73096: अस्तिसिचोऽपृक्ते

Padacheda: अस्तिसिचः | S | 5 | 1 |

अपृक्ते | S | 7 | 1 |

Sutrartha

अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।

प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः - 1. किम् नाम अपृक्तम्? अपृक्त एकाल्प्रत्ययः (1.2.41) - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते । 2. किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । 4. किम् नाम सिच्? **च्लेः सिच् (3.1.44) इत्यनेन लुङ्लकारस्य प्रत्यये परे ‘च्लि’ इत्यस्य विकरणप्रत्ययस्य ‘सिच्’ आदेशः भवति । अतः अनेन सूत्रेण किमुच्यते? अस्-धातोः अङ्गात् परम् , तथा सिच्-प्रत्ययान्त-अङ्गात् परम् यदि कश्चन एकव्यञ्जननिर्मितः सार्वधातुकप्रत्ययः अस्ति, तर्हि तस्य प्रत्ययस्य ईट्-आगमः भवति । यथा - 1) अस्-धातोः लङ्लकारस्य प्रथमपुरुष-एकवचनस्य ‘आसीत्’ इत्यस्य रूपसिद्धिम् पश्यामः - अस् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → आट् + अस् + ल् [आडजादीनाम् (6.4.72) इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः] → आ + अस् + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → आ + अस् + शप् + ति [कर्तरि शप् (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → आ + अस् + ति [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक् ।] → आस् + ति [ आटश्च (6.1.90) इति वृद्धि-एकादेशः] → आस् + त् [इतश्च (3.4.100) इति इकारलोपः] → आस् + ईट् + त् [अस्तिसिचोऽपृक्ते (7.3.96) इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ।] → आसीत् [हलन्त्यम् (1.3.3) इति टकारस्य इत्संज्ञा । तस्य लोपः (1.3.9) इति तस्य लोपः। वर्णमेलनम् ।] अनेनैव प्रकारेण अस्-धातोः मध्यमपुरुषैकवचनस्य ‘आसीः’ इति रूपमपि सिद्ध्यति । 2) कृ-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य ‘अकार्षीत्’ इत्यस्य रूपसिद्धिं पश्यामः - कृ + लुङ् [लुङ् (3.2.110) इति लुङ्] कृ + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → कृ + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः । → कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + कृ + स् + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + कृ + स् + त् [ इतश्च (3.4.100) इति इकारलोपः] → अ + कृ + स् + ई + त् [अस्तिसिचोऽपृक्ते (7.3.96) इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ] → अ + कार् + स् + ई + त् [सिचि वृद्धिः परस्मैपदेषु (7.2.1) इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।] → अ + कार् + ष् + ई + त् [आदेशप्रत्यययोः (8.3.59) इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)] → अकार्षीत् । अनेनैव प्रकारेण कृ-धातोः मध्यमपुरुषैकवचनस्य ‘अकार्षीः’ इति रूपमपि सिद्ध्यति ।

Sutrartha (English)

A सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) gets an ‘ईट्’ आगम when it follows either the अस् धातु or the सिच्-प्रत्यय.

Vasu English Summary

A single consonantal सार्वधातुक affix gets the augment ईट् after अस् (अस्ति) and after the Aorist character सिच् ।

Vasu English Translation

A single consonantal सार्वधातुक affix gets the augment ईट् after अस् (अस्ति) and after the Aorist character सिच् । As आसात्, आसीः; अकार्षीत्, असावीत् ॥ Why do we say a single-consonant affix? Observe अस्ति, अकार्षम् ॥

Vart:- Prohibition of the sthanivad-bhava must be stated when आह् is substituted for ब्रु (3.4.84), and भू for अस् (2.4.52), before the augment ईट् ॥ Therefore not here आत्थ and अभूत् ॥ The word आत्थ is thus formed. आह् + सिप् = आह् + थल् (3.4.84) = आथ् + थ (8.2.35) = आत् + थ (8.4.55) = आत्थ ॥

Kashika

अस्तेरङ्गात् सिजन्तात् च परस्यापृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः — आसीत्। आसीः। सिजन्तात् — अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्त इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेध इति स्थानिवद्भावप्रतिषेधः, तेनेह न भवति — आत्थ, अभूदिति॥

Siddhanta Kaumudi

सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥

Laghu Siddhanta Kaumudi

विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥

Balamanorama

अस्तिसिचोऽपृक्ते - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया ‘अस्तिसिचः’ इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिचेति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः ।

Tattvabodhini

अस्तिसिचोऽपृक्ते - अत्र प्राञ्चः — अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम् । तत्र समासान्तस्याऽनित्यत्वाश्रयणेद्वन्द्वाच्चुदषहान्ता॑दिति प्राप्तस्य टचः परिहारेऽपि,समुद्राभ्राद्धः॑इति निर्देशात्अल्पाच्तर॑मित्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परत्वसमर्थेऽपि,अस्तेर्भू॑रिति भूभावस्य स्थानिवत्त्वेनाऽस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा गातिस्थाघुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः पर्तवानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च । तदेतद्ध्वनयन्व्याचष्टे — सिच्च अस् चेति । सौत्रं भत्वमिति । तेनाऽत्र कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः, कृतभूभावादस्तेश्च नेति भावः॥ भाष्यकारास्त्वाहुः — अस्तिसिचोऽपृक्ते॑ इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः — अस् स् इति समुदायस्याऽधातुतयाइक्श्तिपौ धातुनिर्देशे॑ इति श्तिप् प्रत्ययो न स्यादिति । अत्र वदन्ति — द्विसकारकनिर्देशे श्तिप् न स्यादिति यदुक्तं, तद्रभसोक्तिमात्रम् । इत्थं हि भाष्याशयः — सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, अत एवसिचोऽपृक्ते इति द्विसकारकोऽयं निर्देश॑ इत्युक्तं भाष्ये । अन्यथाअस्तीति निर्देशो द्विसकारक॑ इत्येव ब्राऊयात्, एवं च सान्तादस्तेः, सान्तात्सिचेति चार्थो निर्बाध एव । द्वितीयस्च सकारो लुप्यते,संयोगान्तस्य पदान्तस्ये॑ति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तत्वाद्वितीयसकारस्य । न च संयोगान्तलोपस्याऽसिद्धत्वात्अतो रो॑रित्युत्वं दुर्लभमिति वाच्यं,संयोगान्तलोपो रोरुत्वे॑ इति वार्तिकेनाऽसिद्धत्वनिषेधात् ।संयोगान्तां यत्पद॑मिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्व्यस्यापि रुत्वे कृतेअतो रो॑रित्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकत्वस्य पओकत्ववद्ववक्षितत्वात् । न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम्, एकपदाश्रयत्वेनाऽन्तरङ्गत्वादाद्गुणे पश्चादवादेशप्रवृत्त्याअस्तिसिचोऽपृक्ते॑ इति रूपाऽसिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम् । अत एव विधेयगतैकत्वस्य विवक्षितत्वात्एकः पूर्वपरयो॑रित्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः, स त्वत#ः परो न भवति, अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् । मैवम् ।रो॑रिति जातिपरनिर्देशेनाऽतः परत्वस्य पूर्वत्वस्य च संभवात् । न चैवमपि परत्वात्हशि चे॑ति प्रथमस्यैव रोरुः स्यादिति वाच्यं, रुत्वस्याऽसिद्धतया हश्परत्वाऽभावात् । न चाश्रयाऽसिद्धत्वमिति वाच्यं, स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात् । यद्यपि सत्वजातेरेकत्वादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तस्य हल इति ।अपृक्तसार्वधातुकस्ये॑ति प्राचोक्तं त्युक्तम्, ऐधिषीत्यादावतिव्याप्तेः, सार्वधातुकग्रहमव्यावत्र्याऽलाभाच्च॥

Padamanjari

ठपृक्तेऽ इति षष्ठ।ल्र्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । ठस् भुविऽ, शपो लुक्, तिप ईट् । अलावीदिति । लुङ्, ठिट ईटि इति सिचो लोपः । आहिभुवोरीट्प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति ।’व्रुवः पञ्चानाम्’ इत्यादिना सिपस्थल्, ब्रुव आहादेशः, ठाहस्थःऽ इति हकारस्य थत्वम्, तस्य’खरि च’ इति चर्त्वम् - तकारः । अभूदिति । लुङ्, ठस्तेर्भूःऽ’गातिस्था’ इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे ठाहस्थःऽ इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात् - झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ॥

Nyaas

अपृक्ते इति। सुब्वयत्ययेन षष्ठर्थे सप्तदमी, तेनायमपृक्तस्यैवेट्। अस्तिग्रहणं लङर्थय्। आसीत् इति। अस भुवि (धातुपाठः-1065), लङ्, अदादित्वाच्छपो लुक्, आडजादीनाम् (6.4.72) इत्याट्। आटश्च (6.1.87) इति वृद्धिः। अकार्षीत् इति। सिचि वृद्धिः। अलावीत्, अपाधीत् इति। इट ईटि (8.2.28) इति सिचो लोपः। आत्थ इति। अत्र ब्राउष उत्तरस्य सिपः ब्राउवः पञ्चानामदित आहोब्राउवः (3.4.84) इति थलि कृते ब्राउवश्चाहादेशे कृते तस्य स्थानिवद्भावे सति ब्राऊञ्ग्रहणेन ग्रहमात्? थलोऽपि सार्वधातुकग्रहणेन ग्रहणादीट्? प्राप्नोति। अभूत् इति। अस्तेः सिच्, अस्तेर्भूः (2.4.52) इति भूभावे तस्य स्थानिवद्भावे सत्यस्तिग्रहणेन ग्रहणादीट्? प्राप्नोति, स कस्मान्न भवति? इत्याह - आहिभुवोः इत्यादि। ईटि प्रतिषेधः इति। आहेर्भुवश्चेटि कर्तव्ये स्थानिवद्बावस्य प्रतिषेधः। तेनेह न भवति - आत्व` इति। आहस्थः (8.2.35) इति हकारस्य थकारः, तस्य खरि च इति तकारः। अभूत् इति। गातिस्था (2.4.77) इति सिचो लुक्॥

Prakriyasarvasvam

अस्तेः सिचश्च परस्यापृक्तसार्वधातुकस्य ईडागमः स्यात् । जि सीत् ।

Sutra Prayogas

  • व्यकारीत्सहाऽऽसनं (भट्टिकाव्यम्): अस्ति - सिचः इतिइट् ।

  • आसीद् (भट्टिकाव्यम्): अस्तिसिचोऽपृक्ते इतीट्।