73095: तुरुस्तुशम्यमः सार्वधातुके

Padacheda: तुरुस्तुशम्यमः | S | 5 | 1 |

सार्वधातुके | S | 7 | 1 |

Sutrartha

तु, रु, स्तु, शम्, अम् - एतेभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति ।

तु, रु, स्तु, शम्, अम् - एते पञ्च धातवः सन्ति । एतेभ्यः विहितस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ‘ईट्’ इति कश्चन आगमः भवति । (‘ईट्’ इति ‘इट्’ इत्यस्मात् भिन्नः, अयम् इडागमस्य विषयः न - इति स्मर्तव्यम् ।) । किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतयोः केवलम् ‘तिङ्’-प्रत्ययस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, शित्-प्रत्ययस्य विषये न । किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । सामान्यतः टित्- आगमः आद्यन्तौ टकितौ (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अस्मिन् सूत्रे ‘सार्वधातुके’ इति सप्तम्यन्तं पदं विद्यते, अतः अयं ईट्-आगमः सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । ‘हलि’ इति ‘सार्वधातुके’ इत्यस्य विशेषणमस्ति । यस्मिन् विधिः तदादौ अल्ग्रहणे अनेन वार्तिकेन ‘हलि सार्वधातुके’ इत्यस्य अर्थः ‘हलादि सार्वधातुके’ इति भवति । अस्मिन् सूत्रे प्रोक्ताः पञ्च धातवः एतादृशाः - तु गतिवृद्धिहिंसासु, रु शब्दे, ष्टुञ् स्तुतौ, शमुँ उपशमे, अमँ गत्यादिषु । एतेषु ‘तु’ अयं धातुः सौत्रः अस्ति - इत्युक्ते अस्य उल्लेखः धातुपाठे न विद्यते, केवलं सूत्रेषु एव दृश्यते । रु / ष्टुञ् - एतौ अदादिगणस्य धातू स्तः, शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति । एतेभ्यः धातुभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति । प्रत्येकम् धातोः प्रक्रियाम् क्रमेण पश्यामः - 1) ‘तु वृद्धिहिंसयोः’ अयम् सौत्रः धातुः अस्ति । अयम् धातुः ‘लुग्विकरणः अस्ति’ इति अपि उच्यते । इत्युक्ते, अस्मात् परस्य विकरणप्रत्ययस्य लुक्-भवति । एवं स्थिते ‘तु + तिप्’ इत्यत्र अनेन सूत्रेण विकल्पेन ईडागमे कृते, अग्रे ईडादेशस्य पक्षे सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणादेशे, एचोऽयवायावः (6.1.78) इति अवादेशे कृते ‘तवीति’ इति रूपं सिद्ध्यति । ईडादेशाभावे उतो वृद्धिर्लुकि हलि (7.3.89) इत्यनेन अङ्गस्य वृद्धिं कृत्वा ‘तौति’ इति रूपम् सिद्ध्यति । 2) ‘रु शब्दे’ अयमदादिगणस्य धातुः । अस्मात् परस्य शप्-प्रत्ययस्य अदिप्रभृतिभ्यः शपः (2.4.72) इत्यनेन लोपः भवति । अग्रे तु-धातुवदेव उपरिनिर्दिष्टां प्रक्रियां कृत्वा रवीति / रौति एते रूपे सिद्ध्यतः । 3) ष्टुञ् स्तुतौ अयमपि अदादिगणस्य धातुः । अत्र आरम्भे धात्वादेः षः सः (6.1.64) इत्यनेन षकारस्य सकारः, तथा ष्टुत्वनिवृत्त्या टकारस्य तकारे कृते ‘स्तु’ इति धातुः सिद्ध्यति । अस्यापि प्रक्रिया तु-धातुवदेव भवति, अतः ‘स्तवीति / स्तौति’ एते द्वे रूपे सिद्ध्यतः । ज्ञातव्यम् - एतेषु त्रिषु धातुषु ईडागमस्य अभावे केवलं पित्-सार्वधातुके प्रत्यये परे एव उतो वृद्धिर्लुकि हलि (7.3.89) इति अङ्गस्य वृद्धिः भवति । अतः तस्-थस्-आदिषु हलादि-अपित्-सार्वधातुक-प्रत्ययेषु परेषु अयं वृद्धिः न दृश्यते । यथा - स्तु-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपे - स्तुतः / स्तुवीतः एते भवतः । 4) शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अतः अयम् दिवादिभ्यः श्यन् (3.1.69) इति श्यन्-विकरणम् प्राप्नोति । यद्यपि श्यन्-इति हलादि-सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-प्रत्ययः नास्ति, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये बहुलं छन्दसि (2.4.73) इति श्यन्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण शम् + ध्वम् → शमीध्वम् एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु ‘शाम्यध्वम्’ इत्येव रूपम् करणीयम् ।) 5) अमँ गतौ अयम् भ्वादिगणस्य धातुः । अस्मात् परः कर्तरि शप् (3.1.68) इति शप्-गणविकरणम् विधीयते । यद्यपि शप्-इति सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-अपि नास्ति, हलादि-अपि नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये बहुलं छन्दसि (2.4.73) इति शप्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण अम् + तिप् → अमीति एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु ‘अमति’ इत्येव रूपम् करणीयम् ।)

Sutrartha (English)

A हलादि सार्वधातुक तिङ् प्रत्यय optionally gets an ईट् आगम when it is attached to the verbs तु, रु, स्तु, शम्, अम्

Vasu English Summary

A सार्वधातुक affix beginning with a consonant, optionally get the augment इट् after the roots 1. तु 2. रु 3. स्तु 4. शम् and 5. अम्।

Vasu English Translation

A सार्वधातुक affix beginning with a consonant, optionally get the augment इट् after the roots 1. तु 2. रु 3. स्तु 4. शम् and 5. अम्। The root तु (Adadi 25) means ‘to increase’, रु (Adadi 24) ‘to make a sound’, स्तु (Adadi 34) ‘to praise’, शम् ‘to be satisfied’, and अम् ‘to go’. According to Kasika तु is a Sautra dhatu. Thus उत्तौति or उत्तवीति, उपरौति or उपरवीति, उपस्तौति or उपस्तवीति, शाम्यध्वम् or शमीध्वम्, अभ्यमति or अभ्यमीति ॥ शम् and अम् can then be followed by a consonant beginning sarvadhatuka affix, when they lose their Present character (vikarana) as a Vedic anomaly (bahulam chhandasi).

The Apisalas read the sutra as तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि ॥ This will then become a विधि rule for the Vedic forms. The word सार्वधातुका is here exhibited in the feminine.

The repetition of ‘sarvadhatuka’, though its anuvritti was present is for the sake of stopping the anuvritti of पित्, and this rule applies to अपित् affixes also, as सुवीत, शमाध्वम् ॥

Bhashya

तुरुस्तुशम्यमः सार्वधातुके सार्वधातुक इति वर्तमाने पुनः सार्वधातुकग्रहणं किमर्थम् ? ॥ ( सार्वधातुक(2) इति वर्त्तमाने ) पुनः सार्वधातुकग्रहणमपिदर्थमपिदर्थोऽयमारम्भः । अध्रिगो शमीध्वंसुशमिशमीध्वं शमीध्वमध्रिगो ॥

Kashika

तु इति सौत्रोऽयं धातुः, रु शब्दे,**ष्टुञ् स्तुतौ**,**शमु उपशमे**,**अम गत्यादिषु** इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति। उत्तौति, उत्तवीति। उपरौति, उपरवीति। उपस्तौति, उपस्तवीति। शाम्यध्वम्, शमी॒ध्व॑म् (मै०सं० ४.१३.४)। अभ्यमति, अभ्यमीति। शम्यमोः बहुलं छन्दसि (२.४.७३) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं संभवति। आपिशलाः तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि इति पठन्ति। तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति। सर्वधातुक इत्यनुवर्तमाने पुनः सार्वधतुकग्रहणमपिदर्थम् — स्तुवीत, शमीध्वमित्यत्रापि यथा स्याद् इति॥

Siddhanta Kaumudi

एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -(SK2403) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति ।{$ {!1035 णु!} स्तुतौ$} । नौति । नविता ।{$ {!1036 टुक्षु!} शब्दे$} । क्षौति क्षविता ।{$ {!1037 क्ष्णु!} तेजने$} । क्ष्णौति । क्ष्णविता ।{$ {!1038 ष्णु!} प्रस्रवणे$} । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् ।{$ {!1039 ऊर्णुञ्!} आच्छादने$} ॥

Balamanorama

तुरुस्तुशम्यमः सार्वधातुके - तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात्पञ्चम्येकवचम् ।उतो वृद्धि॑रित्यतो हलीति,भूसुवो॑रित्यतस्तिङीति,ब्राउव ई॑डित्यत ईडिति,यङो वे॑त्यतो वेति चानुवर्तते । तदाह - एभ्य इत्यादिना । नाभ्यस्तस्येति ।नाभ्यस्तस्याऽचि पिति सार्वधातुके इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणं पितीत्यस्याऽनुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतिति । ईट्पक्षे हलादित्वाऽभावादुतो वृद्धिर्नेति भावः । रौतीति । ईडभावेउतो वृद्धि॑रिति भावः । रुवीतः रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाऽभावादीडभावे उवङिति भावः । शाम्यतीति । श्यनस्तिङ्त्वाऽभावादीण्नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावेअकृत्सार्वधातुकयो॑रिति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसङ्ग्रहः । रुयात् रुवीयादिति । हलादिसार्वधातुकत्वादीड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुकेउतो वृद्धि॑रिति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनाद्धातुत्वाऽभावात्कथं ततः सार्वधातुकस्य ईड्विधिरित्यत आह — तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति । अत्र व्याख्यानमेव शरमम् । ननु शपा व्यवदानादस्य सार्वधातुकपरत्वं कथमित्यत आह — अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिङ ईड्विधानमेवाऽत्र बीजम् । शम्यमोस्तुशमीध्वमभ्यमीती॑ति वेदे शपो लुकि बोध्यम् । अयमनिट् । हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह -तोतेति । णु स्तुताविति । णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नु धातवः सेट । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति । षोपदेशोऽयमिति भावः । ऊर्णुञ्धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्यं प्राप्तौ —

Tattvabodhini

तुरुस्तुशम्यमः सार्वधातुके - ॒तुरुस्तु ।तुः सौत्रो धातु॑रिति वक्ष्यति । अपिदर्थमिति ।एभ्यः परस्य पितः सार्वधातुकस्ये॑ति प्राचो व्याख्यानं प्रामादिकं , रुवीतः स्तुवीत इत्याद्यसिद्ध्यापत्तेरिति भावः । शम्यमोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति । शम्यमोश्छन्दसि विकरणस्य लुकि सति झलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशलास्तु — तुरुस्तुशम्यमः सार्वधातुके छन्दसी॑ति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव ।

Padamanjari

तु इति सौत्रोऽयं धातुरिति । स च वृद्धौ वर्तते, गत्यर्थ इत्यन्ये, हिंसार्थ इत्यपरे । उतवीतिति ।’बहुलं च्छन्दसि’ इति शपो लुक् । शमीध्वमिति । शमेरन्तर्भावितण्यर्थात्प्रैषे लोट्, व्यत्ययेनात्मनेपदम्, शप्, तस्य’बहुलं च्छन्दसि’ इति लुक् । आपिशला इति । आपिशलेः शिष्याः । सावधातुकास्विति । टाबन्तम् । तत्र संज्ञात्वेन विनियुक्तं सार्वधातुकग्रहणमनर्थकम्,’नाभ्यस्तस्य’ इत्यादेः सूत्रादनुवृतेः ? अत आह - सार्वधातुके इति वर्तमान इति । तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्, अतस्तदनुवृतौ तदप्यनुवर्तेत, तन्मानुवृतदित्येवमर्थं पुनः सार्वधातुकग्रहणमिति ।’हलि’ इतियेतत्वनुवर्तत एव; न हि तत्सार्वधातुकग्रहणेन सम्बद्धम् ॥

Nyaas

तु इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे। अस्य च लुग्विकरणत्वं स्मर्यते, तच्च बहुल छन्दसि (2.4.73) इति बहुलग्रहणेन भाषायामपि लुकसम्पादनाल्लभ्यते। शमीष्पम् इति। लोट्। अशमीध्वम् इति। लङ्। अभ्यमीति इति। लोट्। अशमीध्वम् इति। लङ्। अभ्यमीति इति। अम गत्यादिषु (धातुपाठः-465) लट्, तिप्। कथं पुनः शम्यमिभ्यामनन्तरं हलादि सार्वधातुकं सम्भवति, यावता शमेव्र्यवधायकेनैव श्याना भवितव्यम्। अमेरपि शप्? क्रियते? इत्याह - शध्यमोः इत्यादि। विकरणस्यात्र लुक्? बहुलं छन्दसि (7.4.78) इत्यमेन। सार्वधातुकासु इति। स्त्रीलिङ्गनिर्देशा। स्त्रीलिङ्गस्य सार्वधातुकाशब्दस्यापिशलिना संज्ञात्येन प्रचीतत्वात्। अथ सार्वधातुकग्रहणं किमर्थम्, यावता नाभ्यस्तस्याचि पिति सार्वधातुके (7.3.87) इत्यतः सूत्रात्? सार्वधातुकग्रहणमनुवर्तते? इत्याह - सार्वधातुक इत्यनुवर्तमाने इत्यादि। तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्। अतस्तदनुवृत्तौ पिद्ग्रहणमप्यमुवर्तेत तथा चापिति न स्यात्। तस्मादपित्यपि यथा स्यादियेवमर्थं त्सार्वधातुकग्रहणं क्रियते॥

Prakriyasarvasvam

एभ्यो हलादेः सार्वधातुकस्य ईड्वा स्यात् । स्तवीति । अन्यत्र,

Sutra Prayogas

  • निष्टीवति (भट्टिकाव्यम्): तु-रु-स्तु-शम्यमः सार्वधातुके इति यतः यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके ।