74002: नाग्लोपिशास्वृदिताम् =========================== **Padacheda:** न | S | 0 | 0 | अग्लोपिशास्वृदिताम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The shortening of the penultimate of the stem, before the causative affix in the reduplicated Aorist, does not take place, when it is a (Denominative) अङ्ग (stem), which has lost a simple (end vowel of the Nominal stem) before the Causative sign and also not, when it is the verb शास् , or a root which has an indicatory ऋ। Vasu English Translation ------------------------ The shortening of the penultimate of the stem, before the causative affix in the reduplicated Aorist, does not take place, when it is a (Denominative) अङ्ग (stem), which has lost a simple (end vowel of the Nominal stem) before the Causative sign and also not, when it is the verb शास् , or a root which has an indicatory ऋ। The word अग्लोपिन् means literally a stem, in which a simple vowel (अक् *pratyahara*) or a portion containing an अक् vowel has been dropped. As the final vowels of Denominative stems are so elided before the Causative sign णि, the *sutra* has been translated accordingly. Thus अममालत् = मालामाख्यत्; अममातरत् = मातरमाख्यत्, अत्यरराजत् = राजानमतिक्रान्तवान्, अन्वलुलामत् = लोमान्यनुमृष्टवान् ॥ Where a simple अक् vowel alone is elided, as in the case of माला, there the elided आ being *sthanivat*, would prevent the shortening, the आ of मा not being then considered penultimate. So that अग्लोपिन् could be spared from the *sutra*, since the *sthanivad*-*bhava* would prevent shortening. But where an अक् vowel plus a consonant is dropped, as in राजन् and लोमन्, there the *sthanivad*-*bhava* does not apply (1.1.57), hence the necessity of employing the term अग्लोपिन् in the *sutra*. Similarly अशशासत् with शास्; and अबबाधत् from बाधृ, अययाचत् from याचृ, and अडुढौकत् from ढौकृ ॥ See (3.1.21) and (2.1.2). Bhashya ------- नाग्लोपिशास्वृदिताम् ॥ अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवद्भावात् ॥ अग्लोपिप्रतिषेधश्चाऽनर्थकः ॥ किं कारणम् ? ॥ स्थानिवद्भावात् । स्थानिवद्भावादत्र ह्रस्वत्वं न भविष्यति । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः ॥ क्व च(1) स्थानिवद्भावो नास्ति ? ॥ यो हलचोरादेशः - अत्यरराजत् ॥ किं पुनः कारणं हलचोरादेशो न स्थानिवदिति ? ॥ उच्यते । अजादेशः स्थानिवदित्युच्यते, न चाऽयमच एवादेशः ॥ किं तर्हि ? ॥ अचश्चाऽन्यस्य च ॥ अग्लोपिनां ने-त्यपि तर्हि प्रतिषेधो न प्राप्नोति ॥ किं कारणम् ? ॥ अग्लोपिनां नेत्युच्यते न चाऽत्राऽगेव लुप्यते ॥ किं तर्हि ? ॥ अक्काऽन्यश्च ॥ योऽत्राऽग्लुप्यते, तदाश्रयः प्रतिषेधो भविष्यति ॥ यथैव(2) तर्हि योऽत्राऽग्लुप्यते तदाश्रयः प्रतिषेधो भवत्येवं योऽत्राऽज्लुप्यते तदाश्रयः स्थानिवद्भावो भविष्यति ॥ एवं तर्हि सिद्धे सति यदग्लोपिना नेति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - इत उत्तरं स्थानिवद्भावो न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ पूर्वत्रासिद्धे न स्थानिवदित्युक्तन्तन्न वक्तव्यं भवति ॥ यद्येतज्ज्ञाप्यते आदीधयतेः - आदीधकः । आवेवयतेः आवेवकः - यीवर्णयोर्दीधीवेव्योरिति लोपो न प्राप्नोति । इह च यत्प्रलुनीह्यत्रेति(1) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोति ॥ नैषः दोषः । यत्तावदुच्यते - आदीधयतेः आदीधकः । आवेवयतेः - आवेवकः । यीवर्णयोरिति लोपो न प्राप्नोतीति ॥ यीवर्णयोरित्यत्रवर्णग्रहणसार्मथ्याद्भविष्यति । यदप्युच्यते - यत्प्रलुनीह्यत्र(2) तिङि चोदात्तवतीत्येष स्वरो न प्राप्नोतीति ॥ बहिरङ्गो यणादेशोऽन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे । ( नाग्लोपिशास्वृदिताम् । ) Kashika ------- अग्लोपिनामङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति। अग्लोपिनां तावत् मालामाख्यतममालत्। मातरमाख्यतममातरत्। राजानमतिक्रान्तवानत्यरराजत्। लोमान्यनुमृष्टवानन्वलुलोमत्। अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यतीति तदर्थम् एतद् वचनम्। शासेः अशशासत्। ऋदिताम् बाधृ अबवाधत्। याचृ अययाचत्। ढौकृ अडुढौकत्। Siddhanta Kaumudi ----------------- णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ।{$ {!1784 रुट!} {!1785 लजि!} {!1786 अजि!} {!1787 दसि!} {!1788 भृशि!} {!1789 रुशि!} {!1790 शीक!} {!1791 रुसि!} {!1792 नट!} {!1793 पुटि!} {!1794 जि!} {!1795 चि!} {!1796 रघि!} {!1797 लघि!} {!1798 अहि!} {!1799 रहि!} {!1800 महि!} भाषार्थाः$} ।{$ {!1801 लडि!} {!1802 तड!} {!1803 नल!} भाषार्थाः$} ।{$ {!1804 पूरी!} आप्ययने$} । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ।{$ {!1805 रुज!} हिंसायाम्$} ।{$ {!1806 ष्वद!} आस्वादने$} । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥ (गणसूत्रम् -) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ।{$ {!1807 युज!} {!1808 पृच!} संयमने$} । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ।{$ {!1809 अर्च!} पूजायाम्$} ।{$ {!1810 षह!} मर्षणे$} । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् ।{$ {!1811 ईर!} क्षेपे$} ।{$ {!1812 ली!} द्रवीकरणे$} । लाययति । लयति । लेता ।{$ {!1813 वृजी!} वर्जने$} । वर्जयति । वर्जति ।{$ {!1814 वृञ्!} आवरणे$} । वारयति । वरति । वरते । वरिता । वरीता ।{$ {!1815 जॄ!} वयोहानौ$} । जारयति । जरति । जरिता । जरीता ।{$ {!1816 ज्रि!} च $}। ज्राययति । ज्रयति । ज्रेता ।{$ {!1817 रिच!} वियोजनंपर्चनयोः$} । रेचयति । रेचति । रेक्ता ।{$ {!1818 शिष!} असर्वोपयोगे$} । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ।{$ {!1819 तप!} दाहे$} । तापयति । तपति । तप्ता ।{$ {!1820 तृप!} तृप्तौ$} । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता ।{$ {!1821 छृदी!} सन्दीपने$} ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि - (SK250) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति ।{$ {!1822 दृभी!} भये$} । दर्भयति । दर्भति । दर्भिता ।{$ {!1823 दृभ!} संदर्भे$} ॥ अयं तुदादावीदित् ।{$ {!1824 श्रथ!} मोक्षणे$} । हिंसायां इत्येके ।{$ {!1825 मी!} गतौ$} । माययति-मयति । मेता ।{$ {!1826 ग्रन्थ!} बन्धने$} । ग्रन्थयति-ग्रन्थति ।{$ {!1827 शीक!} आमर्षणे$} ।{$ {!1828 चीक!} च$} ।{$ {!1829 अर्द!} हिंसायाम्$} । स्वरितेत् । अर्दयति । अर्दति । अर्दते ।{$ {!1830 हिसि!} हिंसायाम्$} । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् ।{$ {!1831 अर्ह!} पूजायाम्$} ।{$ {!1832 आङः!} षद पद्यर्थे$} । आसादयति । आसीदति । पाघ्रा - (SK2360) इति सीदादेशः । आसत्ता । आसात्सीत् ।{$ {!1833 शुन्ध!} शौचकर्मणि$} । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ।{$ {!1834 छद!} अपवारणे$} । स्वरितेत् ।{$ {!1835 जुष!} परितर्कणे$} । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ।{$ {!1836 धूञ्!} कम्पने$} । णावित्यधिकृत्य । (वार्तिकम्) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ।{$ {!1837 प्रीञ्!} तर्पणे$} ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ।{$ {!1838 श्रन्थ!} {!1839 ग्रन्थ!} सन्दर्भे$} ।{$ {!1840 आप्लृ!} लम्भने$} । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते ।{$ {!1841 तनु!} श्रद्धोपकरणयोः$} ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति ।{$ {!1842 वद!} संदेशवचने$} ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ।{$ {!1843 वच!} परिभाषणे$} । वाचयति । वचति । वक्ता । अवाक्षीत् ।{$ {!1844 मान!} पूजायाम्$} । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च ।{$ {!1845 भू!} प्राप्तावात्मनेपदी $}। भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ।{$ {!1846 गर्ह!} विनिन्दने$} ।{$ {!1847 मार्ग!} अन्वेषणे$} ।{$ {!1848 कठि!} शोके$} । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ।{$ {!1849 मृजू!} शौचालंकारयोः$} । मार्जयति । मार्जति । मार्जिता । मार्ष्टा ।{$ {!1850 मृष!} तितिक्षायाम्$} । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति ।{$ {!1851 धृष!} प्रहसने$} । धर्षयति । धर्षति । इत्याधृषीयाः ॥ अथादन्ताः ॥{$ {!1852 कथ!} वाक्यप्रबन्धे$} । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ।{$ {!1853 वर!} ईप्सायाम्$} । वरयति । वारयतीति गतम् ।{$ {!1854 गण!} संख्याने$} । गणयति ॥ Balamanorama ------------ **नाग्लोपिशास्वृदिताम्** - नाग्लोपि । 'णौ चङ्युपदायाः' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं । तदाह — णिच्यग्लोपन इत्यादि । अलुलोकदिति । ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्रस्वाऽभावे सति लघुपरकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः । उदितत्वादिति । 'वृतु वृधु' इत्युदितत्वम्उदितो वे॑त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषेधायेति । अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः । तदाह - असिष्वददिति । आदेशसकारत्वात्षः । अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः ।दीर्घस्य त्विति.दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति । ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः । इत्यास्वदीयाः । आ धृषाद्वेति । गणसूत्रम् । विभाषितणिचेति । विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः । आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति । णिजभावपक्षे आह — अयौक्षीदिति । अर्च पूजायामिति । अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः । न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः । ली द्रवीकरणे । लाययतीति । लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः । लेतेति ।विभाषा लीयते॑रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे । वरिता - वरीतेति ।वृतो वे॑ति दीर्घः । आशीर्लिङि - व्रियात् । आत्मनेपदे तुलिङिसचो॑रितिवेट् । वृषीष्ट — वरिषीष्ट । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः ।न लिङी॑ति इटो न दीर्घः । अवृत । ज्रि चेति । ह्रस्वान्तोऽयम् । रिच वियोजनेइति । अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह — रेक्तेति । शिष असर्वेति । अयमप्यनिट् । तदाह — शेष्टेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । अयं विपूर्वोऽतिशये इति । 'वर्तते' इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं सेट् । तदाह — तर्पितेति । छृदी संदीपने इति । ईदित्त्वं निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति । शविकरणस्य रूपम् । शस्य ङित्त्वाद्गुणाऽभावे उवङ् । प्रीञ् तर्पणे । प्रीणयतीति ।धूञ्प्रीञो॑रिति वार्तिकान्नुगिति भावः । हरदत्तेति । अनेन भाष्याऽसंमतत्वं सूचितम् । उपसर्गाच्चेति । दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः । श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः । वच परिभाषणे । अवाक्षीदिति ।अस्यातिवक्ती॑ति लुका निर्देशादङ्नेति भावः ।वचिस्वपी॑ति संप्रसारणम्- उच्यात् । इत्याधृषीयाः । अथाऽदन्ता इति । 'वक्ष्यन्ते' इति शेषः । अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः । तत्र कथदातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति ।अचः परस्मि॑न्नित्यनेनेति भावः । अत्रेदमवधेयं — स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः । अन्यथा 'नायक' इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् ।अचः परस्मि॑न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इतीति सिद्धम् । लुङि चङि 'अचकथ' दित्यत्र सन्वत्त्वमाशङ्क्याह — अग्लोपित्वादिति । सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावेअजगण॑दित्येव प्राप्ते आह — Tattvabodhini ------------- **नाग्लोपिशास्वृदिताम्** - स्वाद इत्येके इति । अस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठम् । ननु दीर्घपाठो व्यर्थः, ह्रस्वपाठेऽप्युपधावृद्ध्या स्वादयतीति रूपाणां तुल्यत्वादत आह - दीर्घस्य त्विति ।सः स्विदिस्वदिसहीनां चे॑ति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह - असिस्वददिति । इत्यास्वदीयाः । आधृषाद्वा । व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते । अयौक्षीदिति । णिजभावपक्षे अनिट्कोऽयमिति भावः । ली द्रवीकरणे ।लिनातिलीयत्योर्यका निर्देश॑ इति भाष्यकारोक्त्याविभाषा लीयते॑रित्यात्वमिह न प्रवर्तत इति ध्वनयति — लेतेति । वरीतेति ।वृतो वे॑ति वा दीर्घः । लिङि — वूर्यात् । आत्मनेपदे तु वृषीष्ट । वरिषीष्ट ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् ।न लिङी॑ति इटो दीर्घनिषेधः । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः । लुङि अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति दीर्घनिषेधः । आत्मनेपदे तु अवरिष्ठ । अवरीष्ट । इडभावे सिचो लोपः । अवृत । रिच ।णिजभावे अयमनिडित्याह — रेक्तेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । तृप । अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति — तर्पितेति । छृदी । ईदित्वान्निष्ठायां नेट् । ऋवर्णान्नस्य णत्वम् । छृण्णः । छृण्णवान् । *धूञ्प्रीञोर्नुग्वक्तव्यः । ह्रस्वश्चेति । धुञ् कम्पने इत्यर्थः । अवाक्षीदिति ।अस्यतिवक्ती॑ति लुका निर्देशादङ् नेति भावः ।वचिस्वपी॑ति संप्रसारणम् । उच्यात् । धृष प्रसहने । केचित्त्वादितमाहुस्तन्मते धृष्टो, मुख्यमते तु धृषितः । नन्वत्रनिष्ठा शीङि॑त्यादिना सेण्निष्ठायाः कित्त्वनिषेधाद्गुणेन भाव्यमिति चेत् । अत्राहुः — आदित्साहचर्यादादित एव । ञिधृषेत्यस्य तत्र ग्रहणात् ।न च आदितो निष्टाया इड् दुर्लभ इति शङ्क्यं,विभाषा भावादिकर्मणो॑रिति तत्संभवादिति । इत्याधृषीया युजादयः । अथाऽदन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थ इत्यर्तः । स्थानिवत्त्वान्न वृद्धिरिति ।अचः परस्मिन् इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानवदित्यनेनातिदिश्यते नत्वादेशप्रयुक्तं वार्यते, अन्यथा नायक पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्,अचः परस्मिन् इत्यत्र स्थानिवदित्यनुवर्त्त्य शब्दाधिकारपक्षाश्रयेण भावाऽभावावुभावप्यतिदिश्यते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् ।स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती॑त्यत्र तुन पदान्ते॑ति सूत्रस्थलोपादिग्रहणमेव लिङ्गिमिति दिक् । Padamanjari ----------- यत्र णौ परतोऽग्लोपस्तदिहाग्लोपि गृह्यते । दीव्यतिप्रभृतेर्नायं निषेधः शास्वृदिद्ग्रहात् ॥ शक्यः शासिग्रहोऽकर्तुमृदिदेष पठिष्यते । ऋशासू अनुशिष्टावित्येवमेके प्रचक्षते ॥ वदन्त्यन्ये तु सूत्रेऽस्मिन् शासिं निरनुबन्धकम् । पठन्तः प्रतिषेधोऽस्य यङ्लुक्यपि भवेदिति ॥ तत्र स्थानिवद्भावादपि सिद्धमिति । स्थानिवद्भावे हि सति ह्रस्वभाविन्युपधा न सम्भवति । हलचोरादेशे तु न सिद्ध्यतीति । यथा'सुधातुरकङ् च' इति समुदायस्यादेशत्वेऽवयवस्यानादेशत्वादणो रपरत्वं न भवति - सौधातकिरिति, तथा समुदाये स्थानिन्यवयवस्यास्थानित्वादजादेशत्वाभावान्नास्ति स्थानिवद्भावः । इह त्वग्लोपिग्रहणसामर्थ्यात् समुदायलोपोऽप्यग्लोप आश्रीयते ॥ Nyaas ----- अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स एषामस्तीति तान्यग्लोपीन्यङ्गानि। `शासु अनुशिष्टौ` (धातुपाठः-1075) ऋदिद्येषां तानि ऋदिन्ति `बाधृ विलोडने` (धातुपाठः-5) इत्येवमादीनि। `अममालत्, अममातरत्` इति। `तत्करोति तदाचष्टे` (ग।सू।187) इति णिच्, `णाविष्ठवत्कार्यं प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावः, `तुरिष्ठेमेयःसु` (6.4.154) इति टिलोपः, ततो लुङादिः। `अतयरराजत्` इत्यादौ, `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च` (ग।सू।186) इति णिच्। `अन्वलुलोमत्` इति। `सत्यापपाशरूप` (3.1.25) इत्यादिना णिच्।`अगेव केवलो यत्र` इत्यादि। इह द्विविधमगलोपयङ्गम् - क्वचिदगेव केवलो लुप्यते, अममालदित्यादौक्वचिद्धलचौ, अत्यरराजदित्यादौ। अगेव केवलो यत्र लुप्यते तत्राग्लोपस्य स्थानिवद्भावात्? सिद्धम्। स्थानिवद्भावे सत्यग्लोपस्य व्यवधानादेव ह्यसवप्राप्तिः, तस्मान्न तदर्थमग्लोपीति वचनम्। इतरत्र तु हलचोरुभयोरप्यादेश इति सिध्यति, अस्थानिवद्भावात्। अजादेशसय हि परनिमित्तकस्य स्थानिवद्भाव उक्तः, न तु हलचोरादेशस्य। तस्माद्यत्र हलचोरादेशास्तदर्थमिदं वचनम्। अन्यार्थमेतत्? क्रियमाणं यत्रागेव केवलो लुप्यते तदर्थमपि भविष्यतीति तदर्थमस्योदाहरणमुपन्यस्तम्। `अडुढौकत्` इत। `ककि वकि आकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ रघि लघि गत्यर्थाः` (धातुपाठः-94,95,96,97,98,99,100,101,102,103,104,105,106,107,108)। **अभ्यासे चर्च** (8.4.54) इति जश्त्वम् - डकारः॥ Prakriyasarvasvam ----------------- अग्लोपिनः शास ऋदितश्च णौ चङ्युपधाया ह्रस्वो न स्यात् । अग्लोपिनो वक्ष्यन्ते । धातोरलघुत्वान्न सन्वद्वत्त्वम् । अशशासत् । (वा०) । आशशासत्, आशीशसत् । ऋदितः-बाधृ अबबाधत् । Sutra Prayogas -------------- * **अतताडच्च** (भट्टिकाव्यम्): `नाग्लोपिशास्वृदिताम्` इति ह्रस्वप्रतिषेधः।