73094: यङो वा¶
Padacheda: यङः | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
यङ्-प्रत्ययान्त-अङ्गात् परस्य हलादि-पित्-सार्वधातुकप्रत्ययस्य विकल्पेन ईडागमः भवति ।
किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम पित्-प्रत्ययः? सः प्रत्ययः यस्मिन् पकारः इत्संज्ञकः अस्ति । यथा - तिप्, सिप्, मिप् ।
किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।
‘हलि’ इति सार्वधातुके इत्यस्य विशेषणमस्ति । यस्मिन् विधिः तदादौ अल्ग्रहणे अनेन वार्तिकेन ‘हलि सार्वधातुके’ इत्यस्य अर्थः ‘हलादि सार्वधातुके’ इति भवति ।
5. किम् नाम यङ्? धातोरेकाचो हलादे क्रियासमभिहारे यङ् (3.1.22) इत्यनेन ‘पुनः पुनः क्रियां करोति’ अस्मिन् अर्थे एकाचः हलादिः यः धातुः, तस्य यङ्-प्रत्ययः भवति । यङ्-प्रत्ययान्तशब्दः सनाद्यन्ताः धातवः (3.1.32) इत्यनेन धातुसंज्ञां प्राप्नोति । तस्य अग्र तिप्-तस्-झि-आदयः प्रत्ययः भवन्ति । यथा - पुनः पुनः पचते = पापच्यते । अतः अस्य सूत्रस्य अर्थः जायते - हलादि-सार्वधातुकः-पित्-प्रत्ययः यदि यङन्तात् अङ्गात् परमागच्छति, तर्हि तस्मात् प्रत्ययात् पूर्वम् विकल्पेन ‘ईट्’ आगमः भवति । यथा, भू-धातोः यङ्-प्रत्ययान्त-रूपम् ‘बोभवीति’ इत्यस्य रूपसिद्धिः इयम् - भू + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् (3.1.22) इत्यनेन ‘पुनः पुनः भवति’ अस्मिन् अर्थे यङ्-प्रत्ययः] → भू + भू + यङ् [सन्यङोः (6.1.9) इत्यनेन यङ्-प्रत्यये परे अङ्गस्य यः एकाच्-अवयवः तस्य द्वित्वम् भवति । द्वित्वात् अनन्तरम् यः प्रथमः ‘भू’ तस्य पूर्वोभ्यासः (6.1.4) इत्यनेन ‘अभ्यास’ इति संज्ञा भवति ।] → भो + भू + यङ् [गुणो यङ्लुकोः (7.4.82) इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः भवति । उकारस्य गुणः स्थानसाधर्म्येण ओकारः ।] → भो + भू [यङोऽचि च (2.4.74) इत्यनेन यङ्-प्रत्ययस्य लुक्-भवति । यद्यप्यत्र ‘अच्’ इति परनिमित्तम् नास्ति, तथापि अस्य सूत्रस्य प्रयोगः कर्तुं शक्यते, यतः अस्मिन् सूत्रे चकारः प्रयुक्तः अस्ति । ] अत्र ‘भोभू’ इत्यस्य सनाद्यन्ताः धातवः (3.1.32) इत्यनेन धातुसंज्ञा भवति । अग्रे, लट्-लकारस्य विवक्षायाम् - भोभू + लट् → भोभू + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → भोभू + शप् + ति [कर्तरि शप् (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → भोभू + ति [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ।] → भोभू + ईट् + ति / भोभू + ति [यङ्-प्रत्ययस्य लुकि अपि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति यङ्-प्रत्ययस्य यत् लक्षणम् - यङो वा (7.3.94) इति विकल्पेन ईडागमः - सः भवति । एतत् ‘अङ्गस्य’ कार्यम् नास्ति, अतः न लुमताङ्गस्य (1.1.63) इति निषेधः न भवति ।] → भोभो ईति / भोभोति [सार्वधातुकार्धधातुकयोः (7.3.84) इति अङ्गस्य गुणः] → भोभवीति / भोभोति [एचोऽयवायावः (6.1.78) इति अवादेशः] → बोभवीति / बोभोति [अभ्यासे चर्च्च (8.4.54) इति चर्त्वम् ] अनेन प्रकारेण विकल्पेन ईडागमे प्राप्ते बोभवीति, बोभोति एते द्वे रूपे सिद्ध्यतः । तथैव लप्-धातोः लालपीति, रू-धातोः रोरवीति, वद्-धातोः वावदीति - आदीनि रूपाणि अपि सिद्ध्यन्ति । ज्ञातव्यम् - सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन निर्दिष्टः गुणादेशः भू-धातोः सार्वधातुके तिङ्-प्रत्यये परे भूस्तुवोस्तिङि (7.3.88) इत्यनेन वस्तुतः निषिध्यते । परन्तु अयं निषेधः यङ्लुक्-विधौ लौकिकसंस्कृते न भवति एतत् स्मर्तव्यम् ।
Sutrartha (English)¶
A हलादि-पित्-सार्वधातुकप्रत्यय attached to a यङ्-प्रत्ययान्त-अङ्ग gets ईडागम optionally.
Vasu English Summary¶
The पित् सार्वधातुक affix beginning with a consonant, optionally get the augment इट् in the Intensive.
Vasu English Translation¶
The पित् सार्वधातुक affix beginning with a consonant, optionally get the augment इट् in the Intensive. As लालपीति in शाकुनिको लालपीति, so also दुन्दुभिर्वावदीति, त्रिधावद्धो वृषभो रोरवीति महादेवो मर्त्यो आविवेश ॥ (Rig. IV. 58.3). Also not, as वर्वर्त्ति चक्रम् and वर्वर्मि ॥ These are all examples of the Intensive with the elision of यङ् ॥ When the stem retains यङ्, there can be no पित् Sarvadhatuka affix beginning with a consonant after it, because then शप् will intervene between the affix and the stem. Hence no examples of the same can be given.
Kashika¶
यङ उत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति वा। शाकुनिको लालपीति। दु॑न्दु॒भिर्वा॑वदीति (ऋ० ६.४७.३१)। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ँ॒ आ वि॑वेश (ऋ० ४.५८.३)। न च भवति — वर्व॑र्ति (ऋ० १.१६४.११)। चर्कर्ति चक्रम्। हलादेः पितः सार्वधातुकस्य यङन्तादभाव इति यङ्लुगन्तस्योदाहरणम्॥
Siddhanta Kaumudi¶
यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः - (SK2224) इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते (SK3596) इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । [(परिभाषा - ) प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात्] । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था - (SK2223) इति सिचो लुक् । यङो वा - (SK2651) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः (SK2425) । पास्पर्धि । लङ् । अपास्पतर् । अपास्पदर् । सिपि दश्च (SK2468) इति रुत्वपक्षे रो रि (SK173) । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर् । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश - (SK2428) इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च (SK2309) । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः (SK341) अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त - (SK2299) इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च (SK2430) इति कुत्वं यद्यपि हो हन्तेः (SK358) इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । [(परिभाषा - ) श्तिपा शपा…] इति निषेधस्तवनित्यः गुणो यङ्लुकोः (SK2630) इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः (SK2695) इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य - (SK2637) इति तपरत्वान्न गुणः । हलि च (SK354) इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन - (SK2504) इत्यात्वम् । चङ्खातः । गमहन - (SK2363) इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा (SK2319) । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः (SK2443) इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः (SK2497) । जाहीतः । इह जहातेश्च (SK2498) आच हौ (SK2499) लोपो यि (SK2500) घुमास्था - (SK2462) एर्लिङि - (SK2374) इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि - (SK2645) इत्युत्वं न । रुदादिभ्यः - (SK2464) इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि - (SK2409) इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥
Laghu Siddhanta Kaumudi¶
यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात्। भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभूतु तेतिक्ते इति छन्दसि निपातनात् । बोभवीति, बोभोति । बोभूतः । अदभ्यस्तात् । बोभुवति । बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, बोभोतु, बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत्, अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूतास्ताम् । बोभूतासुः । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत्, अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविष्यत् ॥ इति यङ्लुक्प्रक्रिया ॥
Tattvabodhini¶
यङो वा - यङो वा ।नाभ्यस्तस्याची॑ति सूत्रात्पिति सार्वधातुक इति,॒उतो वृद्धि॑रित्यतो हलीति चानुवर्तते,ब्राउव ई॑डित्यत ईडिति च । तदेतदाह — यङन्तादित्यादि । यङो लुक्यपि प्रत्ययलक्षणेनाऽत्र यङन्तत्वम् । एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम् । उक्तरीत्या यङन्तत्वानपायात् । किं च यङन्ताद्वलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपिसन्यङो॑रिति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाऽभावाद्यङ्लुकि द्वित्वाऽभावप्रसङ्गादिति दिक् । छन्दसि निपातनादिति । गुणनिषेधे सिद्धे निपातनमिदंछन्दस्येव गुणनिषेधो नाऽन्यत्रे॑ति नियमार्थमित्यर्थः । बोभूत्विति । समुदायस्याऽतिरिक्तत्वात्भूसुवो॑रिति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह — न चेत् । द्विः प्रयोग इति । तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमित्येतन्न्यायसिद्धं, नाऽपूर्वं वचनमिति बावः । बोभुवतीति ।अदभ्यस्ता॑दित्यत् । बोभूवीदिति । केचिदिहभुवो वुगि॑ति सूत्रेओः सुपी॑त्यत ओरित्यनुवर्तते । तथा च उवर्णान्तस्य भुवो वुगित्यर्थाद्गुणे कृते वुकः प्राप्तिर्न#आस्तीत्यनित्यो वुक् । स च पराभ्यां गुणवृद्धिभ्यां बाध्यते । तेनाऽबोभवी॑दिति रूपमाहुः । तच्चिन्त्यम् ।भुवो वुको नित्यत्वा॑दिति भाष्याग्रन्थविरोधात् । तस्माद्वुको नित्यत्वमाश्रित्यइन्धिभवतिभ्यां चे॑ति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनसंमतमेव ।आत॑ इति नियमाज्जुसभावमाशङ्क्याह — अभ्यस्ताश्रय इति । अयं भावः — सिजभ्यस्ते॑ ति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवाऽयं नियमो न त्वभ्यस्ताश्रयस्य जुस इति ।जुसि चे॑ति गुणमाशङ्क्याह - नित्यत्वाद्वुगिति । अबोभूविरिति । न चाऽत्र परत्वात्अदभ्यस्ता॑दित्यदादेशः स्यादिति वाच्यम्, अभ्यस्ताश्रयजुसोऽदादेशाऽपवादत्वात् । पास्पर्धीतीति । स्पर्ध संघर्षे ।दीर्घोऽकितः॑ इत्यभ्यासस्यदीर्घः ।यङो वे॑ति ईड्विकल्पः । ईडभापक्षेझषस्तथो॑रिति धत्वं,झरो झरि सवर्णे॑ इति वा धलोपः । लिटि — पास्पर्धाचकार । लुट — पास्पर्धिता । लृटि — पास्पर्द्धिष्यति । लोटि पास्पर्धीतु । पास्पर्द्धु । पास्पर्धात् । पास्पर्धाम् । पास्पर्धतु । पास्पद्र्धीति । हेर्धित्वे वा धलोपः । लङि इडागमपक्षे — अपास्पर्धीत् । रुत्वपक्षे इति । पक्षान्तरे तु अपास्पत् । अपास्दद्र्ध । लिङि — पास्पध्र्यात् । पास्पध्र्याताम् । पास्पध्र्यास्ताम् । लुङि — अस्तिसिचोऽपृक्ते॑ इति नित्यमीट् ।इट ईटी॑ति सलोपः । अपास्पर्धीति । अपास्पर्द्धिष्टाम् । अपास्पर्धिषुः । लृङि - अपास्पर्धिष्यत् । जागाद्धीति । गाधृ प्रतिष्ठादौ । ईट्पक्षे तु जागाधीति । जाघात्सीतिएकाच॑ इति भष्भावः । धस्य चर्त्वम् । लोटि — जागाधीतु । जागाद्धु । जागाद्धाम् । जागाधतु । लङि — अजगाधीत् । अजाघात् । अजागाद्धाम् । अजागाधुः । लुङि — अजागाधीत् । अजागाधिष्टाम् । नाथ नाधृ याच्ञादौ । नानात्तीति । ईट्पक्षे — दादधीति । लुङिअतो हलादे॑रिति वा वृद्धिः । चोस्कुन्दीति । स्कुदि । आप्रवणे ।इदितः॑ इति नुम् । ईडभावेझरो झरि सवर्णे॑ इति वा लोपः । लङि — ईट्पक्षे — अचोस्कुन्दीत् । लुङि तुअस्तिसिचः॑ इति नित्यमिट् । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम् । मोमुदीतीति । मुद हर्षे ।नाभ्यस्तस्याऽची॑ति लघूपधगुणनिषेधः । मोमोदितेति । न चाऽत्रन धातुलोप॑ इति गुणनिषेधः शङ्क्यः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात् । लुङि गुण इति । सिज्निमित्तकोऽयं गुणस्तेननाभ्यस्तस्याची॑ति निषेधो न शङ्कनीय इति भावः । चोकूर्तीति । कुर्द खुर्द गुर्द गुद क्रीडायाम् । लङि तिपि ईट्पक्षे अचोकूर्दीत् । अचोखूर्दीत् । अचोगूर्दीत् । पक्षे अचोकूरिति ।दश्चे॑ति रुत्वपक्षे इत्यर्थः । वनीवञ्चीतीति । वञ्च गतौ ।नित्यं कौटिल्ये गतौ॑ इति यङ् ।नीग्वञ्चु॑ इत्यभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । वनीवक्त इति । तसो ङित्त्वदिह स्यादेवअनिदिता॑मिति नलोपः । लोटि — वनीवञ्चीतु । वनीवङ्क्तु । वनीवक्तात् । वनीवक्ताम् । वनीवचतु । वनीवग्धि । वनीवञ्चानि । जह्गमीतीति ।नुगतोऽनुनासिकान्तस्ये॑ति नुक् । जङ्ग्मतीति ।गमहने॑त्युपधालोपः । अजङ्गन्निति । ईट्पक्षे त्वजङ्गमीत् । अजङ्गताम् । अजङ्ग्मुः । अजङ्गमीः । अजङ्गतम् । अजङ्गत । अजङ्गमम् । अजङ्गन्व । अजङ्गम । सामन्यापेक्षेति । अयं भावः — एकाच इत्यत्रैकाज्ग्रहणाद्यङ्लुकि द्विर्वचनं न कुत्रापि प्राप्नोति, तथा चगुणो यङ्लुको॑ इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विनानिवेशमलभमानः सन्श्तिपा शपा॑ इति सर्वेषामपि निषेधानां क्वचिद्यङलुक्यप्रवृतिंत ज्ञापयतीति । तथा च प्रयुज्यते — राजा वृत्रं जङ्घनत् इत्यादि । द्वित्वं तु न भवतीति । वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्यहनो वध लिङि॑,लुङि च॑ इति वधादेशात्पुनर्द्वित्वं न भवतीत्यर्थः । तत्र हेतुमाह — स्थानिवत्त्वेनेति । आङ्पूर्वादिति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । चञ्चूर्तीति । चरतिर्गतौ भक्षणे च ।चरफलोश्च॑ इत्यभ्यासस्य नुक् ।उतपरस्याऽतः॑ इत्युत्वम् ।हलि च॑ इति दीर्घः । अचञ्चूरित्यत्र तु पदान्तविषयत्वात्र्वोरुपधायाः॑ इति दीर्घः । चङ्खनीतीति । खनु अवदारणे । चङ्खात इति । यत्तु केचिद्धातुग्रहणेन कृतं कार्यं यङ्लुकि वेतिजनसने॑त्यात्वाऽभावेअनुनासिकस्य क्विझलोः॑ इति दीर्घोऽपि न भवति । क्विप्साहर्याद्धि झलादिः कृदेव तत्र गृह्रते न तु तिङित्यभ्युपेत्य चङ्खन्त इति रूपमाहुः, तदयुक्तम् । धातुग्रहणेन कृतस्य यङ्लुक्यप्रवृत्तौ मानाऽभावात् । सत्यपि प्रमाणे आत्वं वेति विकल्पोत्तया चङ्खात इति रूपं केन वार्यताम् । यच्चोक्तम्अनुनासिकस्य॑ इति सूत्रे क्विप्साहचर्याद्धि झलादिरपि कृदेव गृह्रत इति, तदप्युक्तमेव । यदि हि कृदेव क्विप्स्यात्तदा साहचर्योक्तिः सङ्गच्छेत । किं तु कृद्भिन्नोऽप्यस्त्येवाचारक्विप् । अतएव राजानति चर्माणतीत्यादौ माधवादिभिः क्विनिमित्तो दीर्घ उक्तः । चङ्खाहीति । हेरपित्त्वेन ङित्वात्जनसने॑ त्यात्वम् । अचङ्खानीदिति ।अतो हलादेः॑ इति वा वृद्धिः । जाहेतीत्यादि । हाङ्हाकोस्तुल्यानि र#ऊपाणि, ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः ।भृञामित् इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च । नच अकितैति निषेधेन हाकोऽभ्यासस्य दीर्घो दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्क्यम्, अकित इत्यत्र हि न विद्यते किद्य्सयाभ्यासस्येति बहुव्रीहिराश्रीयते, तेनद्विः प्रयोगो द्विर्वचनं षाष्ठम् इत्यस्याऽभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनीवञ्चीतीत्यादाविव कित्त्वाऽभावान्न दोषः । किंच द्वित्वाऽभावे केवलस्यार्थवत्त्वेऽपि द्वित्वे सति समुदाय एवार्थवानिति हि सर्वसंमतम् । तथा कित्त्वमपि समुदायस्यैवास्तु न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः । जाहीयादिति ।ई हल्यघोः॑ इतीत्वम् । लुका लुप्त इति । सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वात् । अकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्क्यमेवेति भावः । उत्वं नेति । फलितार्थकथनमिदम् ।स्वपिस्यमि॑ इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः । असास्वापीदिति ।अतो हलादेः॑ — इति विकल्पेन वृद्धिः ।
Padamanjari¶
लालपीतीत्यादि । लपिवदिरौतिभ्यो यङ्लुक्, द्विर्वचनम् । रौतेरभ्यासस्य गुणः । इतरयोर्दीर्घत्वम् । ववर्तीति । वृते रूपम्, रुग्रिकौ च लुकिऽ इत्यभ्यासस्य रुक् । किं पुनः कारणं यङ्लुगन्तमेवोदाहृतम्, न पुनर्यङ्न्तम् ? तत्राह - हलादेरिति । यङ्न्ते हि शपा भवितव्यम्, स च हलादिर्न भवति ॥
Nyaas¶
लालपीति इत्यादि। लपिवदिरौतिभ्यो यङ्; पूर्वयोः दीर्घोऽकितः (7.4.83) इत्यभ्यासस्य दीर्घः, रौतेस्तु गुणो यङ्लुकोः (7.4.82) इति गुणः, यङोऽचि च (2.4.74) इति यङो लुक्। वर्वर्त्ति, चर्कत्ति इति। वृञ्कृञोर्यङ्लुकि ऋतश्च (7.2.92) इत्यभ्यासस्य रुगागमः। किं पुनः कारणं यङ्लुक्येवोदाह्यियते, न यङन्ते? इत्याह - हलादेः इत्यादि। यङन्ते हि ङित्त्वादात्मनेपदम्, न चात्मनेपदं हलादि पिदस्ति। हलादेः पितः परस्य सार्वधातुकस्याभावान्नेह यङन्तस्योदाहरणम्, किं तर्हि? यङ्लुगन्तस्य। तत्र हि हलादि पित्? सार्वधातुकं सम्भवति, यङ्लुगन्तस्यादादौ चर्करीतञ्च परस्मैभावम् इति पाठे सति परस्मैपदित्वात्, तेन यङ्लृक्येवोदाह्यियते। चर्करीतमिति यङ्लुगन्तसय पूर्वाचारयसंज्ञा॥
Prakriyasarvasvam¶
यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड् वा स्यात् । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्’ (परि०) इति न्यायात् । ‘भूसुवोस्तिङि’ (७-३-८८) इत्यगुणे प्राप्ते ‘बोभूतुतेतिक्त—’ (७-४-६५) इति छन्दस्यगुणनिपातनाल्लोके यङ्लुकि गुणो ज्ञाप्यते । बोभवीति, बोभोति । ङित्त्वादगुणः । बोभूतः । ‘अदभ्यस्तात्’ (७-१-४) । उवङ् । बोभुवति । बोभवीषि, बोभोषि । बोभूथः । बोभूथ । बोभवीमि, बोभोमि । बोभूवः । बोभूमः । लिङि-बोभूयात् । बोभूयाताम् । बोभूयुः । लोटि-बोभवीतु, बोभोतु, बोभूतात् । बोभूहि, बोभूतात् । बोभूतम् । बोभवानि । बोभवाव । लङि-अबोभवीत्, अबोभोत । अबोभूताम् । ‘सिजभ्यस्त-’ (३-४-१०९) इति जुस् । ‘जुसि च’ (७-३-८३) इति गुणः । अबोभवुः । अबोभवीः, अबोभोः । अबोभूतम् । अबोभवम् । अबोभूव । लुङि-प्रकृतिग्रहण- न्यायात् ‘गातिस्थाः-‘(२-४-७७) इति सिज्लुक् । ‘भूसुवोस्तिङि’(७-३-८८) इत्यगुणः४ । ‘यङो वा’ (७-३-९४) इतीट्पक्षे ‘भुवो वुग्-’ (६-४-८८) इति अजाद्युक्तौ वुक् । अबोभूवीत्, अबोभूत्५ । अबोभूताम् । अभ्यस्तविदिभ्यां लङ्येव जुसिष्यते । इति लुङि न जुस् । भुवो वुक् । अबोभूवन् । अबोभूवीः, अबोभूः । अबोभूतम् । अबोभूवम् । अबोभूव । लिटि—अनेकाच्त्वाद्दाम् । बोभवा- पापचीति, पापक्ति । पापक्तः । पापचति । पापचीषि, पापक्षि । पापक्थः । पापचीमि, पापच्मि । पापच्वः । पापच्यात् । पापच्याताम् । पापचीतु, पापक्तु, पापक्तात् । पापग्धि । पापचानि । पापचाव । लङि-ईटि अपापचीत् । तदभावे हल्ङ्यादिलोपः । अपापक् । अपापक्ताम् । अपापचुः । अपापचम् । लुङि-अपापचीत् । अपापचिष्टाम् । पापचाञ्चकार । पापच्यात् । पापाचिता१ । पापचिष्यति । केचिदिति कौमुदी । तेन वुगभावाद् वृध्युवङौ । बोभाव । बोभूवतुः । बोभुवुः । बोभूयास्ताम् । बोभविता । बोभविष्यति । अबोभविष्यत् । यङ्लुकि तङ्वता- ‘नाभ्यस्तस्याचि—’ (७–३–८७) इति न गुणः । चञ्चूरीति । ‘उत्परस्यापि’ (७–४–८८) इति तपरत्वस्य गुणाभावार्थत्वान्न गुणः । तस्य गुणबाधनै- कृतार्थत्वाद् ‘हलि च’ (८–२–७७) इति दीर्घः१ । चञ्चूर्ति । चञ्चूर्तः । चञ्चूरति । जञ्जनीति, जञ्जन्ति । प्रकृतिग्रहणन्यायाद् ‘जनसनखनाम्—’ (६–४–४२) इति झल्यात्त्वम् । जञ्जातः । कौमुद्यां तद्विकल्पादात्त्वाभावे ‘अनुनासिकस्य—’ (६-४-१४) इति दीर्घः । जञ्जान्तः । उपधालोपे जंज्ञति । विकल्पे-जञ्जन्ति । एवं—चङ्खनीति, चङ्खन्ति । चङ्खातः, चङ्खान्तः । चङ्खनति, चङ्खनन्ति । <karika>सनेस्तूपधालोपो नेति भेदः । ऊङ्भाविनां तु वान्तानां यङ्लुङ्नास्तीति माधवः । कौमुदीधर्मकीर्त्यादिकीतितत्वात्तु कीर्त्यते ॥ ७९१ ॥</karika> देदिवीति । व्योपो व्योर्वलि (६–१–६६) । देदेति । झलि वकारे च यङ्लुकि च्छ्वोः शूठौ वेति कौमुदी । ऊठि-देदूतः । अन्यत्र‘लोपो व्योर्वलि-’ (६-१-६६) । देदितः । देदिवति । देदिवी२षि देदेषि । देद्यूथः, देदिथः । देद्यूथ, देदिथ । देदिवीमि । मिपि अनुनासिकपरत्वादूठ् । पित्त्वाद् गुणः । देद्योमि । ऊड्विकल्पात्—देद्युवः, देदिवः । मिब्वदूठ् । देद्युमः । विच्छेर्यङ्लुक् । वेविच्छीति ‘छ्शां षः’ (८–२–३६) । वेवेष्टि । पिति झल्सु ‘च्छ्वोः शूड्-’ (६-४-१९) इति शत्वे छ्शां षत्वेऽपि न भेद इति च्छ्वोश्शूड्विकल्पफलं वसि ज्ञेयम् । वेविष्टः । वेविच्छति । वेविच्छीषि, वेवेक्षि, वेविष्ठः । वेविष्ठ । वेविच्छीमि, वेवेश्मि । विकल्पाद् । वेविश्च, वेविच्छ्वः, वेविश्मः । योयवीति । ‘नाभ्यस्तस्य-’ (७-३-८७) इत्यनुवृत्तेः ‘उतो वृद्धिर्लुकि’ (७–३–८९) न । योयोति । योयुतः । योयुवति । ऊर्णोनुंशब्दस्यैव द्वित्वेनाङ्गस्यानभ्यस्तत्वाद् ‘उतो वृद्धिः स्यात्— ‘अदभ्यस्तात्’ (७–१–४) इति च न स्यात् । ऊर्णोनवीति ऊर्णोनौति । ऊर्णोनुतः । ऊर्णोनुवन्ति । अत्राद्भावोऽस्तीति केचित् । ऊर्णोनुवति । ईटि ‘आद्गुणः’ (६–१–८७) । जाहेति, जाहाति । ‘ई हल्यघोः’ (६–४–११३) इतीत्वम् । जाहीतः । ‘श्नाभ्यस्तयोः—’ (६–४–११२) इत्याल्लोपः । जाहति । ३शित्पा निर्देशे प्रकृतिग्रहणन्यायाभावात् ‘घुमास्थागा’ (६-४-६६) इत्यादिकं ‘जहातेश्च’ (६-४-११६) इत्याद्युक्तमित्त्वादिकं च न । ओहाक् त्याग इति धातुकित्त्वस्याभ्यासेऽपि भावाद् ‘दीर्घोऽकितः’ (७—४—८३) इति दीर्घोऽस्य नेति केचिदिति कौमुदी । तत्र–जहेति, जहाति । जहीतः, जहति । एवम् –दादेति, दादाति । दातीतः । ‘जपजभदहदश—’ (७–४–८६) इति नलोपग्रहणाद् यङ्लुकि नलोपः । दन्दशीति, दन्दष्टि । दन्दष्टः । दन्दशति । नलोपो वेति कौमुदौ, दन्दंशीति । कश गतौ इत्यस्य दीप्त्यर्थवृत्त्या चाकशीति । काशेस्तु-चाकाशीति । यङ्लुगन्तं ‘स्वपिस्यमि-’ (६-१-१९) इत्युत्वं ‘न लुमताङ्गस्य’ (१-१-६३) इति निषेधान्नात्र नेति माधवः । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । अस्य निषेधस्यानित्यत्वात् स्यादिति कौमुदी । सोषुपतीति, सोषोप्ति । सोषुप्तः । सोषुपति । ‘चायः की’ (६-१-२१) इति की । चेकयीति, चेकेति । दीर्धोक्तेरिह फलत् । चेकीतः ।
Sudha¶
यङो वेति । उतो वृद्धिर्लुकि हलि (7.3.89) इत्यतो हलीति, नाभ्यस्तस्याचि (7.3.87) इत्यतः पिति सार्वधातुके इति, ब्रुव ईट् (7.3.93) इत्यत ईडिति चानुवर्तते । तदाह — यङ्लुगन्तादित्यादिना । भूसुवोस्तिङि (7.3.88) इति गुणनिषेधमाशङ्क्य आह - भूसुवोरिति । निपातनादिति ।</w> कृषेश्छन्दसि (7.4.64) इत्यतः छन्दसीत्यनुवृत्तौ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते… (7.4.65) इत्यादिसूत्रे भूधातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । भूसुवोस्तिङि (7.3.88) इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनं नियमार्थम् — यङ्लुकि छन्दस्येवायं भूसुवोः (7.3.88) इति गुणनिषेधो, नान्यत्र इति । अतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । “बोभवीति” । भूधातोर्यङि, यङोऽचि च (2.4.74) इति द्वित्वापेक्षया आदौ यङो लुकि, ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वे, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे, जश्त्वे, सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटस्तिपि, कर्तरि शप् (3.1.68) इति शपि, <=चर्करीतं च=> इति यङ्लुगन्तस्य अदादौ पाठाददादित्वात् अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि, “बो भू ति” इति स्थिते यङो वा (7.3.94) इति पाक्षिक ईडागमे, दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते… (7.4.65) इति छन्दसि निपातनात् भूसुवोस्तिङि (7.3.88) इति गुणनिषेधस्य यङ्लुकि भाषायामप्रवृत्या गुणेऽवादेशे च “बोभवीति” इति रूपम् । इडभावे “बोभोति” इति रूपम् । “बोभूतः” । भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङ्लुकि, प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति प्रत्ययलक्षणत्वे सन्यङोः (6.1.9) इति धातोर्द्वित्वे अभ्याससंज्ञायां ह्रस्वः (7.4.59) इति अभ्यासस्याचो ह्र्स्वत्वे अभ्यासे चर्च (8.4.54) इति अभ्यासभकारस्य बत्वे गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्याचो गुणे, “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटि, लटः स्थाने प्रथमपुरुषद्विवचने तसि, कर्तरि शप् (3.1.68) इति शपि, यङ्लुगन्तस्य अदादौ पाठात् अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि, तसः सस्य रुत्वे विसर्गे च “बोभूतः” इति रूपम् । “बोभवीति” । भूधातोः धातोरेकाचो… (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् सन्यङोः (6.1.9) इति द्वित्वे, अभ्याससंज्ञायां हलादिः शेषः (7.4.60) इति आदिहलः शेषे, ह्रस्वः (7.4.59) इति हस्वे अभ्यासे चर्च (8.4.54) इति अभ्यासभकारस्य बत्वे, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभू” इति जाते, प्रत्ययलक्षणेन यङन्तत्वात् सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटि, तत्स्थाने प्रथमपुरुषबहुवचने झौ, कर्तरि शप् (3.1.68) इति शपि अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि, उभे अभ्यस्तम् (6.1.5) इति अभ्यस्तत्वात् अदभ्यस्तात् (7.1.4) इति झेः स्थाने अदादेशे “बोभू अ ति” इति जाते अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इति उवङि, मिलित्वा “बोभुवति” इति रूपम् । अग्रे “बोभवीषि”-“बोभोषि”, “बोभूथः”, “बोभूथ” । “बोभवीमि”-“बोभोमि”, “बोभूवः”, “बोभूमः” इति रूपाणि । साधनिका पूर्ववत् । “बोभवाञ्चकार” । भूधातुतो धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लोपे प्रत्ययलक्षणेन यङन्तत्वात् सन्यङोः (6.1.9) इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्याचो गुणे, “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् परोक्षे लिट् (3.2.115) इति लिटि, कास्यनेकाच आम्वक्तव्यः (वार्त्तिकम्, (3.1.35) इति आमि, तस्य आर्धधातुकं शेषः (3.4.114) इति आर्धधातुकत्वे सार्वधातुकार्धधातुकयोः (7.3.84) इति “बोभू” इत्यस्य गुणे अवादेशे च कृते, आमः (2.4.81) इति लिटो लुकि, कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति लिट्परकस्य कृञोऽनुप्रयोगे “बोभवाम् कृ लिट्” इति स्थिते लिटः स्थाने तिपि, तिपः स्थाने परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति णलि, अनुबन्धलोपे, लिटि धातोरनभ्यासस्य (6.1.8) इति कृ-इत्यस्य द्वित्वे अभ्यासत्वे उरत् (7.4.66) इति उः स्थानेऽत्वे रपरत्वे हलादिः शेषः (7.4.60) इति आदिहलः शेषे कुहोश्चुः (7.4.62) इति अभ्यासकस्य चत्वे “बोभवाम् चकृ अ” इति जाते, अचो ञ्णिति (7.2.115) इति कृ-इत्यस्य वृद्धौ रपरे मस्य अनुस्वारे परसवर्णे च कृते “बोभवाञ्चकार” इति । अग्रे - “बोभवाञ्चक्रतुः”, “बोभवाञ्चकृः” । “बोभवाञ्चकर्थ”, “बोभवाचक्रथुः” “बोभवाञ्चक्र” । “बोभवाञ्चकार”-“बोभवाञ्चकर”, “बोभवाञ्चकृव” “बोभवाञ्चकृम” । इति । साधनिका बोभवाञ्चकारवत् ज्ञेया । “बोभवामास” । “बोभू” इति यङ्लुगन्तं प्रसाध्य ततो लिटि, आमि, लिटो लुकि लिट्परेऽसि प्रयुक्ते उक्तरूपस्य सिद्धिः । “बोभविता” । भृधातोर्यङि, यङो लुकि, द्वित्वे अभ्यासत्वे, अभ्यासकार्ये च कृते, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभू” इति जाते, सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां लुटि, तत्स्थाने तिपि, तिपो डात्वे, तासि, तासः आर्धधातुकत्वाद् इडागमे, गुणेऽवादेशे च “बोभविता” इति रूपम् । “बोभवितारौ”, “बोभवितारः”। “बोभवितासि”, “बोभवितास्थः”, “बोभवितास्थ” । “बोभवितास्मि”, “बोभवितास्वः”, “बोभवितास्मः” इति । “बोभविष्यति” । “बोभू” इति पूर्ववत् यङ्लुगन्तं प्रसाध्य धातुसंज्ञायां लृटि, लः स्थाने प्रथमपुरुषैकवचने तिपि, स्यतासी लृलुटोः (3.1.33) इति स्ये, आर्धधातुकं शेषः (3.4.114) इत्यार्धधातुकसंज्ञायाम् आर्धधातुकस्येड्वलादेः (7.2.35) इति इडागमे सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे, एचोऽयवायावः (6.1.78) इत्यवादेशे आदेशप्रत्यययोः (8.3.59) इति षत्वे “बोभविष्यति” इति । “बोभविष्यतः”, “बोभविष्यन्ति “ । “बोभविष्यसि”, “बोभविष्यथः”, “बोभविष्यथ” । “बोभविष्यामि”, “बोभविष्यावः”, “बोभविष्यामः” इति । “बोभवीतु” । भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् सन्यङोः (6.1.9) इति द्वित्वे अभ्याससंज्ञायाम् अभ्यासकार्य च कृते, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां लोटः प्रथमपुरुषेकवचने तिपि, शपि, यङ्लुगन्तस्य अदादौ पाठात् अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि, यङो वा (7.3.94) इति तिपः ईडागमे गुणे अवादेशे च कृते, एरुः (3.4.86) इति तिप इकारस्योत्वे च कृते “बोभवीतु” इति रूपम् । ईडभावे सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे “बोभोतु” इति रूपम् । तातङि — “बोभुतात्” । “बोभूताम्” । भूधातोः यङ्लुगन्तं प्रसाध्य लोटि, तसि, तसः स्थाने तस्थस्थमिपां तांतंतामः (3.4.101) इति तामादेशे च कृते शेषं पूर्ववत् । “बोभुवतु” । यङ्लुगन्तं पूर्ववत्प्रसाध्य लोटः स्थाने झौ कृते अदभ्यस्तात् (7.1.4) इति झेरदादेशे एरुः (3.4.86) इति उत्वे अचि श्नुधातु… (6.4.77) इति उवङि च कृते “बोभुवतु” इति रूपम् । “बोभूहि” । भूधातोर्यङि, यङ्लुकि, द्वित्वेऽभ्यासत्वे, अभ्यासकार्ये च कृते, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्याचो गुणे “बाभू” इति जाते प्रत्ययलक्षणेन यङन्तत्वात् सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां लोट् च**(3.3.162) इति लोटि, लोटस्सिपि, शपि, **अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि सेर्ह्यपिच्च (3.4.87) इति सेर्हौ कृते “बोभूहि” इति रूपम् । एवं “बोभृतात्”, “बोभूतम्”, “बोभूत” । “बोभवानि” । लोट उत्तमपुरुषैकवचने मिपि समागते - “बोभूमि” इति भूते मेर्निः (3.4.89) इति मेर्नित्वे आडुत्तमस्य पिच्च (3.4.92) इति आटि, सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे, एचोऽयवायावः (6.1.78) इत्यावादेशे “बोभवानि” इति रूपम् । “बोभवाव”, “बोभवाम” इत्यत्राप्येवं बोध्यम् । “अबोभवीत्” । भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लुकि, सन्यङोः (6.1.9) इति द्वित्वे अभ्यासत्वे, हलादिः शेषः (7.4.60) इत्यादि हलःशेषे ह्रस्वः (7.4.59) इत्यभ्यासस्य ह्रस्वत्वे, अभ्यासे चर्च (8.4.54) इति भस्य बत्वे, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्याचो गुणे “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वे अनद्यतने लङ् (3.2.111) इति लङि, लङस्तिपि, शपि अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकि, यङो वा (7.3.94) इति वेटि, सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे, एचोऽयवायावः (6.1.78) इति अवादेशे इतश्च (3.4.100) इति तिप इकारस्य लोपे, अङ्गस्याडागमे च कृते “अबोभवीत्” इति सिद्धम् । इडागमाभावे “अबोभोत्” इति । “अबोभूताम्” । “बोभू” इति यङ्लगन्तात् लङस्तसि, तसस्ताम्, शपो लुकि अटि च “अबोभूताम्” इति । “अबोभवुः” । “बोभू” इति यङ्लुगन्तात् लङः प्रथमपुरुषबहुवचने झौ, शपि, शपो लुकि, सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुसि, अटि, जुसि च (7.3.83) इति भकारोत्तरवर्त्युकारस्य गुणे अवादेशे रुत्वे विसर्गे च “अबोभवुः” इति रूपम् । लङः मध्यमपुरुषे “अबाभवीः”-“अबोभोः”, “अबोभुतम्” “अबोभूत” । लङ उत्तमपुरुषे “अबोभवम्”, “अबोभूव”, “अबोभूम” । “बोभूयात्” । भूधातोर्यङि, यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् सन्यङोः (6.1.9) इति द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये च कृते भस्य बत्वे गुणो यङ्लुकोः (7.4.82) इत्यभ्यासस्य गुणे “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (3.3.161) इति लिङि, तत्स्थाने तिपि, शपि, शपो लुकि, यासुटि, उटि गते लिङः सलोपोऽनन्त्यस्य (7.2.79) इति सलोपे, इतश्च (3.4.100) इति तिप इकारस्य लोपे, “बोभूयात्” इति रूपम् । “बोभूयाताम्” । यङ्लुगन्तं “बोभू” इति प्रसाध्य धातुसंज्ञायां विधौ लिङि, लिङस्तसि, तसस्तामि, शपि, शपो लुकि, यासुटि, उटि गते, स् लोपे च तत्सिद्धिः । “बोभूयुः”। “बोभू” इति यङ्लुगन्तम्प्रसाध्य सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् विधौ लिङि तत्स्थाने झौ, झेर्जुस् (3.4.108) इति झेः स्थाने जुसि, जस्येत्संज्ञायां लोपे च, शपि शपो लुकि, यासुटि, उटि गते, लिङः सलोपोऽनन्त्यस्य (7.2.79) इति स् लोपे, “बोभू या उस्” इति जाते, उस्यपदान्तात् (6.1.96) इति पररूपत्वे, सस्य रुत्वे, रेफस्य विसर्गत्वे च “बोभूयुः” इति रूपम् । मध्यमपुरुषे “बोभूयाः”, “बोभूयातम्”, “बोभूयात” । उत्तमपुरुषे “बोभूयाम्”, “बोभूयाव”, “बोभूयाम” इति । “बोभूयात्” । भूधातोः धातोरेकाचोहलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लुकि, स्थानिवद्भावेन यङन्तत्वमानीय सन्यङोः (6.1.9) इति द्वित्वे, अभ्यासत्वे अभ्यासकार्ये भस्य बत्वे गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभू” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुत्वात् आशिषि लिङ्लोटौ (3.3.173) इति आशिषि लिङि, लिङः स्थाने तिपि, अनुबन्धलोपे लिङाशिषि (3.4.116) इति तिप आर्धधातुकत्वे, तेन शबभावे, किदाशिषि (3.4.104) इति यासुटि, उटि गते इतश्च (3.4.100) इति तिप इकारस्य लोपे “बोभूयास्त्” इति भूते स्कोः संयोगाद्योरन्ते च (8.2.29) इति स् लोपे “बोभूयात्” इति रूपम् । “बोभूयास्ताम्” । “बोभू” इति यङ्लुगन्तम्प्रसाध्य आशिषि लिङि, तत्स्थाने तसि, तसस्तामि यासुटि, उटि गते, “बोभूयास्ताम्” इति रूपम् । “बोभूयासुः” । “बोभू” इति यङ्लुगन्तम्प्रसाध्य आशिषि लिङो झौ, झेर्जुस् (3.4.108) इति जुसि, अनुबन्धलोपे, यासुटि, उटि गते, संयोगे सस्य रुत्वे रेफस्य विसर्गे च “बोभूयासुः” इति रूपम् । मध्यमपुरुषे “बोभूयाः”, “बोभूयास्तम्”, “बोभूयास्त” । “बोभूयासम्”, “बोभूयास्व”, “बोभूयास्म” इति रूपाणि । “अबोभूवीत्” । भूधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, यङोऽचि च (2.4.74) इति यङो लुकि, प्रत्ययलक्षणेन यङन्तत्वात् सन्यङोः (6.1.9) इति द्वित्वे अभ्याससंज्ञायाम् हलादिः शेषः (7.4.60) इत्यादिहलः शिष्टे, ह्रस्वः (7.4.59) इत्यभ्यासस्याचो ह्रस्वे अभ्यासे चर्च (8.4.54) इति अभ्यासभकारस्य बत्वे, गुणो यङ्लुकोः (7.4.82) इति अभ्यासस्य गुणे “बोभू” इति जाते, सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायाम् लुङ् (3.2.110) इति लुङि, लुङः स्थाने प्रथमपुरुषैकवचनविवक्षायां तिपि, अनुबन्धलोपे, च्लि लुङि (3.1.43) इति च्लौ, च्लेः सिच् (3.1.44) इति सिचि, इचि गते, “बोभू स् ति” इति भूते, इतश्च (3.4.100) इति तिपः इकारस्य लोपे, तिङ्शित्सार्वधातुकम् (3.4.113) इति तिपस्तकारस्य सार्वधातुकसंज्ञायाम् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इति सिचः सो लोपे, यङो वा (7.3.94) इति तिपस्तकारस्य ईडागमे, सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे प्राप्ते नित्यत्वात् तम्बाधित्वा भुवो वुग्लुङ्लिटोः (6.4.88) इति वुगागमे “बोभूवीत्” इति जाते लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इत्यङ्गस्य अडागमे “अबोभूवीत्” इति रूपम् । “अबोभोत्” । यङो वा (7.3.94) इति ईडागमाभावपक्षे लुङ्सम्बन्ध्यच्परत्वाभावेन वुगभावे सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणे “अबोभोत्” इति रूपम् । “अबोभूताम्” । “बोभू” इति यङ्लुगन्तप्रसाध्य धातुसंज्ञायां लुङस्तसि, तसस्तामि, च्लौ, च्लेः सिचि, गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इति सिचो लोपे, अटि च कृते तत्सिद्धिः। “अबोभूवुः” । “बोभू” इति यङलुगन्ताद्धातोर्लुङो झौ, सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुसि, अनुबन्धलोपे, भुवो वुग्लुङ्लिटोः (6.4.88) इति वुगागमे, अनुबन्धलोपे कित्त्वादन्त्यावयवे जाते, अडागमे च कृते सस्य रुत्वे विसर्गे च तत्सिद्धिः । मध्यमपुरुषे “अबोभृवीः”-“अबोभोः”, “अबोभूतम्”, “अबोभूत” । “अबोभूवम्”, “अबोभूव”, “अबोभूम” इति रूपाणि । “अबोभविष्यत्” । “बोभू” इति पूर्ववत्प्रसाध्य लृङस्तिपि, स्ये इटि गुणे अवादेशे, स्यस्य षत्वे तिप इकारस्य लोपे, अङ्गस्याढागमे च तत्सिद्धिः । “अबोभविष्यत्”, “अबोभविष्यताम्”, “अबोभविष्यन्” । “अबोभविष्यः”, “अबोभविष्यतम्”, “अबोभविष्यत” । “अबोभविष्यम्”, “अबोभविष्याव”, “अबोभविष्याम” इति रूपाणि । इति यङ्लगन्तप्रक्रिया ॥