74001: णौ चङ्युपधाया ह्रस्वः

Padacheda: णौ | S | 7 | 1 |

चङि | S | 7 | 1 |

उपधायाः | S | 6 | 1 |

ह्रस्वः | S | 1 | 1 |

Sutrartha


Vasu English Summary

A short is substituted for the vowel, standing in a penultimate position, the Causative अङ्ग (stem), when the affix चङ् (sign of the Reduplicate Aorist of the Causatives) follows.

Vasu English Translation

A short is substituted for the vowel, standing in a penultimate position, the Causative अङ्ग (stem), when the affix चङ् (sign of the Reduplicate Aorist of the Causatives) follows. As अचीकरत्, अजीहरत्, अलीलवत्, अपीपठत् ॥ Here the rules of reduplication and shortening of the penultimate both present themselves simultaneously. The rule about shortening, being subsequent in order, is applied first, and then the reduplication takes place. Thus कारि + अत् = कार् + अत् (णि being elided (6.4.51)) = कर् + अत् (shortening (7.4.1)) = चकर् + अत् (6.1.11) = चिकर् + अत् (7.4.93), (7.4.79) = चीकरत् (7.4.94). The necessity of maintaining this order will appear from the following considerations. The Causative stem of अट् is आटि; the Aorist of which is आटि + चङ् + त् = आट् + अत् (6.4.51). Now if reduplication took place first we shall have आटिट् + अत् (1.1.59) the elided इ will be present for the purposes of reduplication) and as the penultimate is short already, the form will be आटिटत्, which with the augment अ will be अ + आटिटत् = आटिटत् ॥ This is a correct form, so far as it goes; but when the augment is elided in connection with the negative मा, the form will be मा भवान् आटिटत्, the correct form however is मा भवान् अटिटत् with a short अ, which can be formed if we shorten first and then reduplicate, as आट् + अत् = अट् + अत् = अटिट् + अत् = अटिटत्, which with the augment अ, will be आटिटत् ॥ In fact, though the reduplication of the second syllable (6.1.2) is a nitya rule, because it applies even where a penultimate is shortened and where not, yet the rule about shortening takes effect first, because the author has himself indicated this, by making the root ओण have an indicatory ऋ in the Dhatupatha (See (7.4.2) about ऋदित् verbs). For had the reduplication taken place first in the case of ओण् (Bhuadi. 482), as ओणिण्, there would be no long vowel to be shortened, and there would be no necessity of the probibition (7.4.2).

Objection: Why do we say ‘in the Causative’? The चङ् Aorist is formed of Causatives only (See (3.1.48)), the only exceptions being the simple roots श्रि, ब्रु, सु, धेट् and श्वि, none of which have any vowel in the penultimate and कम् and सुप् have already short upadha. The sutra चङ्युपधाया ह्रस्वः would have been enough. Answer: Had the sutra been, as proposed, then it would have meant, ‘that which is penultimate when चङ् follows, should be shortened’. Therefore in the Aorist of the Causative of लू, we have लू + णि + चङ् + त् = लू + इ + अत् here the penultimate with regard to चङ् is ऊ, which would be shortened; debarring Vriddhi and आव् substitute, and there would have come the उवङ् substitute instead. But that is not the case. We have अलीलवत्, and not अलुलुवत् ॥ Similarly, in the Aorist of the Causative of दा, we shall have दा + इ + अत्, and आ being shortened we have द + इ + अत, so that we cannot add the augment पुक् (7.3.36), and form अदीदपत् ॥ And the forms like अपीपचत् (पच् + इ + अत्) would not at all admit of shortening.

Why do we say when चङ् follows ? Observe कारयति, हारयति where there is no shortening in the Present Tense. Why do we say of the penultimate? Observe अचकाङ्क्षत् from काङ्क्ष्, and अववाञ्छत् from वाञ्छ, where the penultimate being a consonant, there can be no shortening. Had the word penultimate been not used, the vowels of these would be shortened. And the word ‘upadha’ is also absolutely necessary for the sake of the subsequent sutras like (7.4.4), and it prevents shortening in the above case, which would have otherwise taken place, on the maxim येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् which qualifies (1.1.67).

Vart:- The rule of shortening of the penultimate applies to the चङ् Aorist of the Causative of the Causative i. e. to the double Causative even. Thus अवीवदत् (= वादितवन्तं प्रयोजितवान्) वीणां परिवादकेन ॥ Otherwise वादि + इ + अत् = वाद् + इ + अत् = वाद् + ० + अत् ॥ Here the elided इ being sthanivat, will prevent shortening, or because the stem has lost a simple-vowel (अग्लोपिन्), it will not be shortened. The present vartika makes it so however.

Bhashya

णौ चङ्युपधाया ह्रस्वः अथ णिग्रहणं किमर्थं न चङ्युपधायाः ह्रस्व इत्येवोच्येत ? ॥ चङ्युपधाया ह्रस्व इतीयत्युच्यमाने - अलीलवत् अपीपवत् - ऊकारस्यैव ह्रस्वत्वं प्रसज्येत ॥ नैतदस्ति प्रयोजनम्(1), वृद्धिरत्र बाधिका भविष्यति ॥ वृद्धौ तर्हि कृतायामौकारस्यैव ह्रस्वत्वं प्रसज्येत ॥ नैतदस्ति - अन्तरङ्गत्वादत्राऽऽवादेशो भविष्यति । न हीदानीं ह्रस्वभाविन्युपधा भवति । तस्माण्णिग्रहणं कर्तव्यम् ॥ अथ चङ्ग्रहणं किमर्थं न णावुपधाया इत्येव सिद्धम् ॥ णावुपधाया ह्रस्व इतीयत्युच्यमाने कारयति हारयत्यत्रापि प्रसज्येत ॥ नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति न णावेव ह्रस्वत्वं भवतीति यदयं मितां ह्रस्वत्वं शास्ति ॥ इहापि तर्हि न प्राप्नोति - अचीकरत् अजीहरत् ॥ वचनाद्भविष्यति ॥ इहापि तर्हि वचनात्प्राप्नोति - कारयति हारयति । तस्माच्चङ्ग्रहणं कर्तव्यम् ॥ अथोपधाग्रहणं किमर्थम् ? ॥ णौ चङ्युपधाग्रहणमन्त्यप्रतिषेधार्थम् ॥ णौ चङ्युपधाग्रहणं क्रियते ॥ किं प्रयोजनम् ? ॥ अन्त्यप्रतिषेधार्थम् । अन्त्यस्य ह्रस्वत्वं मा भूत्(1) । णौ चङि ह्रस्वःइतीयत्युच्यमाने अलीलवत् अपीपवत् - अन्त्यस्यैव ह्रस्वत्वं प्रसज्येत ॥ नैतदस्ति प्रयोजनम्-अन्तरङ्गत्वादत्राऽवादेशो भविष्यति । न तर्हीदानीं(1) ह्रस्वभाव्यन्त्योस्ति, अन्त्यो ह्रस्वभावी नास्तीति कृत्वा वचनादनन्त्यस्य(2) भविष्यति ॥ इहापि तर्हि वचनात्प्राप्नोति - अचकाड्क्षत्, अववाञ्ञ्छत्(4) ॥ येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ॥ केन च नाव्यवधानम् ? ॥ वर्णेन(5) । एतेन पुनः(6) सङ्घातेन व्यवधानं भवति (च(6)) न भवति च । ( ॥ उत्तरार्थन्तु(6) ॥ ) उत्तरार्थं तर्ह्युपधाग्रहणं कर्तव्यम् । लोपः पिबतेरीच्चाऽभ्यासस्य उपधाया यथा स्यात् । अपीप्यत्, अपीप्यताम्, अपीप्यन् ॥ अथेह कथं भवितव्यम् - मा भवानटिटदिति, आहो स्विन्माभवानाटिटदिति ॥ मा भवानाटिटदिति(एवं(2)) भवितव्यम् ॥ ह्रस्वत्वं कस्मान्न भवति ? ॥ द्विर्वचने कृते परेण रूपेण व्यवहितमिति कृत्वा ॥ इहमिह संप्रधार्यं, - द्विर्वचनं क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम् ? ॥ परत्वाद्ह्रस्वत्वम् ॥ नित्यं द्विर्वचनम्(1) । कृतेऽपि(2) ह्रस्वत्वे प्राप्नोत्यकृतेऽपि ॥ एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति - द्विर्वचनाद्ह्रस्वत्वं बलीय इति यदयमोणिमृदितं करोति ॥ कथं कृत्वा ज्ञापकम् ? ॥ ऋदित्करण एतत्प्रयोजनम् - ऋदितां नेति प्रतिषेधो यथा स्यात् । यदि चाऽत्र पूर्वं द्विर्वचनं स्यादृदित्करणमनर्थकं स्यात्, द्विर्वचने कृते परेण रूपेण(2) व्यवहितत्वाद्ह्रस्वत्वं न भविष्यति । पश्यति त्वाचार्यो - द्विर्वचनाद्ह्रस्वत्वं बलीय इति तत ओणिमृदितं करोति । तस्मान्माभवानटिटदित्येव(4) भवितव्यम् ॥ ॥ उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम् (णिचा व्यवहितत्वात्(3)) ॥ उपधाह्रस्वत्वे(5) णेर्णिच्युपसङ्ख्यानं कर्तव्यम् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन ॥ किं पुनः कारणं न सिध्यति ? ॥ णिचा व्यवहितत्वात् ॥ णिलोपे कृते नास्ति व्यवधानम् ॥ स्थानिवद्भावाव्द्यवधानमेव ॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवदिति ॥ एवमप्यग्लोपिनां नेति प्रतिषेधः प्राप्नोति ॥ वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ॥ इदमिह संप्रधार्यं - वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वाद्वृद्धिः ॥ नित्यो लोपः । कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि ॥ अनित्यो लोपः, - अन्यस्य कृतायां वृद्धौ प्राप्नोद्यन्यस्याऽकृतायां । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्वृद्धिः, वृद्धौ कृतायां लोपः, तन्नाऽग्लोप्यङ्गं भवति ॥ एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति - वृद्धेर्लोपो बलीयानिति, - यदयमग्लोपिनां नेति निषेधं शास्ति ॥ नैतदस्ति ज्ञापकम्(1) । अस्त्यन्यदेतस्य(2) वचने प्रयोजनम् ॥ किम् ? ॥ यत्र वृद्धावपि कृतायामगेव लुप्यते - अत्यरराजत् ॥ यत्तर्हि प्रत्याहारग्रहणं करोति । इतरथा ह्यलोपिनां नेति ब्रूयात् । एवं वा(3) वृद्धेर्लोपो बलीयानिति ॥ अथ वाऽऽरभ्यते पूर्वविप्रतिषेधो ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्य पूर्वविप्रतिषिद्धमिति । तस्मादुपसङ्ख्यानं कर्तव्यमिति ॥

Kashika

अङ्गस्य इति वर्तते। चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति। अचीकरत्। अजीहरत्। अलीलवत्। अपीपवत्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम्। इह तु मा भवानटिटतिति नित्यत्वाद् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्य अकारस्य उपधात्वं विहितम् इति ह्रस्वो न स्यात्? नैष दोषः। ओणेः ऋदित् करणं ज्ञापकं नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यते इति। णौ इति किम्? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवदित्यत्र वचनसामर्थ्यातन्तरङ्गामपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात्। अदीदपदित्यत्र ह्रस्वत्वेन पुको बाधः स्यात्। अपीपचतित्येवमादौतु नैव स्यात्। चङि इति किम्? कारयति। हारयति। उपधाया इति किम्? अचकाङ्क्षत्। अववाञ्छत्। तदेददुपधाग्रहणमुत्तरार्थमवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवमर्थं येन न अव्यवधानम् इत्येतन्नाश्रयितव्यम् इति। उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम्। वदित्वन्तं प्रयोजितवानवीवदत् वीणां परिवादकेन। योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति। ण्याकृतिनिर्देशात् सिद्धम्।

Siddhanta Kaumudi

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥

Laghu Siddhanta Kaumudi

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥

Balamanorama

णौ चङ्युपधाया ह्रस्वः - णौ चङि । अङ्गाधिकारादाह — यदङ्गमिति । उपधायाः किम् । अचकाङ्क्षत् । चङि किम् । कारयति । णौ किम् ।चह्रुपधाया ह्रस्व॑इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुङ्न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्रस्वः ।द्विर्वचनेऽची॑ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम त इति स्थितम् । चङि ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतम् ।लिटि धातोरनभ्यासस्ये॑ति सूत्रं लिटीति वर्जमनुवर्तते । तदाह — चङि पर इत्यादिना । तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम त इति स्थितम् ।

Tattvabodhini

णौ चङ्युपधाया ह्रस्वः - उपधायाः किम् । अचकाङ्क्षत् ।

Padamanjari

‘णौ’ इत्यङ्गापेक्षया परसप्तमी,’चङ्’ ईति ण्यपेक्षया । उदाहरणेषु कृहृलूपूभ्यो णिच्, लुङ्, चङ्, णिलोपः, ह्रस्वत्वम्, द्विर्वचनम् । तत्र णौ कृतं स्थानिवद्भवतीति कृ इत्यादि धातुरूपं द्विरुच्यते, कृ हृ इत्येतयोरुरदत्वम्,’सन्वल्ल्घुनि’ इति सन्वद्भावादित्वम् । इतरयोरपि ठोः पुयण्ज्यपरेऽ इतीत्वम् । सर्वत्र’दीर्घो लघोः’ इति दीर्घः । अत्रेति । अनन्तरोदाहृतेषु । परत्वादिति । चङीति द्विर्वचनस्याशिश्रयदित्यादिरवकाशः, ह्रस्वस्य तु कृतद्विर्वचनमवकाशः; अकृते तु द्विर्वचने विप्रतिषेधः । तत्र कृते द्विर्वचनमिति । ततश्च सन्वद्भावे कर्तव्ये ह्रस्वत्वं न स्थानिवद्भवति; अभ्यासस्यादिष्टादचः पूर्वत्वादिति भावः । चोदयति - इह त्विति । माङ्प्रयोग आड् मा भूदिति । नित्यत्वादिति । द्विर्वचनं हि कृतेऽपि ह्रस्वत्वे प्राप्नोति, अकृतेऽपि, ततश्च तदेव स्यातत्र को दोषः ? इत्यत आह - तथा सतीति । परिहरति - नैष दोष इति । ओणेरिति । ठोणृ अपनयनेऽ इत्यस्य ऋदित्करणं एतत्प्रयोजनम् - ऋदितो नेति प्रतिषेधो यथा स्यात् । यदि चात्र द्विर्वचनं स्यात्, ऋदित्करणमनर्थकं स्याद्, द्विर्वचने कृते पररूपेण व्यवहितत्वादेव ह्रस्वत्वं न भवष्यिति, पश्यति त्वाचार्यः - द्विर्वचनाद् ह्रस्वत्वं बलीय इति, तत ओणिमृदितं करोति । णाविति किमिति । ह्रस्वश्रुत्या अच्परिभाषोपस्थानादच उपधाया ह्रस्वेन भाव्यम् । न चाण्यन्तानां चङ् उपिधा ह्रस्वभाविनी सम्भवति, न हि श्रिद्रुस्नुधेट्श्वीनामजुपधा । कमिगुप्योस्तु ह्रस्व एवोपधा, ततश्च चङ् यिः प्रत्ययस्तस्मिन्नुपधाया ह्रस्वो भवति स च णिरेव, तत्र णावन्तरङ्गत्वाद् वृद्ध्यादिषु कृतेषु उपधाया ह्रस्व इति सिद्धमिष्टमिति प्रश्नः । इतरः - यथाश्रुतसम्बन्धसम्भवे चङ् यिः प्रत्यय इत्यध्याहारो न युक्त इति वचनादन्तरङ्गमपि वृद्ध्यादिकं बाधेतेति मत्वाऽऽह - चङ्युपधाया इति । ह्रस्वः स्यादिति । ननु च ऊकारस्य ह्रस्वः, तस्मिंश्च कृते बाधितत्वान्मा भूद् वृद्धिः, गुणस्तु केनचिदबाधितत्वाद्भविष्यति, ततोऽवादेशे सिद्धमलीलवदिति ? नैतदस्ति; गुणस्य वृद्ध्या बाधितत्वाद् वृद्धेश्च ह्रस्वेनेति भ्रष्टावसरस्य गुणस्य कुतः पुनः प्रवृत्तिरित्युवङ् प्रसज्येत । अस्तु वा तत्र गुणः, दोषान्तरमाह - अदीदपदित्यत्रेति । यदा तु चङ्परनिर्ह्नासे स्थानिवत्वनिषेधः, तदा वृद्ध्यावादेशयोः कृतयोः पुकि च णिलोपस्य स्थानिवद्भावाभावाच्चङ् यिदङ्गं तस्यैवोपधा ह्रस्वभाविनी सम्भवतीति णाविति न वक्तव्यम् । सूत्रकारेण स्थानिवत्वनिषेधो न कृत इति’णौ’ इत्युक्तम् । चङीति किमिति । मितां ह्रस्वविधानादनेन णौ सर्वत्र ह्रस्वो न भविष्यति, प्रयोगदर्शनाच्चेष्टतो व्यवस्थाश्रयिष्यते इति प्रश्नः । इतरः - नान्तरेण वचनमिष्टानिष्टविभागः सुज्ञान इति मत्वाऽऽह - कारयति, हारयतीति । किञ्च - मितां ह्रस्ववचनम् ठसिद्धवदत्राभात्ऽ इत्येतदर्थं स्यात् । उपधाया इति किमिति । ह्रस्वश्रुत्या ठचःऽ इत्युपतिष्ठते, तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाज्विशष्यते, अङ्गस्य यत्र तत्र स्थितस्याचो ह्रस्वो भवति, तेनोपधायास्तावत्सिद्धं ह्रस्वत्वमिति प्रश्नः । इतरोऽप्यतिप्रसङ्गमुदाहरति - अचकाङ्क्षदिति । ननु’णौ’ इत्यनेनाचं विशेषयिष्यामः - णौ परतोऽङ्गस्य योऽजिति, तत्र सामर्थ्यादकवर्णव्यवधानमवश्यम्भावित्वादाश्रयिष्यते ? इत्याह - तदेतदिति । उतरार्थमिति ।’लोपः पिबतेरीच्चाभ्यासस्य’ - उपधाया यथा स्यादन्तस्य मा भूदित्येवमर्थमवश्यमुपधाग्रहणं कर्तव्यम् । यद्यौतरार्थमुपधाग्रहणम्, तत्रैवं कर्तव्यम् । यद्येवम्, तत्रैव क्रियताम् ? अत आहतदिहापीति । आल्लोपः पिबतेरिति । एवमुच्यमानेऽन्तरङ्गमपि युकमनवकाशत्वादाल्लोपो बाधते, उपधाग्रहणे त्वन्तरङ्गत्वाद्यौकि कृते आकारस्य उपधाया लोप इति न कश्चद् दोषिः । तस्मादुतरार्थमुपधाग्रहणम् । अपर आह - इहार्थमप्युपधाग्रहणम्, अन्यथा णावनन्तरस्य ह्रस्वो विधीयमानोऽन्तरङ्गमपि वृद्ध्यादिक वाधित्वा लूऐ अत् इति स्थिते उकारस्यादेशः प्राप्नोति, नैष दोषः; यदयम्’नाग्लोपिशास्वृदिताम्’ इति प्रतिषेधे शास्ति, तज्ज्ञापयति - नान्त्यस्येव ह्रस्वत्वमिति । णौ णिच्युपसंख्यानमिति । णौ परतो यो णिस्तस्मिन्नित्यर्थः । णेणिचीति पाठे ण्यन्तात्परे णिचि विहित इत्यर्थः । वादितवन्तं प्रयोजितवानिति । लुङे भूतकालत्वात्प्रयोजितवानिति भूतकालेन विग्रहः । वादितवन्तमित्यत्र तु कथम्, यद्यसौ वादितवान् कथं प्रयुक्तिः, कुर्वतो हि प्रयुक्तिः करिष्यतो वा, न तु कृतवतः ? न ब्रूमः - प्रयुक्तिकालापेक्षयात्र भूतकालत्वमिति, कि तहि ? यथाशब्दप्रयोगकालपेक्षया । प्रयोजितवानित्यत्र भूतकालत्वं तदपेक्षयैव प्रयोज्यव्यापारस्यापीति । अवीवददिति । वदेर्ण्यन्ताण्णिचि लुङदि । किं पुनः कारणं न सिध्यति ? अत आह - योऽसाविति । स्थानिवद्भावे हि सति यश्चङ्परो णिर्न तत्रोपधा ह्रस्वभाविनी, यत्रोपधा ह्रस्वभाविनी न स चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । तेन चेति । णिलोपेन । अग्लोपित्वादिति । ननु च ण्यन्ताण्णिचि विहिते णिलोपश्च प्राप्नोति, ठचो ञ्णितिऽ इति वृद्धिश्च, तत्र लोपः शब्दान्तरे प्राप्तेरनित्यः, वृद्धेस्तु लोपे कृतेऽत्यन्ताप्राप्तिरित्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपः, तन्नाग्लोप्यङ्ग भवति ? एवं तहि यदग्लोपिनां नेति प्रतिषेधं शास्ति, तज्ज्ञापयति - वृद्धेर्लोपो बलीयानिति; अन्यथा सर्वत्राको वृद्धौ कृतायामैकारौकारयोर्लोपः, न त्वकः । नैतदस्ति ज्ञापकम्; यत्र वृद्धावपि कृतायामगेव लुप्यते तदर्थमेतत्स्यात् - राजनमतिक्रान्तवान्नत्यरराजत्, यतहि प्रत्याहारग्रहणं करोति; अन्यथाल्लोपिनां नेत्येव ब्रूयात् ? एतदपि नास्ति ज्ञापकम्; स्वामिनमाख्यदसस्वामत्, गोमुचमाख्यदजुगोमत्, प्रावृषमाख्यदपप्रावत्, यादृशमाख्यदययादत् - इत्येवमाद्यर्थमेतत्स्यात् । अत्राहुः - णिजत्र नास्ति; अनभिधानात् ! एतच्च भाष्यकारेण ज्ञापकत्वसमर्थनादवसितमिति । यत्र तर्ह्यभिधानमङ्गीकृतं तद्रथमेतत्स्यात्’विन्मतोर्लुक्’ - भास्वन्तमाख्यत् अबभासत् ? नैतत्प्रत्याहारग्रहणस्य प्रयोजनम्, अकार एव ह्यत्र मतुपो लुप्यते । यत्र तर्हि विनो लुक् - स्रग्विणमाख्यदसस्रजत् ? अत्रापि नोपधा ह्रस्वभाविनी । तस्मात्प्रत्याहारग्रहणं ज्ञापकमिति स्थितमेतत् । एवमपि हरिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति यदुक्तं तेनैद्विरुध्यते । तथा हि - असत्यप्यत्वनिपातने वृद्धिं बाधित्वा इकारस्य लोपे सति नैव सन्वद्भावस्य प्रसङ्गः । तस्मादग्लोपित्वादिति नायं स्वपक्षः, परमतेन त्वेतदुक्तं द्रष्टव्यम् ॥ भाष्यस्याप्येवमेवात्र निर्वाहो दृश्यतां बुधैः । विपर्यये तूच्यमाने युक्तिः काचिन्न दृश्यते ॥ एवं च पटुअमाख्यत् बलिमाख्यत् अपीपटत्, अबीबलदिति भवति । यथा त्वत्र भाष्यं तथा अपपटत्, अबबलदिति भवतीत्यलमियता । उपसंख्यानं प्रत्याचष्टे - ण्याकृतिनिर्देशात्सिद्धमिति । आकृतिरत्र जातिर्निर्द्दिश्यते - चङ्परा या ण्याकृतिर्जातिस्तत्रेति । ततश्च सत्यपि स्थानिवत्वे ण्याकृतेरेवत्वाद्यश्चङ्परो णिः स एव पूर्वः, यश्च पूर्वः स एव चङ्पर इति सिद्धं ह्रस्वत्वम् । यदप्युक्तम् - ठग्लोपित्वात्ऽ इति, तदपि न; आकृतिनिर्द्देशे हि ह्रस्वस्य न ण्याकृतिनिमितत्वेनाश्रीयते । तत्र गोबलीवर्दन्यायेन तस्या ण्याकृतेरन्यस्याको लोपः प्रतिषेधविषयत्वेनाऽऽश्रीयते इति सर्वमवदात् ॥

Nyaas

चङ्परे णौ परतः इति। चङ्? परो यस्माण्णेरिति स तथोक्तः। अचीकरत् इत्यादि। कृञ्, ह्मञ्, लूञ्, पञित्येतेभ्यो हेतुमण्णिच्, ततो लुङ्, च्लिः,`णिश्रि` (3.1.48) इत्यादिना च्लेश्चङ्, णेरनिटि (6.4.51) इति णिलोपः। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, ततो द्विर्वचनम्, ततश्च णौ कृतं सथानिवद्भवतीति कृ, ह्म - इत्यादिकमविकृतधातुरूपमेव द्विरुच्यते। अत्र कृ, ह्म - इत्येतयोरभ्यासस्य उरत् (7.4.66) इत्यत्त्वे कृते रपरत्वे हलादिशेषे च ततश्च सब्वल्लधुनि (7.4.93) इत्यादिना सन्वद्भावादित्त्वम्। पू, लू - इत्येतयोरपि ह्रस्वत्वे कृते ओः पुयण्ज्यपरे (7.4.80) इतीत्त्वम्। सर्वत्र दीर्घो लघोः (7.4.94) इति दीर्घत्वम्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः इत्यादि। अचीकरवित्यादिषूदाहरणेषु कृताकृतप्रसङ्गित्वाद्द्विर्वचनं नित्यमुपधाह्रस्वत्वमपि, तयोरुभयोः परत्वादुपधाह्रस्वत्वं भवति, तत्र कृते द्विर्वचनम् - इत्येष कार्याणां प्रवृत्तिक्रमः। मा भवानटिटदित्यत्र तु द्विर्वचनमेव नित्यम्, न ह्रस्वत्वं तु द्वितीयस्यै काचो द्विर्वचने कृते न प्राप्नोति; परेण टिशब्दरूपेण व्यवधानात्। तस्मान्मा भवानटिटदित्यत्र नित्यत्वाद्द्वितीयस्यैकाचो द्विर्वचनं प्रप्नोति। द्विर्वचने हि सति को दोषः स्यात्? इत्यत आह - तथा च सति इत्यादि। एवञ्च द्विर्वचने कृते चङ्परे णौ यदङ्गं तस्य ह्रस्वभाव्याकार उपधा भवति। असति च ह्रस्वत्वे मा भवानटिटदिति रूपं न सिध्यति। मायोग आण्निवृत्त्यर्थः। आटि तु सति नास्ति विशेषः। सत्यसति वा ह्रस्वत्वे आटश्च (6.1.87) इति वृद्ध्या भवितव्यमिति। भवच्छब्दः सन्देहनिरासार्थः। नैष दोषः इति। योऽनन्तरोक्तः स कथं लभ्यते? इत्याह - ओणेॠदित्करणम् इत्यादि। ओणृ अपनयने (धातुपाठः-454) इत्येतस्य ऋदित्करणस्यैतत्प्रयोजनम् - ऋदित्त्वान्नाग्लोपि (7.4.2) इत्यादिना ह्रस्वप्रतिषेधो यथा स्यादिति। यदि च नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन न बाध्यते, तदौणैॠदित्करणमनर्थकं स्यात्। द्विर्वचने हि कृते परेण णिशब्दरूपेण व्यवधानादेव ह्रस्वो न भविष्यति, किमोणेॠदित्करणेनेति? आचार्यप्रवृत्तिज्र्ञापयति - नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति; यत ओणेॠदत्करणं करोति।णाविति किम् इति। एवं मन्यते - णिग्रहणे चाकृते लुङ्चङादेशयोः कृतयोर्णिलोपे चाकृते वृद्ध्यावादेशयोश्चाकृतयोः, अलू इ+अत्? इति स्थित ऊकरस्य ह्रस्वो मा भूदत्येवमर्थं वा णिग्रहणं क्रियते? ऊकारस्य वृद्धौ कृतायामौकारसय ह्रस्वो मा भूदित्येवमर्थं वा? एतच्चोभयमप्रयोजनम्; अत्रान्तरङ्गत्वाद्वृद्ध्यावादेशाभ्यामेव भवितव्यम्। अन्तरङ्गत्वं पुनस्तयोर्णिज्मात्राश्रयत्वात्; ह्रस्वस्य च बहिरङ्गत्वं चङाश्रयत्वादिति। चङ्युपधाया ह्रस्व इत्युच्यमाने इत्यादि। एतावत्युच्यमानेऽसति णिग्रहणे चङ्परे यदङ्गं तस्योपधाया ह्रस्वो भवतीत्येवमर्थः स्यात्। तथा चानवकाशो ह्रस्वोऽलीलवदित्यत्रान्तरङ्गामपि वृदिंध बाधित्वा वचनसामर्थ्यादृकारस्यैव स्यात्। अथापि कथञ्चिद्? वृद्धिर्न बाध्यते; एवमपि वृद्धौ कृतायामन्तरङ्गमप्यावादेशं बाधित्वौकारस्यैव प्रसज्येत; अन्यथा हि वचनमिदमनर्थकं स्यात्। अदीदपत् इति। अत्र ददातेर्णिचि लुङि चङि च कृते अ दा इ+अत्? इति स्थिते वचनप्रामाण्यादनवकाशो ह्रस्वोऽन्तरङ्गमपि पुकं बाधित्वा प्रसज्येत, तसमिंश्च सति पुग्विहतनिमित्तत्वान्न स्यात्। अपीपचदित्यादौ तु नैव ह्रस्वः स्यात् इति। चङि परत#ओ यदङ्गं पाचिप्रभृति तदीयाया उपधायाश्चाकारादेरह्रस्वभाविनीत्वात्। आदिशब्दोऽपीपठदित्यादिपरिग्रहार्थः। तस्माण्णाविति वक्तव्यम्। चङीति किम् इति। एषोऽभिप्रायः - केवले णौ ह्रस्वो मा भूदित्येवमर्थं चङीत्युच्यते; नैतच्चङग्रहणस्य प्रयोजनमुपपद्यते; यस्मादाचार्यप्रवृत्तिज्र्ञापयति - णावेव केवले ह्रस्वत्वं न भवतीति, यदयम्? मितां ह्रस्वः (6.4.92) इति ह्रस्वत्वं शास्ति। ततः कारयति, हारयतीत्यादौ न भविष्यतीत्यभिप्रायः। यद्येतस्माज्ज्ञापकात्? कारयतीत्यादौ ह्रस्वो न भवति, तदाऽचीकरदित्यत्रापि न स्यात्। अथात्र वचनसामर्थ्याद्भविष्यति? एवमपि कारयतीत्यादौ स्यादेव। न हि मितां ह्रस्वः (6.4.92) इत्युचयमाने सत्यचीकरदित्यादौ न भवतीत्येव विषयविभागः शक्यते विज्ञातुम्। तस्मात्? चङ्ग्रहणं कर्तव्यम्। उपधाग्रहणं किम् इति। एवं मन्यते - अलोऽन्त्यस्य मा भूदित्येवमर्थमुपधाग्रहणं क्रियते, एतच्चाप्रयोजनम्; चङ्परे णौ यदङ्गं तस्याचीकरदित्यादावपि णावन्तरङ्गत्वाद्? वृद्ध्यादिषु कृतेषु ह्रस्वभाव्यजन्त्यो न सम्भवति यत्राजन्ताण्णिजुत्पद्यते, किं पुनरपपठवित्यादौ यत्र हलन्ताण्णिजुत्पद्यते! तस्मादजन्त्यो ह्रस्वभावो नास्तीत्यन्तरेणाप्युपधाग्रहणं वचनादनव्त्यस्यैवोपधाभूतस्य ह्रस्वो भविष्यतीति। अचकाङ्क्षत्, अववाञ्छत् इति। क्राक्षि वाक्षि माक्षि काङ्क्षायाम् (धातुपाठः-667,668,669)। यद्यप्यजन्तो ह्रस्वभावी नास्ति, तथापि वचनादनन्त्यस्याचोकरदित्यादौ यथा भवति, तथा अचकाङ्क्षदित्यादावपि स्यात्। तस्मान्मा भूदेष दोष इत्युपधाग्रहणं क्रियत इत्यभिप्रायः। ननु चाङ्गस्य योऽच्? तस्य चङ्परे णौ ह्रस्वो विधीयते, तत्र यद्यप्यनन्तरोऽज्? न सम्भवति, तथापि येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।प।46) इत्येकेन वर्णेनेति येन नाव्यवधानम्, अपि तु सर्वदा व्यवधानमेव; तेन व्यवहितेऽपि वचनप्रामाण्याद्भवितव्यम्। एकेनैव वर्णेन व्यवधानं सर्वत्र सम्भवति। सङ्घातेन तु व्यवधानं सम्भवति, न सम्भवति च। इहाचकाङ्क्षदित्यादौ सङ्घातेनैव व्यवधानम्, अतो नास्त्येव ह्रस्वप्रसङ्ग इति किमुधाग्रहणेन? इत्याह - तदेतत् इत्यादि। उपधाग्रहणमवश्यमुत्तरार्थं कर्तव्यम्। इह तु क्रियमाणे सत्यचकाङ्क्षदित्येवमर्थम्? येन नाव्यवधानम् (व्या।प।46) इत्येषा परिभाषा नाश्रयितव्या भवति। उपधाग्रणेनैवात्र ह्रस्वस्य निवर्त्तितत्वादित्येष गुणो लभ्यते। तेनेहैव कृतम्, नोत्ररत्र। उपधाह्रस्वत्वे णेर्णिचयुपसंख्यानम् इति। चङ्परे णौ परतो यो णिस्तस्मिन्? परतोऽङ्गस्योपधापा ह्रस्वः उपसंख्येयः। अवीवदत् इति। वदेः हेतुमति च (3.1.26) इति णिच्, तदन्ताद्वादितवन्तं प्रयोजितवानिति पुनः हेतुमति च (3.1.26) इति णिच्, ततो लुङादिः,**णेरनिटि** (6.4.51) इति णिलोपः। किं पुनः कारण न सिध्यति, यावता णिलोपे कृते चङ्परे णावङ्गस्याकारो ह्रस्वभाविन्युपधा भवत्येव? इत्याह - योऽसो इत्यादि। अचः परस्मिन्? पूर्वविधौ (1.1.57) अपि णिलोपस्य ह्रस्वत्वे कर्तव्ये स्थानिवद्भावाण्णिजव्यवधानाद्? ह्रस्वो न प्राप्नोति। तेन वा णिलोपेनाग्लोप्यङ्गमेतद्भवति - तदेतस्माद्धेतोर्न हरसवत्वं प्राप्नोति। अग्लोपीत्यादिनानन्तरवक्ष्यमणिप्रतिषेधात्? (7.4.4) ण्याकृतिनिदशात्? सिद्धम् इत्युपसंख्यानं प्रत्याचष्टे - `णौ इति। ण्याकृतिरिति णिजातिर्निर्देशयते, न तु णिव्यक्तिः। तेन व्यक्तौ व्यवधानं न भवति, न हि जातौ; एकत्वाण्णिजातेः। न हि तयैव तस्या व्यवधानमुपपद्यते। ननु चोत्तरया ण्याकृत्या जात्याधारभूतया णिव्यक्त्या णिजात्याश्रयेऽपि व्यवधानमुपपद्यत एव? नैतत्; तस्यामपि व्यक्तौ जातेः समवायात्। एवं तादद्व्यवधान#ं ण्याकृत्याश्रये नास्ति। अग्लोपित्वमपि नास्त्येव; न ह्यत्र णिजातिव्यतिरेकेणाऽन्योऽग्विद्यते, यस्य लोपेनाग्लोप्यङ्गं स्यात्। न च ण्याकृतेर्लोपश्च; तस्याः श्रूयमाणत्वात्। न हि श्रूयमाणाया लोपे लपपद्यते; अदर्शनं लोपः (1.1.60) इति वचनात्। ननु च जातिव्यतिरेकेणापि तदाश्रयभूता व्यकतिरग्विद्यत एव; न जातिव्यक्त्योरनन्यत्वमिति सांख्योयसिद्धान्तस्येहाश्रयणात्। अथ वा - ण्याकृतिनिर्देशे सत्युपधाह्रस्वत्वस्य ण्याकृतनिमित्तत्वेना श्रोयते। तेन गोबलीवरदन्यायेन तस्या ण्याकृतेर्निमित्तत्वेनोपात्ताया अन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन विज्ञायते, स चेह नास्ति। तस्माण्ण्याकृतिनिर्देशात्? सिद्धम्॥

Sutra Prayogas

  • समनीनहत् (शिशुपालवधम्): णौ चड्युपधाया ह्रस्वः इति णिचि चङि च परे उपधाया ह्रस्वः।

  • पर्यपूपुरत् (शिशुपालवधम्): णौ चङ्युपधाया ह्रस्वः इति उपधायाः ह्रस्वः।

  • समचिच्छदत् (शिशुपालवधम्): णौ चङ्युपधाया हस्वः इति उपधायाः ह्रस्वः।

  • अजिग्रहत्तं (भट्टिकाव्यम्): णौ चङ्युपधाया ह्रस्वः इति ह्रस्वः।

  • अबूबुधत (भट्टिकाव्यम्): णौ चड्युपधायाः इति ह्रस्वत्वम्।

  • अजिघ्रपन् (भट्टिकाव्यम्): णौ चङ्युपधाया ह्रस्वः इति ह्रस्वः।