73093: ब्रुव ईट्

Padacheda: ब्रुवः | S | 5 | 1 |

ईट् | S | 1 | 1 |

Sutrartha

ब्रू-धातोः अङ्गात् परस्य सार्वधातुक-हलादि-पित्-प्रत्ययस्य ईट्-आगमः भवति ।

  1. किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।

  2. किम् नाम पित्-प्रत्ययः? सः प्रत्ययः यस्मिन् पकारः इत्संज्ञकः अस्ति । यथा - तिप्, सिप्, मिप् ।

  3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् **उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।

4. ‘हलि’ इति सार्वधातुके इत्यस्य विशेषणमस्ति । यस्मिन् विधिः तदादौ अल्ग्रहणे अनेन वार्तिकेन ‘हलि सार्वधातुके’ इत्यस्य अर्थः ‘हलादि सार्वधातुके’ इति भवति । अतः अस्य सूत्रस्य अर्थः जायते - हलादि-सार्वधातुकः-पित्-प्रत्ययः यदि ब्रू-धातोः अङ्गात् परमागच्छति, तर्हि तस्मात् प्रत्ययात् पूर्वम् ‘ईट्’ आगमः भवति । यथा - ‘तिप्’ इति हलादि-पित्-सार्वधातुकप्रत्ययः अस्ति । अस्मिन् प्रत्यये परे ब्रू-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘ब्रवीति’ एवं सिद्ध्यति - ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट् ।] → ब्रू + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → ब्रू + शप् + तिप् [कर्तरि शप् (3.1.68) इति औत्सर्गिकम् गणविकरणम् शप् ] → ब्रू + तिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक् ] → ब्रू + ईट् + तिप् [ब्रुव ईट् (7.3.93) इति ईट्-आगमः] → ब्रो + ई + तिप् [यदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते अनया परिभाषया आगमाः स्थानिनः एव अवयवाः सन्ति । अतः अत्र ब्रू-इत्यस्मात् परः ‘ईति’ अयम् पित्-सार्वधातुकप्रत्ययः अस्ति । अस्य उपस्थितौ सार्वधातुकार्धधातुकयोः (7.3.84) इति अङ्गस्य गुणः विधीयते ।] → ब्रव् + ई + ति [एचोऽयवायावः (6.1.78) इति अवादेशः] → ब्रवीति अनेनैव प्रकारेण मध्यमपुरुषैकवचनस्य रूपम् - ब्रवीषि, तथा उत्तमपुरुषैकवचनस्य रूपम् - ब्रवीमि - एते अपि सिद्ध्यतः । तथैव, लोट्लकारस्य ‘ब्रवीतु’, लङ्लकारस्य ‘अब्रवीत्, अब्रवीः’ - इत्यत्रापि अस्य सूत्रस्य प्रयोगः क्रियते । ज्ञातव्यम् - अनेन सूत्रेण ईडागमः हलादि पित्-प्रत्यये परे एव भवति -

  • अजादि-पित्-प्रत्यये परे अयमागमः न भवति । यथा - लोट्लकारस्य एकवचनस्य प्रत्ययः ‘आनि’ इत्यस्मिन् परे ‘ब्रवाणि’ इति रूपं सिद्ध्यति ।

  • हलादि-अपित्-प्रत्यये परे अपि अयमागमः न भवति । यथा - लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रत्ययः ‘तस्’ इत्यस्मिन् परे ‘ब्रूतः’ इति रूपं सिद्ध्यति ।

Sutrartha (English)

A सार्वधातुक पित् प्रत्यय which begins with a हल्-letter gets ईट् आगम when attached to the verb ब्रू.

Vasu English Summary

Before a पित् सार्वधातुक affix beginning with a consonant, the augment इट् is placed after ब्रू।

Vasu English Translation

Before a पित् सार्वधातुक affix beginning with a consonant, the augment इट् is placed after ब्रू। As ब्रवीति, ब्रवीषि, ब्रवीमि, अब्रवीत् ॥ But ब्रवाणि before such an affix beginning with a vowel, and ब्रूतः before an affix which is not पित् ॥

Kashika

ब्रू इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति। ब्रवीति। ब्रवीषि। ब्रवीमि। अब्रवीत्। हलीत्येव — ब्रवाणि। पितीत्येव — ब्रूतः॥

Siddhanta Kaumudi

ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥

Laghu Siddhanta Kaumudi

ब्रुवः परस्य हलादेः पित ईट् स्यात्। ब्रवीति। ब्रूतः। ब्रुवन्ति। ब्रूते। ब्रुवाते। ब्रुवते॥

Balamanorama

ब्रुव ईट् - सन्वल्लघुनि । ‘अनग्लोपे’ इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मदारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयथ्र्यात् । ननु बहुव्रीह्राश्रयणेऽपिअत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवृत्तौ चङपरके लघुनि परेऽभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यः श्रिद्रुरुआउभ्यश्चङि द्वित्वे अशिश्रियत् अदुद्रुवत् असुरुआउवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्चदीर्घो लघो॑रिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह — अन्यपदार्थो णिरिति । तथा च चङ्परे णौ इति लभ्यते । अशिश्रियादित्यादौ च णेरभावान्न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः, अङ्गस्येत्यावृत्तौ एकं चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चङपरके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णोऽर्थाण्णेरिकार एव, न तु श्रिद्रुरुआउवामन्त्यवर्णः, तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाऽभावात् । एतदर्थमेव अङ्गस्येत्स्य निमित्तषष्ठन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति न लभ्यते, श्रिद्रुरुआउषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति ।सन्व॑दिति सप्तम्यन्ताद्वतः । तदाह — अङ्गसंज्ञानिमित्तमित्यादिना । अथवेति । अस्मिन्व्याख्याने ‘चङ्परे’ इत्येतदङ्गस्येत्यत्रान्वेति, न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह — चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपेऽसतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, ‘अजजागर’ इत्यत्र चङ्परे णौ यल्लघु, तदभ्यासव्यवहितमिति न सन्वत्त्व॑मिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देण्र्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वाऽभावान्नाऽभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् — ‘उन्दिद्’ इत्येतत् , — तदीयोऽभ्यासश्चङमादाय,लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृते क कम त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् ।

Padamanjari

‘ब्रुवः’ इति पञ्चमी, न षष्ठी; व्याख्यानात् । तयाऽचरितार्थया पूर्वत्र कृतार्थायाः सार्वधातुक इति सप्तम्याः षष्ठी प्रकल्प्यते । तदाह - ब्रुव इत्येतस्मादुतरस्येति । इह ब्रूताद्भवानिति तातङ् औपदेशिकेन ङ्त्वेनि स्थानिवद्भावकृतं पित्वं बाध्यते -‘ङ्च्चि पिन्न भवति’ इति, तेनेड् न भवति ॥

Nyaas

ब्राउवः` इत्येषा पञ्चम्यकृतार्था पूर्वत्र कृतार्थायाः सार्वधातुके इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति तस्मादितयुत्तरस्य` (1.1.66) इति वचनात्। तेन हलादेः पितः सार्वधातुकस्यैवायमिड्? विज्ञायत इत्यत आह - ब्राऊ इत्येतस्मादुत्तरस्य हलादेः इत्यादि। कथं पूनर्हल आगमित्वेन तदादिर्लभ्यते, यस्मिने विधिस्तदादावल्ग्रहणे (व्या।प।127) इत्युच्यते, न तु यस्य विधिरिति, असति हि तदादिविधावब्रावीदित्यादावेव स्यात्, ब्रावीतीत्यादौ न स्यात्? नैष दोषः; उत्तरत्र ह्रपृक्तग्रहणात्? तदादिविधेः सम्भवो गम्यते, अन्यथा ह्रसति तदादिविधौ विनाप्यपृक्तग्रहणेनापृक्त एव भविष्यति, अपृक्तग्रहणमनर्थकं स्यात्। ब्रावीति इति। पूर्ववच्छपो लुक्। ब्रावाणि इति। तदेव लोडुत्तमपुरुषैकवचनम्। ब्राऊतः इति। लट्, तस्॥

Prakriyasarvasvam

ब्रुवः परस्य हलादेः पितः सार्वधातुकस्य ईट् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीषि । ब्रूथः । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः ।