73095: तुरुस्तुशम्यमः सार्वधातुके ================================= **Padacheda:** तुरुस्तुशम्यमः | S | 5 | 1 | सार्वधातुके | S | 7 | 1 | Sutrartha --------- **तु, रु, स्तु, शम्, अम् - एतेभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति ।** तु, रु, स्तु, शम्, अम् - एते पञ्च धातवः सन्ति । एतेभ्यः विहितस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन 'ईट्' इति कश्चन आगमः भवति । ('ईट्' इति 'इट्' इत्यस्मात् भिन्नः, अयम् इडागमस्य विषयः न - इति स्मर्तव्यम् ।) । किम् नाम सार्वधातुकप्रत्ययः ? **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । एतयोः केवलम् 'तिङ्'-प्रत्ययस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, शित्-प्रत्ययस्य विषये न । किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । सामान्यतः टित्- आगमः **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् **उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्** इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अस्मिन् सूत्रे 'सार्वधातुके' इति सप्तम्यन्तं पदं विद्यते, अतः अयं ईट्-आगमः सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । 'हलि' इति 'सार्वधातुके' इत्यस्य विशेषणमस्ति । **यस्मिन् विधिः तदादौ अल्ग्रहणे** अनेन वार्तिकेन 'हलि सार्वधातुके' इत्यस्य अर्थः 'हलादि सार्वधातुके' इति भवति । अस्मिन् सूत्रे प्रोक्ताः पञ्च धातवः एतादृशाः - तु गतिवृद्धिहिंसासु, रु शब्दे, ष्टुञ् स्तुतौ, शमुँ उपशमे, अमँ गत्यादिषु । एतेषु 'तु' अयं धातुः सौत्रः अस्ति - इत्युक्ते अस्य उल्लेखः धातुपाठे न विद्यते, केवलं सूत्रेषु एव दृश्यते । रु / ष्टुञ् - एतौ अदादिगणस्य धातू स्तः, शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति । एतेभ्यः धातुभ्यः परस्य हलादि-सार्वधातुक-तिङ्-प्रत्ययस्य विकल्पेन ईट्-आगमः भवति । प्रत्येकम् धातोः प्रक्रियाम् क्रमेण पश्यामः - 1) 'तु वृद्धिहिंसयोः' अयम् सौत्रः धातुः अस्ति । अयम् धातुः 'लुग्विकरणः अस्ति' इति अपि उच्यते । इत्युक्ते, अस्मात् परस्य विकरणप्रत्ययस्य लुक्-भवति । एवं स्थिते 'तु + तिप्' इत्यत्र अनेन सूत्रेण विकल्पेन ईडागमे कृते, अग्रे ईडादेशस्य पक्षे **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणादेशे, **एचोऽयवायावः** (6.1.78) इति अवादेशे कृते 'तवीति' इति रूपं सिद्ध्यति । ईडादेशाभावे **उतो वृद्धिर्लुकि हलि** (7.3.89) इत्यनेन अङ्गस्य वृद्धिं कृत्वा 'तौति' इति रूपम् सिद्ध्यति । 2) 'रु शब्दे' अयमदादिगणस्य धातुः । अस्मात् परस्य शप्-प्रत्ययस्य **अदिप्रभृतिभ्यः शपः** (2.4.72) इत्यनेन लोपः भवति । अग्रे तु-धातुवदेव उपरिनिर्दिष्टां प्रक्रियां कृत्वा रवीति / रौति एते रूपे सिद्ध्यतः । 3) ष्टुञ् स्तुतौ अयमपि अदादिगणस्य धातुः । अत्र आरम्भे **धात्वादेः षः सः** (6.1.64) इत्यनेन षकारस्य सकारः, तथा ष्टुत्वनिवृत्त्या टकारस्य तकारे कृते 'स्तु' इति धातुः सिद्ध्यति । अस्यापि प्रक्रिया तु-धातुवदेव भवति, अतः 'स्तवीति / स्तौति' एते द्वे रूपे सिद्ध्यतः । ज्ञातव्यम् - एतेषु त्रिषु धातुषु ईडागमस्य अभावे केवलं पित्-सार्वधातुके प्रत्यये परे एव **उतो वृद्धिर्लुकि हलि** (7.3.89) इति अङ्गस्य वृद्धिः भवति । अतः तस्-थस्-आदिषु हलादि-अपित्-सार्वधातुक-प्रत्ययेषु परेषु अयं वृद्धिः न दृश्यते । यथा - स्तु-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपे - स्तुतः / स्तुवीतः एते भवतः । 4) शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अतः अयम् **दिवादिभ्यः श्यन्** (3.1.69) इति श्यन्-विकरणम् प्राप्नोति । यद्यपि श्यन्-इति हलादि-सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-प्रत्ययः नास्ति, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये **बहुलं छन्दसि** (2.4.73) इति श्यन्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण शम् + ध्वम् → शमीध्वम् एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु 'शाम्यध्वम्' इत्येव रूपम् करणीयम् ।) 5) अमँ गतौ अयम् भ्वादिगणस्य धातुः । अस्मात् परः **कर्तरि शप्** (3.1.68) इति शप्-गणविकरणम् विधीयते । यद्यपि शप्-इति सार्वधातुकप्रत्ययः अस्ति, तथापि अयं तिङ्-अपि नास्ति, हलादि-अपि नास्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । परन्तु छन्दसि विषये **बहुलं छन्दसि** (2.4.73) इति शप्-प्रत्ययस्य लोपः भवितुमर्हति । अनेन प्रकारेण अम् + तिप् → अमीति एतादृशम् छान्दसरूपम् साधयितुम् शक्यते । (लोके तु 'अमति' इत्येव रूपम् करणीयम् ।) Sutrartha (English) ------------------- A हलादि सार्वधातुक तिङ् प्रत्यय optionally gets an ईट् आगम when it is attached to the verbs तु, रु, स्तु, शम्, अम् Vasu English Summary -------------------- A सार्वधातुक affix beginning with a consonant, optionally get the augment इट् after the roots 1. तु 2. रु 3. स्तु 4. शम् and 5. अम्। Vasu English Translation ------------------------ A सार्वधातुक affix beginning with a consonant, optionally get the augment इट् after the roots 1. तु 2. रु 3. स्तु 4. शम् and 5. अम्। The root तु (*Adadi* 25) means 'to increase', रु (*Adadi* 24) 'to make a sound', स्तु (*Adadi* 34) 'to praise', शम् 'to be satisfied', and अम् 'to go'. According to *Kasika* तु is a *Sautra* *dhatu*. Thus उत्तौति or उत्तवीति, उपरौति or उपरवीति, उपस्तौति or उपस्तवीति, शाम्यध्वम् or शमीध्वम्, अभ्यमति or अभ्यमीति ॥ शम् and अम् can then be followed by a consonant beginning *sarvadhatuka* affix, when they lose their Present character (*vikarana*) as a Vedic anomaly (*bahulam* *chhandasi*). The *Apisalas* read the *sutra* as तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि ॥ This will then become a विधि rule for the Vedic forms. The word सार्वधातुका is here exhibited in the feminine. The repetition of '*sarvadhatuka*', though its *anuvritti* was present is for the sake of stopping the *anuvritti* of पित्, and this rule applies to अपित् affixes also, as सुवीत, शमाध्वम् ॥ Bhashya ------- तुरुस्तुशम्यमः सार्वधातुके सार्वधातुक इति वर्तमाने पुनः सार्वधातुकग्रहणं किमर्थम् ? ॥ ( सार्वधातुक(2) इति वर्त्तमाने ) पुनः सार्वधातुकग्रहणमपिदर्थमपिदर्थोऽयमारम्भः । अध्रिगो शमीध्वंसुशमिशमीध्वं शमीध्वमध्रिगो ॥ Kashika ------- तु इति सौत्रोऽयं धातुः, **रु शब्दे**,**ष्टुञ् स्तुतौ**,**शमु उपशमे**,**अम गत्यादिषु** इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति। उत्तौति, उत्तवीति। उपरौति, उपरवीति। उपस्तौति, उपस्तवीति। शाम्यध्वम्, शमी॒ध्व॑म् (मै०सं० ४.१३.४)। अभ्यमति, अभ्यमीति। शम्यमोः **बहुलं छन्दसि** (२.४.७३) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं संभवति। आपिशलाः **तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि** इति पठन्ति। तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति। सर्वधातुक इत्यनुवर्तमाने पुनः सार्वधतुकग्रहणमपिदर्थम् — स्तुवीत, शमीध्वमित्यत्रापि यथा स्याद् इति॥ Siddhanta Kaumudi ----------------- एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -(SK2403) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति ।{$ {!1035 णु!} स्तुतौ$} । नौति । नविता ।{$ {!1036 टुक्षु!} शब्दे$} । क्षौति क्षविता ।{$ {!1037 क्ष्णु!} तेजने$} । क्ष्णौति । क्ष्णविता ।{$ {!1038 ष्णु!} प्रस्रवणे$} । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् ।{$ {!1039 ऊर्णुञ्!} आच्छादने$} ॥ Balamanorama ------------ **तुरुस्तुशम्यमः सार्वधातुके** - तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात्पञ्चम्येकवचम् ।उतो वृद्धि॑रित्यतो हलीति,भूसुवो॑रित्यतस्तिङीति,ब्राउव ई॑डित्यत ईडिति,यङो वे॑त्यतो वेति चानुवर्तते । तदाह - एभ्य इत्यादिना । नाभ्यस्तस्येति ।नाभ्यस्तस्याऽचि पिति सार्वधातुके इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणं पितीत्यस्याऽनुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतिति । ईट्पक्षे हलादित्वाऽभावादुतो वृद्धिर्नेति भावः । रौतीति । ईडभावेउतो वृद्धि॑रिति भावः । रुवीतः रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाऽभावादीडभावे उवङिति भावः । शाम्यतीति । श्यनस्तिङ्त्वाऽभावादीण्नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावेअकृत्सार्वधातुकयो॑रिति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसङ्ग्रहः । रुयात् रुवीयादिति । हलादिसार्वधातुकत्वादीड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुकेउतो वृद्धि॑रिति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनाद्धातुत्वाऽभावात्कथं ततः सार्वधातुकस्य ईड्विधिरित्यत आह — तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति । अत्र व्याख्यानमेव शरमम् । ननु शपा व्यवदानादस्य सार्वधातुकपरत्वं कथमित्यत आह — अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिङ ईड्विधानमेवाऽत्र बीजम् । शम्यमोस्तुशमीध्वमभ्यमीती॑ति वेदे शपो लुकि बोध्यम् । अयमनिट् । हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह -तोतेति । णु स्तुताविति । णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नु धातवः सेट । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति । षोपदेशोऽयमिति भावः । ऊर्णुञ्धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्यं प्राप्तौ — Tattvabodhini ------------- **तुरुस्तुशम्यमः सार्वधातुके** - ॒तुरुस्तु ।तुः सौत्रो धातु॑रिति वक्ष्यति । अपिदर्थमिति ।एभ्यः परस्य पितः सार्वधातुकस्ये॑ति प्राचो व्याख्यानं प्रामादिकं , रुवीतः स्तुवीत इत्याद्यसिद्ध्यापत्तेरिति भावः । शम्यमोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति । शम्यमोश्छन्दसि विकरणस्य लुकि सति झलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशलास्तु — तुरुस्तुशम्यमः सार्वधातुके छन्दसी॑ति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव । Padamanjari ----------- तु इति सौत्रोऽयं धातुरिति । स च वृद्धौ वर्तते, गत्यर्थ इत्यन्ये, हिंसार्थ इत्यपरे । उतवीतिति ।'बहुलं च्छन्दसि' इति शपो लुक् । शमीध्वमिति । शमेरन्तर्भावितण्यर्थात्प्रैषे लोट्, व्यत्ययेनात्मनेपदम्, शप्, तस्य'बहुलं च्छन्दसि' इति लुक् । आपिशला इति । आपिशलेः शिष्याः । सावधातुकास्विति । टाबन्तम् । तत्र संज्ञात्वेन विनियुक्तं सार्वधातुकग्रहणमनर्थकम्,'नाभ्यस्तस्य' इत्यादेः सूत्रादनुवृतेः ? अत आह - सार्वधातुके इति वर्तमान इति । तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्, अतस्तदनुवृतौ तदप्यनुवर्तेत, तन्मानुवृतदित्येवमर्थं पुनः सार्वधातुकग्रहणमिति ।'हलि' इतियेतत्वनुवर्तत एव; न हि तत्सार्वधातुकग्रहणेन सम्बद्धम् ॥ Nyaas ----- `तु` इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे। अस्य च लुग्विकरणत्वं स्मर्यते, तच्च `बहुल छन्दसि` (2.4.73) इति बहुलग्रहणेन भाषायामपि लुकसम्पादनाल्लभ्यते। `शमीष्पम्` इति। लोट्। `अशमीध्वम्` इति। लङ्। `अभ्यमीति` इति। लोट्। `अशमीध्वम्` इति। लङ्। `अभ्यमीति` इति। `अम गत्यादिषु` (धातुपाठः-465) लट्, तिप्। कथं पुनः शम्यमिभ्यामनन्तरं हलादि सार्वधातुकं सम्भवति, यावता शमेव्र्यवधायकेनैव श्याना भवितव्यम्। अमेरपि शप्? क्रियते? इत्याह - `शध्यमोः` इत्यादि। विकरणस्यात्र लुक्? **बहुलं छन्दसि** (7.4.78) इत्यमेन। `सार्वधातुकासु` इति। स्त्रीलिङ्गनिर्देशा। स्त्रीलिङ्गस्य सार्वधातुकाशब्दस्यापिशलिना संज्ञात्येन प्रचीतत्वात्। अथ सार्वधातुकग्रहणं किमर्थम्, यावता **नाभ्यस्तस्याचि पिति सार्वधातुके** (7.3.87) इत्यतः सूत्रात्? सार्वधातुकग्रहणमनुवर्तते? इत्याह - `सार्वधातुक इत्यनुवर्तमाने` इत्यादि। तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्। अतस्तदनुवृत्तौ पिद्ग्रहणमप्यमुवर्तेत तथा चापिति न स्यात्। तस्मादपित्यपि यथा स्यादियेवमर्थं त्सार्वधातुकग्रहणं क्रियते॥ Prakriyasarvasvam ----------------- एभ्यो हलादेः सार्वधातुकस्य ईड्वा स्यात् । स्तवीति । अन्यत्र, Sutra Prayogas -------------- * **निष्टीवति** (भट्टिकाव्यम्): `तु-रु-स्तु-शम्यमः सार्वधातुके` इति यतः यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके ।