Causative sign णि, the sutra has been translated accordingly. Thus अममालत् = मालामाख्यत्; अममातरत् = मातरमाख्यत्, अत्यरराजत् = राजानमतिक्रान्तवान्, अन्वलुलामत् = लोमान्यनुमृष्टवान् ॥ Where a simple अक् vowel alone is elided, as in the case of माला, there the elided आ being sthanivat, would prevent the shortening, the आ of मा not being then considered penultimate. So that अग्लोपिन् could be spared from the sutra, since the sthanivad-bhava would prevent shortening. But where an अक् vowel plus a consonant is dropped, as in राजन् and लोमन्, there the sthanivad-bhava does not apply (1.1.57), hence the necessity of employing the term अग्लोपिन् in the sutra. Similarly अशशासत् with शास्; and अबबाधत् from बाधृ, अययाचत् from याचृ, and अडुढौकत् from ढौकृ ॥ See (3.1.21) and (2.1.2).

Bhashya

नाग्लोपिशास्वृदिताम् ॥ अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवद्भावात् ॥ अग्लोपिप्रतिषेधश्चाऽनर्थकः ॥ किं कारणम् ? ॥ स्थानिवद्भावात् । स्थानिवद्भावादत्र ह्रस्वत्वं न भविष्यति । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः ॥ क्व च(1) स्थानिवद्भावो नास्ति ? ॥ यो हलचोरादेशः - अत्यरराजत् ॥ किं पुनः कारणं हलचोरादेशो न स्थानिवदिति ? ॥ उच्यते । अजादेशः स्थानिवदित्युच्यते, न चाऽयमच एवादेशः ॥ किं तर्हि ? ॥ अचश्चाऽन्यस्य च ॥ अग्लोपिनां ने-त्यपि तर्हि प्रतिषेधो न प्राप्नोति ॥ किं कारणम् ? ॥ अग्लोपिनां नेत्युच्यते न चाऽत्राऽगेव लुप्यते ॥ किं तर्हि ? ॥ अक्काऽन्यश्च ॥ योऽत्राऽग्लुप्यते, तदाश्रयः प्रतिषेधो भविष्यति ॥ यथैव(2) तर्हि योऽत्राऽग्लुप्यते तदाश्रयः प्रतिषेधो भवत्येवं योऽत्राऽज्लुप्यते तदाश्रयः स्थानिवद्भावो भविष्यति ॥ एवं तर्हि सिद्धे सति यदग्लोपिना नेति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - इत उत्तरं स्थानिवद्भावो न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ पूर्वत्रासिद्धे न स्थानिवदित्युक्तन्तन्न वक्तव्यं भवति ॥ यद्येतज्ज्ञाप्यते आदीधयतेः - आदीधकः । आवेवयतेः आवेवकः - यीवर्णयोर्दीधीवेव्योरिति लोपो न प्राप्नोति । इह च यत्प्रलुनीह्यत्रेति(1) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोति ॥ नैषः दोषः । यत्तावदुच्यते - आदीधयतेः आदीधकः । आवेवयतेः - आवेवकः । यीवर्णयोरिति लोपो न प्राप्नोतीति ॥ यीवर्णयोरित्यत्रवर्णग्रहणसार्मथ्याद्भविष्यति । यदप्युच्यते - यत्प्रलुनीह्यत्र(2) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोतीति ॥ बहिरङ्गो यणादेशोऽन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे । ( नाग्लोपिशास्वृदिताम् । )

Kashika

अग्लोपिनामङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति। अग्लोपिनां तावत् मालामाख्यतममालत्। मातरमाख्यतममातरत्। राजानमतिक्रान्तवानत्यरराजत्। लोमान्यनुमृष्टवानन्वलुलोमत्। अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यतीति तदर्थम् एतद् वचनम्। शासेः अशशासत्। ऋदिताम् बाधृ अबवाधत्। याचृ अययाचत्। ढौकृ अडुढौकत्।

Siddhanta Kaumudi

णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ।{$ {!1784 रुट!} {!1785 लजि!} {!1786 अजि!} {!1787 दसि!} {!1788 भृशि!} {!1789 रुशि!} {!1790 शीक!} {!1791 रुसि!} {!1792 नट!} {!1793 पुटि!} {!1794 जि!} {!1795 चि!} {!1796 रघि!} {!1797 लघि!} {!1798 अहि!} {!1799 रहि!} {!1800 महि!} भाषार्थाः$} ।{$ {!1801 लडि!} {!1802 तड!} {!1803 नल!} भाषार्थाः$} ।{$ {!1804 पूरी!} आप्ययने$} । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ।{$ {!1805 रुज!} हिंसायाम्$} ।{$ {!1806 ष्वद!} आस्वादने$} । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥ (गणसूत्रम् -) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ।{$ {!1807 युज!} {!1808 पृच!} संयमने$} । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ।{$ {!1809 अर्च!} पूजायाम्$} ।{$ {!1810 षह!} मर्षणे$} । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् ।{$ {!1811 ईर!} क्षेपे$} ।{$ {!1812 ली!} द्रवीकरणे$} । लाययति । लयति । लेता ।{$ {!1813 वृजी!} वर्जने$} । वर्जयति । वर्जति ।{$ {!1814 वृञ्!} आवरणे$} । वारयति । वरति । वरते । वरिता । वरीता ।{$ {!1815 जॄ!} वयोहानौ$} । जारयति । जरति । जरिता । जरीता ।{$ {!1816 ज्रि!} च $}। ज्राययति । ज्रयति । ज्रेता ।{$ {!1817 रिच!} वियोजनंपर्चनयोः$} । रेचयति । रेचति । रेक्ता ।{$ {!1818 शिष!} असर्वोपयोगे$} । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ।{$ {!1819 तप!} दाहे$} । तापयति । तपति । तप्ता ।{$ {!1820 तृप!} तृप्तौ$} । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता ।{$ {!1821 छृदी!} सन्दीपने$} ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि - (SK250) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति ।{$ {!1822 दृभी!} भये$} । दर्भयति । दर्भति । दर्भिता ।{$ {!1823 दृभ!} संदर्भे$} ॥ अयं तुदादावीदित् ।{$ {!1824 श्रथ!} मोक्षणे$} । हिंसायां इत्येके ।{$ {!1825 मी!} गतौ$} । माययति-मयति । मेता ।{$ {!1826 ग्रन्थ!} बन्धने$} । ग्रन्थयति-ग्रन्थति ।{$ {!1827 शीक!} आमर्षणे$} ।{$ {!1828 चीक!} च$} ।{$ {!1829 अर्द!} हिंसायाम्$} । स्वरितेत् । अर्दयति । अर्दति । अर्दते ।{$ {!1830 हिसि!} हिंसायाम्$} । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् ।{$ {!1831 अर्ह!} पूजायाम्$} ।{$ {!1832 आङः!} षद पद्यर्थे$} । आसादयति । आसीदति । पाघ्रा - (SK2360) इति सीदादेशः । आसत्ता । आसात्सीत् ।{$ {!1833 शुन्ध!} शौचकर्मणि$} । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ।{$ {!1834 छद!} अपवारणे$} । स्वरितेत् ।{$ {!1835 जुष!} परितर्कणे$} । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ।{$ {!1836 धूञ्!} कम्पने$} । णावित्यधिकृत्य ।<!धूञ्प्रीञोर्नुग्वक्तव्यः !> (वार्तिकम्) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ।{$ {!1837 प्रीञ्!} तर्पणे$} ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ।{$ {!1838 श्रन्थ!} {!1839 ग्रन्थ!} सन्दर्भे$} ।{$ {!1840 आप्लृ!} लम्भने$} । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते ।{$ {!1841 तनु!} श्रद्धोपकरणयोः$} ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति ।{$ {!1842 वद!} संदेशवचने$} ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ।{$ {!1843 वच!} परिभाषणे$} । वाचयति । वचति । वक्ता । अवाक्षीत् ।{$ {!1844 मान!} पूजायाम्$} । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च ।{$ {!1845 भू!} प्राप्तावात्मनेपदी $}। भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ।{$ {!1846 गर्ह!} विनिन्दने$} ।{$ {!1847 मार्ग!} अन्वेषणे$} ।{$ {!1848 कठि!} शोके$} । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ।{$ {!1849 मृजू!} शौचालंकारयोः$} । मार्जयति । मार्जति । मार्जिता । मार्ष्टा ।{$ {!1850 मृष!} तितिक्षायाम्$} । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति ।{$ {!1851 धृष!} प्रहसने$} । धर्षयति । धर्षति । इत्याधृषीयाः ॥ अथादन्ताः ॥{$ {!1852 कथ!} वाक्यप्रबन्धे$} । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ।{$ {!1853 वर!} ईप्सायाम्$} । वरयति । वारयतीति गतम् ।{$ {!1854 गण!} संख्याने$} । गणयति ॥

Balamanorama

नाग्लोपिशास्वृदिताम् - नाग्लोपि । ‘णौ चङ्युपदायाः’ इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं । तदाह — णिच्यग्लोपन इत्यादि । अलुलोकदिति । ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्रस्वाऽभावे सति लघुपरकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः । उदितत्वादिति । ‘वृतु वृधु’ इत्युदितत्वम्उदितो वे॑त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषेधायेति । अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः । तदाह - असिष्वददिति । आदेशसकारत्वात्षः । अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः ।दीर्घस्य त्विति.दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति । ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः । इत्यास्वदीयाः । आ धृषाद्वेति । गणसूत्रम् । विभाषितणिचेति । विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः । आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति । णिजभावपक्षे आह — अयौक्षीदिति । अर्च पूजायामिति । अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः । न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः । ली द्रवीकरणे । लाययतीति । लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः । लेतेति ।विभाषा लीयते॑रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे । वरिता - वरीतेति ।वृतो वे॑ति दीर्घः । आशीर्लिङि - व्रियात् । आत्मनेपदे तुलिङिसचो॑रितिवेट् । वृषीष्ट — वरिषीष्ट । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः ।न लिङी॑ति इटो न दीर्घः । अवृत । ज्रि चेति । ह्रस्वान्तोऽयम् । रिच वियोजनेइति । अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह — रेक्तेति । शिष असर्वेति । अयमप्यनिट् । तदाह — शेष्टेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । अयं विपूर्वोऽतिशये इति । ‘वर्तते’ इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं सेट् । तदाह — तर्पितेति । छृदी संदीपने इति । ईदित्त्वं निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति । शविकरणस्य रूपम् । शस्य ङित्त्वाद्गुणाऽभावे उवङ् । प्रीञ् तर्पणे । प्रीणयतीति ।धूञ्प्रीञो॑रिति वार्तिकान्नुगिति भावः । हरदत्तेति । अनेन भाष्याऽसंमतत्वं सूचितम् । उपसर्गाच्चेति । दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः । श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः । वच परिभाषणे । अवाक्षीदिति ।अस्यातिवक्ती॑ति लुका निर्देशादङ्नेति भावः ।वचिस्वपी॑ति संप्रसारणम्- उच्यात् । इत्याधृषीयाः । अथाऽदन्ता इति । ‘वक्ष्यन्ते’ इति शेषः । अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः । तत्र कथदातोर्णिचि अतोलोपे ‘कथि’ इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति ।अचः परस्मि॑न्नित्यनेनेति भावः । अत्रेदमवधेयं — स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः । अन्यथा ‘नायक’ इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् ।अचः परस्मि॑न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इतीति सिद्धम् । लुङि चङि ‘अचकथ’ दित्यत्र सन्वत्त्वमाशङ्क्याह — अग्लोपित्वादिति । सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावेअजगण॑दित्येव प्राप्ते आह —

Tattvabodhini

नाग्लोपिशास्वृदिताम् - स्वाद इत्येके इति । अस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठम् । ननु दीर्घपाठो व्यर्थः, ह्रस्वपाठेऽप्युपधावृद्ध्या स्वादयतीति रूपाणां तुल्यत्वादत आह - दीर्घस्य त्विति ।सः स्विदिस्वदिसहीनां चे॑ति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह - असिस्वददिति । इत्यास्वदीयाः । आधृषाद्वा । व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते । अयौक्षीदिति । णिजभावपक्षे अनिट्कोऽयमिति भावः । ली द्रवीकरणे ।लिनातिलीयत्योर्यका निर्देश॑ इति भाष्यकारोक्त्याविभाषा लीयते॑रित्यात्वमिह न प्रवर्तत इति ध्वनयति — लेतेति । वरीतेति ।वृतो वे॑ति वा दीर्घः । लिङि — वूर्यात् । आत्मनेपदे तु वृषीष्ट । वरिषीष्ट ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् ।न लिङी॑ति इटो दीर्घनिषेधः । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः । लुङि अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति दीर्घनिषेधः । आत्मनेपदे तु अवरिष्ठ । अवरीष्ट । इडभावे सिचो लोपः । अवृत । रिच ।णिजभावे अयमनिडित्याह — रेक्तेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । तृप । अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति — तर्पितेति । छृदी । ईदित्वान्निष्ठायां नेट् । ऋवर्णान्नस्य णत्वम् । छृण्णः । छृण्णवान् । *धूञ्प्रीञोर्नुग्वक्तव्यः । ह्रस्वश्चेति । धुञ् कम्पने इत्यर्थः । अवाक्षीदिति ।अस्यतिवक्ती॑ति लुका निर्देशादङ् नेति भावः ।वचिस्वपी॑ति संप्रसारणम् । उच्यात् । धृष प्रसहने । केचित्त्वादितमाहुस्तन्मते धृष्टो, मुख्यमते तु धृषितः । नन्वत्रनिष्ठा शीङि॑त्यादिना सेण्निष्ठायाः कित्त्वनिषेधाद्गुणेन भाव्यमिति चेत् । अत्राहुः — आदित्साहचर्यादादित एव । ञिधृषेत्यस्य तत्र ग्रहणात् ।न च आदितो निष्टाया इड् दुर्लभ इति शङ्क्यं,विभाषा भावादिकर्मणो॑रिति तत्संभवादिति । इत्याधृषीया युजादयः । अथाऽदन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थ इत्यर्तः । स्थानिवत्त्वान्न वृद्धिरिति ।अचः परस्मिन् इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानवदित्यनेनातिदिश्यते नत्वादेशप्रयुक्तं वार्यते, अन्यथा नायक पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्,अचः परस्मिन् इत्यत्र स्थानिवदित्यनुवर्त्त्य शब्दाधिकारपक्षाश्रयेण भावाऽभावावुभावप्यतिदिश्यते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् ।स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती॑त्यत्र तुन पदान्ते॑ति सूत्रस्थलोपादिग्रहणमेव लिङ्गिमिति दिक् ।

Padamanjari

यत्र णौ परतोऽग्लोपस्तदिहाग्लोपि गृह्यते । दीव्यतिप्रभृतेर्नायं निषेधः शास्वृदिद्ग्रहात् ॥ शक्यः शासिग्रहोऽकर्तुमृदिदेष पठिष्यते । ऋशासू अनुशिष्टावित्येवमेके प्रचक्षते ॥ वदन्त्यन्ये तु सूत्रेऽस्मिन् शासिं निरनुबन्धकम् । पठन्तः प्रतिषेधोऽस्य यङ्लुक्यपि भवेदिति ॥ तत्र स्थानिवद्भावादपि सिद्धमिति । स्थानिवद्भावे हि सति ह्रस्वभाविन्युपधा न सम्भवति । हलचोरादेशे तु न सिद्ध्यतीति । यथा’सुधातुरकङ् च’ इति समुदायस्यादेशत्वेऽवयवस्यानादेशत्वादणो रपरत्वं न भवति - सौधातकिरिति, तथा समुदाये स्थानिन्यवयवस्यास्थानित्वादजादेशत्वाभावान्नास्ति स्थानिवद्भावः । इह त्वग्लोपिग्रहणसामर्थ्यात् समुदायलोपोऽप्यग्लोप आश्रीयते ॥

Nyaas

अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स एषामस्तीति तान्यग्लोपीन्यङ्गानि। शासु अनुशिष्टौ (धातुपाठः-1075) ऋदिद्येषां तानि ऋदिन्ति बाधृ विलोडने (धातुपाठः-5) इत्येवमादीनि। अममालत्, अममातरत् इति। तत्करोति तदाचष्टे (ग।सू।187) इति णिच्, णाविष्ठवत्कार्यं प्रातिपदिकस्य (वा।813) इतीष्ठवद्भावः, तुरिष्ठेमेयःसु (6.4.154) इति टिलोपः, ततो लुङादिः। अतयरराजत् इत्यादौ, प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च (ग।सू।186) इति णिच्। अन्वलुलोमत् इति। सत्यापपाशरूप (3.1.25) इत्यादिना णिच्।अगेव केवलो यत्र इत्यादि। इह द्विविधमगलोपयङ्गम् - क्वचिदगेव केवलो लुप्यते, अममालदित्यादौक्वचिद्धलचौ, अत्यरराजदित्यादौ। अगेव केवलो यत्र लुप्यते तत्राग्लोपस्य स्थानिवद्भावात्? सिद्धम्। स्थानिवद्भावे सत्यग्लोपस्य व्यवधानादेव ह्यसवप्राप्तिः, तस्मान्न तदर्थमग्लोपीति वचनम्। इतरत्र तु हलचोरुभयोरप्यादेश इति सिध्यति, अस्थानिवद्भावात्। अजादेशसय हि परनिमित्तकस्य स्थानिवद्भाव उक्तः, न तु हलचोरादेशस्य। तस्माद्यत्र हलचोरादेशास्तदर्थमिदं वचनम्। अन्यार्थमेतत्? क्रियमाणं यत्रागेव केवलो लुप्यते तदर्थमपि भविष्यतीति तदर्थमस्योदाहरणमुपन्यस्तम्। अडुढौकत् इत। ककि वकि आकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ रघि लघि गत्यर्थाः (धातुपाठः-94,95,96,97,98,99,100,101,102,103,104,105,106,107,108)। अभ्यासे चर्च (8.4.54) इति जश्त्वम् - डकारः॥

Prakriyasarvasvam

अग्लोपिनः शास ऋदितश्च णौ चङ्युपधाया ह्रस्वो न स्यात् । अग्लोपिनो वक्ष्यन्ते । धातोरलघुत्वान्न सन्वद्वत्त्वम् । अशशासत् ।<!आशासेरिच्छार्थस्य वेप्यते!> (वा०) । आशशासत्, आशीशसत् । ऋदितः-बाधृ अबबाधत् ।

Sutra Prayogas

  • अतताडच्च (भट्टिकाव्यम्): नाग्लोपिशास्वृदिताम् इति ह्रस्वप्रतिषेधः।