74003: भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्¶
Padacheda: भ्राजभासभाषदीपजीवमीलपीडाम् | S | 6 | 3 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The shortening of the penultimate of the Causative अङ्ग (stem) in the reduplicated Aorist, is optional in the following - 1. भ्राज् 2. भास् 3. भाष् 4. दीप् 5. जीव् 6. मील् and 7. पीड् ।
Vasu English Translation¶
The shortening of the penultimate of the Causative अङ्ग (stem) in the reduplicated Aorist, is optional in the following - 1. भ्राज् 2. भास् 3. भाष् 4. दीप् 5. जीव् 6. मील् and 7. पीड् । As अबिभ्रजत् or अबभ्राजत्, अबीभसत् or अबभासत्, अबीभषत् or अबभाषत्, अदीदिपत् or अदिदीपत्, अजीजिवत् or अजिजीवत्, अमीमिलत् or अमिमीलत्, अपीपिडत् or अपिपीडत् ॥ The Dhatupatha reads भ्राजृ (Bhuadi 194)and भासृ (Bhuadi 655). The indicatory ऋ is unnecessary and not countenanced by Panini, as shown in this sutra. Had they been ऋदित्, they would have been governed by the last aphorism.
Vart:- The words काणि, वाणि, राणि, हेठि, लोपि should be enumerated: as अचकाणत् or अचीकणत्, अरराणत् or अरीरणत्, अशश्राणत् or अशिश्रणत्, अवभाणत् or अवीभणत्, अजीहिठित्, अजिहेठत्, अलुलोपत् or अलूलुपत् ॥
Bhashya¶
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ काण्यादीनां(1) वा ॥ काण्यादीनां(2) वेति वक्तव्यम् ॥ के पुनः काण्यादयः ? ॥ काणिराणिश्राणिभाणिहेठिलोपयः । अचकाणत् अचीकणत् । अरराणत् अरीरणत् । अशश्राणत् । अशिश्रणत् । अबभाणत् अबीभणत् । अजिहेठत् अजीहिठत् । अलुलोपत् अलूलुपत् ॥ ( भ्राजभासभाष ) ॥
Kashika¶
भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङि उपधाया ह्रस्वो भवति अन्यतरस्याम्। भ्राज अबिभ्रजत्, अबभ्राजत्। भास अबीभसत्, अबभासत्। भाष अबीभषत्, अबभाषत्। दीप अदीदिपत्, अदिदीपत्। जीव अजीजिवत्, अजिजीवत्। मील अमीमिलत्, अमिमीलत्। पीड अपीपिडत्, अपिपीडत्। भ्राजभासोरृदित्करणमपाणिनीयम्। काण्यादीनां चेति वक्तव्यम्। कण अचीकणत्, अचकाणत्। वण अवीवणत्, अववाणत्।
Siddhanta Kaumudi¶
एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् ।{$ {!1545 नट!} अवस्कन्दने$} । अवस्कन्दनं नाट्यम् ।{$ {!1546 श्रथ!} प्रयत्ने$} । प्रस्थान इत्येके ।{$ {!1547 बध!} संयमने$} । बाधयति । बन्धेति चान्द्रः ।{$ {!1548 पॄ!} पूरणे$} । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ।{$ {!1549 ऊर्ज!} बलप्राणनयोः$} ।{$ {!1550 पक्ष!} परिग्रहे$} ।{$ {!1551 वर्ण!} {!1552 चूर्ण!} प्रेरणे$} । (गणसूत्रम् -) वर्ण वर्णन इत्येके ।{$ {!1553 प्रथ!} प्रख्याने$} । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥
Balamanorama¶
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् - भ्राजभास ।णौ चङ्युपधाया ह्रस्वः॑ इत्यनुवर्तते । तदाह - एषामिति । नित्ये उपधाह्रस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह — अपीपिडदिति । अत्र उत्तरखण्डे ह्रस्वः, पूर्वखण्डे तु दीर्घः । ह्रस्वाऽभावपक्षे तु लघुपरकत्वाऽभावात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घ इति मत्वाह — अपीपीडदिति । अत्र उत्तरखण्डे दीर्घः । पूर्वखण्डे ह्रस्वः । नट अवस्पन्दने । इति । अवस्पन्दनं नाटम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । अशिश्रथत् । सन्वत्त्वविधौ नेकहल्व्यवधनेऽपि लघुपरत्वं न विरुध्यते, अत्स्मृदृत्वरे॑ति ईत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादौ अनेकहल्व्यवधानाल्लघुपरत्वाऽभावादेव इत्त्वाऽप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वात् एवायं धातुर्निर्दिश्यतां, तावतैव पारयतीत्यादि सिद्धेः । न च णिजभावपक्षे परिता परिष्यतीत्यत्र इडर्थं दीर्गोच्चारणम्, ऋदन्तत्वे अनिट्कत्वप्रसिङ्गादिति वाच्यं, चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्त आह - दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति ।पृधातो॑रिति शेषः । णिचः पाक्षिकतवे तु परित#एत्यादौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह- तद्धि सेट्कत्वायेति । हि = यतः, तत् = दीर्घोच्चारणं परितेत्यादौ सेट्कत्वार्थम् ऋदन्तत्वे तु इण्न स्यात्,ऊदृदन्तै॑रित्यनिट्कारिकासु ॠदन्तस्य पर्युदासेन ऋदन्तस्याऽनिट्कत्वावगमादिति भावः । ननु पृधातोर्णिचः पाक्षिकत्वज्ञापनस्य किं फलम् । श्नाविकरमश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धेरित्यत आह — एवं चेति । उक्तरीत्या पृधातोर्णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । [पारयति] परतीति ।उदोष्ठपूर्वस्ये॑त्युत्वं तु न भवति, पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति ।सन्वल्लघूनी॑ति सूत्रं द्वेधा व्यख्यातं प्राक् । तत्र चङि ‘न न्द्राः’ इति निषेधात्, ‘जि’ इति णिजन्तस्य द्वित्वे उत्तरखण्डे चङ्परे णौ लघोरभावात्प्रथमव्याख्यानेऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घः, और्जिजत् । द्वितीयव्याख्याने तु चङ्परे णौ यदङ्गम् ऊर्ज इत्येतत्, तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वाभ्यासस्य दीर्घः, और्जीजत् । एवमेव एवंजातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घाटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह — नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घाटादिकस्य तु मित्त्वाद्धेतुमण्णिचिप्रथयती॑त्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यं, ‘नान्ये मितोऽहेतौ’ इति निषेधादित्यलम् ।
Tattvabodhini¶
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् - पृ पूरणे । दीर्घोच्चारणमित्यादि । पारयतीत्यादिरूपाणि ह्रस्वोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थं दीर्घोच्चारणमित्यर्थः । अत्र वदन्ति — धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः,न हिऋकारान्ताः सेट्का॑ इति तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत । कविकल्पद्रुमे त्वस्य नित्यण्यन्तत्वमुक्तमिति । एवं चाऽस्मिन्पक्षे दीर्घोच्चारमं व्यर्थमिति फलितम् । अन्ये तु दीर्घोच्चारमं परिता परीत्येत्यादौवृतो वे॑ति इटो दीर्घविकल्पार्थम् । ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः । ऊर्ज । ऊर्जयति । बलवान्भवति । जीवति वेत्यर्थः ।
Padamanjari¶
‘भ्राज दीप्तौ’ ,’भासृ दीप्तौ’ ,’भाष व्यक्तायां वाचि’ भौवादिकाः;’दीपि दीप्तौ’ , दैवादिकः, सर्वेऽनुदातेतः;’जीव प्राणधारणे’ भौवादिकः;’मील निमेषणे’ ,’पीड अवबाधने’ - चुरादी । भ्राजभासोरित्यादि । अवश्यमनयोरनुदातोऽनुबन्ध आसङ्क्तव्यः, ऋकारानुरोधस्त्वपाणिनीय इत्युच्यते । ऋकारानुबन्धे प्राप्ते विभाषा, वर्णान्तरे त्वप्राप्ते विभाषेति । ऋकारानुरोधे फलविशेषाभावादपाणिनीयत्वम् । काण्यादीनामिति । काणिवाणिराणिहेठिलोपिप्रभृतयः काण्यादयः । आदिशब्दः । प्रकारे ॥
Nyaas¶
भ्राजिरयं भ्वादावनुदात्तेत्? पठते, आत्मनेपदी ऋकारानुबन्धः फणादिषु टुभ्राजु टुभ्रासु दीप्तौ (धातुपाठः-823,824) इति पठते, फणादिभ्यः पुरस्ताच्च एजृभ्रेजृ भ्राजृ दीप्तौ (धातुपाठः-179,180,181) इति। तन्त्रान्तर्गचकार्यार्थः फणादिष्ववश्यमेवास्य पाठोऽङ्गीकर्तव्य इति तेनैव शबादेरपि गणकार्यस्य सिद्धत्वात्। अन्यत्रास्य पाठोऽनार्ष एव लक्ष्यते। भासृ दीप्तौ (धातुपाठः-624), भा, व्यक्तायां वाचि (धातुपाठः-612) दीपी दीप्तौ (धातुपाठः-150), जीव प्राणधारणे (धातुपाठः-562) मील श्मील स्मील क्ष्मील निमेषणे (धातुपाठः-517,518,519,520), पीड अवगाहने (धातुपाठः-1544) - एषां नित्ये ह्रस्वत्वे प्राप्ते विभाषेयमारभ्यते। अबिभ्रजत् इति। यधा ह्रस्वत्वम्, तदा पूर्ववत्सन्वद्बावेनेत्त्वम्। अबीभवत् इति। पूर्ववद्दीर्घः।अथ भ्राजभासयोॠदित्करणं किमर्थम्, यावता तयोर्हि ऋदित्करमस्यैतत्? प्रयोजनम् - ऋदित्त्वात्? पूर्वसूत्रेण ह्रस्वप्रतिषेधो यथा स्यादिति। यदि विभाषया च तयोह्र्यस्वत्वं विधीयते तदा ऋदित्करणमस्य वैयव्र्यमेव? इत्यत आह - भ्राजभासोः इत्यादि। अपाणिनीयम् इति। पाणिनेरिदं पाणिनीयम्, न पाणिनीयमपाणिनौयमिति; तेनानभ्युपगमात्; न तु तेनाकृतत्वात्। अन्यथा हि बाधृ विलोडने (धातुपाठः-5) - इत्येवमादीनामपि ऋदित्करणमपाणिनीयं स्यात्। प्रतिपादितं हि पूर्वम्? (4.1.106 तमसूत्रे) - गणकारः पाणिनिर्न भवतीति। तथा च - अन्यो गणकारः अन्यश्च सूत्रकारः॥
Prakriyasarvasvam¶
एषां णौ चङ्युपधाया ह्रस्वो वा स्यात् । ह्रस्वपक्षे लघुपरत्वात् सन्वद्भावादि । अबिभ्रजत्, अबभ्राजत् । अबीभसत्, अत्राभ्यासस्यापि लघुत्वाद् दीर्घः, अबभासत् । अबीभषत्, अबभाषत् । अदीदिपत्, अदिदीपत् । अजीजिवत्, अजिजीवत् । अमीमिलत्, अमिमीलत् । पीडयतिश्चुरादिः । अपीपिडत्, अपिपीडत् ।<!काण्यादीनां च वेति वाच्यम्!> (वा०) <karika> काणिराणी वाणिभाणी स्युश्राणिश्राणिलोटयः । लोठिहेठी लोपिलापी हापिर्माध्रवदर्शिताः ॥ ७२३ ॥ </karika> कण रण वण भण शब्दे । कण निमीलने चुरादिश्च । अचीकणत् अचकाणत् । अरीरणत्, अरराणत् । इत्यादि । चण गतिहिंसयोरिति णौ चण शब्दे इति शपि चोक्तं कल्पद्रुमे । अचीचणत्, अचचाणत् । श्रण दाने चुरादिः । विश्राणयति । व्यशिश्रणत्, व्यशश्राणत् । लुट क्षोभणे । अलुलुटत्, अलुलोटत् । अलुलुठत्,, अलुलोठत् । हेठ विबाधायाम् । अजीहिठत्, अजिहेठत् । अलुलुपत्, अलुलोपत् । अलीलपत्, अललापत् । अजीहपत्, अजहापत् । वर्तयति । चङि ‘उर्ऋत् (७-४-७) इति विकल्पादुत्त्वे कृते लघुपरत्वात् सन्वद्वत्त्वदीर्घौ । अबीवृतत् । अववर्तत् । मार्जयति । अमीमृजत् अममार्जत् । स्वापयति ।
Vartika¶
काण्यादीनां चेति वक्तव्यम् ।
Sutra Prayogas¶
अदिदीपत् (शिशुपालवधम्): भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् इति सूत्रेण विकल्पान्न उपधाह्रस्वः।
न्ममीलदब्जनयनं (शिशुपालवधम्): भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः इति विकल्पादुपधाह्रस्वः।
अबभासन् (भट्टिकाव्यम्): भ्राजभास इत्यादिना उपधाह्नस्वविकल्पः।
अदीदिपत् (भट्टिकाव्यम्): भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः इति हस्वाभावपक्षे रूपम्।
अबभ्राजत् (भट्टिकाव्यम्): भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः इति हस्वाभावपक्षे रूपम्।
अबिभ्रजत् (भट्टिकाव्यम्): भ्राजभास इत्यादिना उपधाया हस्वत्वम्।
अदीदिपन् (भट्टिकाव्यम्): भ्राजभासधुर्विद्युतोर्वा इत्यादिना ह्रस्वपक्षे रूपम्।