73092: तृणह इम्¶
Padacheda: तृणहः | S | 6 | 1 |
इम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Before a पित् सार्वधातुक affix beginning with a consonant, इ is added after अ of the verbal stem तृणह्।
Vasu English Translation¶
Before a पित् सार्वधातुक affix beginning with a consonant, इ is added after अ of the verbal stem तृणह्। As तृणेढि, तृणेक्षि, तृणेह्मि, अतृणेट् ॥ In the last example though the affix vanishes altogether, yet it produces its effect. Why beginning with a consonant? Observe तृणहानि ॥ Why a पित् affix? Observe तृण्ढः with तस् ॥ The stem तृणह is formed from the root तृह् (Rudhadi) with the vikarana श्नम्, and is so exhibited in the sutra in order to indicate that the augment इम् is added after the vikarana श्नम् has been added, and that the root तृह् of Tudadi class is not to be taken.
The above forms are thus derived:-
तृह् + श्नम् + तिप् = तृणह् + इम् + ति = तृणइह + ति = तृणेह् + ति (6.1.87) = तृणेढ् + ति (8.2.31) = तृणेढ् + धि (8.2.40) = तृणेढ् + ढि (8.4.41) = तृणेढि with the elision of one ढ (8.3.13). The form तृणेक्षि is similarly formed by (8.2.41), the ढ् being changed to क before सि of सिप् ॥ अतृणेट् is the लङ् 2nd and 3rd Person Singular.
Bhashya¶
तृणह इम् किमर्थं तृहिरागतश्र्नङ्को गृह्यते न तृहेरिम्भवतीत्येवोच्येत ? ॥ तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थम् तृणहिग्रहणं (क्रियते(4) ॥ किं प्रयोजनम् ? ॥ श्र्नमिमोर्व्यवस्थार्थम् । ) श्र्नमि कृते इम्यथा स्यात् तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वात् तृहिग्रहणे हि सतीम्विषये श्र्नमोऽभावः स्यात् ॥ किं कारणम् ? ॥ अनवकाशत्वात् । अनवकाश इम् श्र्नमं बाधेत ॥ इदमयुक्तं वर्तते ॥ किमत्राऽयुक्तम् ? ॥ तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थमित्युक्त्वा, तत उच्यते - तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति । तत्र वक्तव्यं- तृणहिग्रहणं श्र्नमिमोर्भावाय, तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । व्यवस्थार्थमित्येव सिद्धं, न ह्यसतो व्यवस्थाऽस्ति(1) ॥ ( तृणह इम् ) ॥
Kashika¶
तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके। तृणेढि। तृणेक्षि। तृणेह्मि। अतृणेट्। वर्णाश्रयेऽप्यत्र प्रत्ययलक्षणमिष्यते। हलीति किम्? तृणहानि। पितीत्येव — तृण्ढः। तृणह इत्यागतश्नम्को गृह्यते, श्नमि कृत इमागमो यथा स्यादिति॥
Siddhanta Kaumudi¶
तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ।{$ {!1457 उन्दी!} क्लेदने$} । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ।{$ {!1458 अञ्जू!} व्यक्तिम्रक्षणकान्तिगतिषु $}। अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥
Laghu Siddhanta Kaumudi¶
तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके। तृणेढि। तृण्ढः। ततर्ह। तर्हिता। अतृणेट्॥
Balamanorama¶
तृणह इम् - तृणह इम् । ‘तृणह’ इति षष्ठी । कृतश्नमस्तृहधातोर्निर्देशः । र॒नाभ्यस्तस्ये॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । फलितमाह - तृहः श्नमि कृते इति । मित्तवादन्त्यादचः परः । ‘श्नमि कृते’ इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम्बाध्येत,सत्यपि संभवे बाधनं भवती॑ति नयायात् । अन्यथाब्राआहृणेभ्यो ददि दीयतां, तक्रं कौण्डिन्याये॑त्यत्र तक्रेण दधि न बाध्येत, श्नमा शप्च न बाध्येत, देशभेदेन उभयसंभवादिति भावऋ । तृणेढीति । तृणह् तस् इति इमागमे आद्गुणे तृणेह् ति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्नमि कृते, तृणह् तस् इति स्थिते , तसोऽपित्त्वादिमागमाऽभावेश्नसो॑रित्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तृंहन्ति । तृणेक्षि तृण्ढः तृण्ढ । तृणेहिऋ तृंह्वः तृंह्मः । ततर्हेति.ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु - तृण्ढात् तृण्ढाम् तृंहन्तु । तृण्ढि - तृण्ड्ढि - तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतृणेडिति । लङ स्तिपि श्नमि इम् हल्ङ्यादिलोपः ढत्वजश्त्वे इति भावः । अतृण्ढामतंहन् । अतृणेट् अतृण्ढमतृण्ढ । अतृणहमतृंह्व अतृंह्म । तृंह्रात् । तृह्रात् । अतर्हीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति - हिनस्तीति । इह श्नमि इदित्त्वान्नुमि च कृते ‘श्नान्न लोपःर’ इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति । हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंस्वः हिंस्मः । जिहिंसेति । किति इदित्तवान्नलोपो न । जिहिंसतुः । जिहिंसिथ । हिंसितेति । सेडिति भावः । हिंसिष्यति । हिनस्तु हिंस्ताम् । हौ श्नमि नुमि कृते ‘श्नान्नलोपः’ इतिनुमो लोपे हेरपित्त्वेन ङित्त्वात्श्नसो॑रित्यल्लोपेधिचे॑ति सलोपे, हिन्धीति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिस्तामहिंसन् । सिपि रुर्वा - अहिनः अहिनत्, अहिंस्तम् । अहिनसमहिंस्व । हिंस्यात् हिंस्याताम् । आशीर्लिङ श्नमभावान्नुमेव । इदित्त्वान्नलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः । उनद्मि उन्द्वः । उन्दामिति । इजादेश्चेत्याम् । उन्दिता । उन्दिष्यति । उनत्तु - उन्त्तात् । उन्द्धि । उनदानि । लह्राह - औनदिति । औत्त्वाद्वेट् । अनक्तीति । श्नमि कृते परसवर्णस्याऽसिद्धत्वात् ‘श्नान्न लोपः’ इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्त्वेन क इत भावः । अङक्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः । गस्य चर्त्वेन कः । श्नमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपाऽल्लोपौ । श्नमो नस्य परसवर्णो ञ इति भावः । अनक्षि अङ्क्थः । अनज्मि अञ्ज्वः । अङ्ग्धीति । हौ श्नमि धिभावे नलोपाऽल्लोपौ । जस्य कुत्वेन गकारः । नस्य परसवर्णो ङकार इति भावः । अनजानीति । श्नान्नलोपः । आटः पित्त्वादल्लोपो न । लह्राह - आनगिति । आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् ।
Tattvabodhini¶
तृणह इम् - तृणह इम् ।तृहू॑ इति वक्तव्ये सश्नमो ग्रहणं विशेषविहितेन इमा श्नमो बाधो माभूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्क्यं, ततः परस्य हलादेः पितः सार्वधातुकस्य विकरणेन व्यवधानात् ।नाभ्यस्तस्याचि पिती॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति च वर्तते । तदाह — हलादौ पितीति ।प्रत्ययलोपे प्रत्ययलक्षण॑मिति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते, किं तु पितीत्यनुवर्तत एव । तेनतृण्ढ॑ इत्यत्र नातिप्रसङ्गः । नच हलीत्यनुवृत्तौ तृणहानीत्यत्रातिप्रसङ्ग इति वाच्यम्, अचि नेत्यनुवर्तनात् । उन्दी क्लेदनमाद्रीभावः । अञ्जू । व्यक्तिर्विवेचनम् । म्रक्षणं — स्निग्धता ।
Padamanjari¶
तृणेढैइति । इमि कृते श्नमोऽकारेण सह ठाद्गुणःऽ,’हो ढः’ ,’झषस्तथोर्धो’ धःऽ, ष्टुअत्वम्, ढलोपः । तृणेक्षीति ।’षढोः कः सि’ । अतृणेडिति । लङ्, तिप्सिपोरन्यतरः, हल्ङ्यादिलोपः, ढत्वजश्चचर्त्वानि । ननुं च’हलादौ’ इत्युच्यते, न चात्र हलादिं पश्यामः ? प्रत्ययलक्षणेन । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? अत आह - वर्णाश्रयेऽप्यत्रेति । यत्र केवलो वर्ण एव निमितं यस्य स वर्णाश्रयः, यथा - गवे हितं गोहितमित्यवादेशः । इह तु पिति सार्वधातुक इति प्रत्यय एव निमितम्, हल् तस्य विशेषणम्, तेनासौ प्रत्ययनिमितत्वाद्भवत्येवेत्यर्थः । तृणहानीति । लोट्,’मेनिः’ । तृणाढ इति । तस् ढत्वादि पूर्ववत्,’श्नसोरल्लोपः’ , अनुस्वारपरसवर्णौ । अथ किमर्थं तृहिरागतश्नम्को गृह्यते ? रौधादिकस्य’तृह हिंसायाम्’ इत्यस्य ग्रहणं यथा स्यात्,’तृहि हिंसायाम्’ इत्यस्य तौदादिकस्य ग्रहणं मा भूत् । नास्य पिद्धलादिसार्वधातुक मनन्तरं सम्भवति; विकरणेन व्यवधानात् । ननु चास्यापि यङ्लुगन्तस्य सम्भवति, एवं तर्हि सानुबन्धकत्वात् तस्य ग्रहणं न भविष्यति ? अत आह - तृणह इतीत्यादि । यद्यागतश्नम्को न गृह्यएत, ततो नाप्राप्ते श्नम्यारभ्यमाण इम् तस्य बाधकः स्यात् । अथापि न बाधकः, एवमपि श्नमि कृते इमितीष्टव्यवस्था न स्यात् । विपर्ययोऽपि स्यात् - पूर्वमिमागमः, पश्चात् श्नमिति । सश्नम्कनिर्द्देशे तु न श्नमो निवृत्तिर्भवति, इष्टा च व्यवस्था सिध्यति - पूर्वं श्नम्, पश्चादिमिति । अतस्तदर्थमागतश्नन्को गृह्यते । किञ्च - रौधादिकस्यापि यङ्लुगन्तस्य ग्रहणं भवति सश्नम्कनिर्द्देशादेव ॥
Nyaas¶
तृह हिंसायाम् (धातुपाठः-1455) इति रुधादिः, तृहू तृभू हिंसार्थाः (धातुपाठः-1348,1350) इति तुदादी - तयोराद्यस्येदं ग्रहणम्, नेतरस्य। तस्य विकरणेन व्यवधावादनन्तरो हल्? न सम्भवतीति। `तृणेढि इति। हो ढः (7.2.31) , झषस्तथोर्धोऽधः (8.2.40) इति धत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्, ढो ढे लोपः (8.3.13) , तस्येमागमः, आद्गुणः (6.1.87) । तृणेक्षि इति। धढोः कः सि (8.2.41) इति कत्वम्। अतृणेट् इति। लङ्, तिप्, हल्ङ्यादिलोपः (6.1.66) , ढत्वे कृते झलां जशोऽन्ते (8.2.39) इति जश्त्वम् - ढकारस्य डकारः, तस्य वावसाने (8.4.55) इति चर्त्वम् - टकारः। ननु चात्र लुप्तत्वात्? सार्वधातुकस्येमागमेन न भवितव्यम्, लुप्तोऽपि तत्र प्रत्ययलक्षणेन भविष्यतीति चेत्? न; वर्णाश्रये प्रत्ययलक्षणं नास्तीत्यत आह - वर्णाश्रये इत्यादि। एवं मन्यते - वर्णाश्रये नास्ति प्रत्ययलक्षणम् (व्या।प।96) इति नानेन सर्वधा वर्णाश्रयस्य प्रत्ययलक्षणस्य प्रतिषेधः क्रियते, किं तर्हि? प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यत्र प्रत्ययग्रहणस्य प्रयोजनं व्याख्यायते। प्रत्यये लुप्ते द्विविधं कार्यं विज्ञायते - प्रत्ययनिमित्तम्, अप्रत्ययनिमित्तञ्च। तत्र यत्? प्रत्ययनिमित्तं तत्? प्रत्ययलोपे यथा स्यात्, इतरन्मा भूदित्येवमर्थम्। तेन गवे हितं गोहितमित्यत्र लुप्तायां विभक्ताववादेशो न भवति। अवादेशस्य ह्रचीत्यधिकाराद्वर्णो निमित्तम्, न प्रत्यय एव। इह त्वङ्गाधकारात्? प्रत्यय एव हलादिराश्रीयत इतीमागमस्य प्रत्ययनिमित्तता। तेनासौ प्रत्ययलक्षणेन भवत्येव। यदि ह्रसौ प्रत्ययनिमित्तस्तत्कथं वर्णाश्रयेऽपयत्रेतयुक्तम्? अतृणेडित्यत्रोदाहरणे त्ययस्य वर्णमात्रत्वात्? प्रत्ययविशेषणत्वेन वी वर्णस्याश्रयणादेवमुक्तम्, न त्वप्रत्ययनिमित्तत्वात्, वर्णस्यापि तकारस्य प्रत्ययत्वापरित्य#आगत्। तृणहानि इत्यत्र तदेव लोडुत्तपुरुषैकवचनम्। तृण्ढः इति। तस्, श्नसोरन्लोपः (6.4.111) , पूर्ववड्ढत्वादि, नश्चापदान्तस्य झलि (8.3.24) इत्यनुस्वारः, अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णो णकरः। अथ किमर्थमिह तृहीरागतश्नम्को गृह्रते, न तृह इत्येवोच्येत? इत्याह आह - तृणह इत्यादि। यद्यागतश्नम्कस्य ग्रहणं न क्रियेत, ततो नाप्राप्ते श्नम्ययमारभ्यते, देशहेतुकश्च तयोर्विरोधोऽस्तीति श्नम णमा बाधा स्यात्। असत्यामपि बाधायामनिष्टा व्यवस्था स्यात् - पूर्वमिम्, पश्चात्? श्नम्; ततश्चानिष्टं रूपं स्यात्। आगतश्नम्कस्य ग्रहणे सश्नम्कस्य तृहेरिमि विधीयमाने समावेशस्तयोर्भवति, इष्टा च व्यवश्था सम्पद्यते - पूर्व श्नम्, पश्चादिम्; तस्मात्? श्नमि कृते सतीमागमो भवेदित्येवमर्थमागतश्नम्कस्तृहिर्ग्रृह्रते॥
Prakriyasarvasvam¶
तृहेः श्नमि कृते पिति हलि सार्वधातुके पर इमागमः स्यात् । ‘आद् गुणः’ (६-१-८७) तृणेढ्, ति । ढत्वधत्वष्टुत्वढलोपाः । तृणेढि । अल्लोपे ढत्वादि ‘झरो झरि—’ (८-४-६५) । तृण्ढः । तृम्हन्ति । ढस्य कः । तृणेक्षि । तृण्ढः । तृण्ढ । तृणेह्मि । तृंह्वः । तृंह्मः । कर्मणि तृह्यते । तृह्यात् । तृणेढु, तृण्ढात् । हेर्धिः । ढत्वष्टुत्वे । ‘झरो झरि—’ (८-४-६५) । तृण्ढि । तृणहानि । तृणहाव । हल्ङ्यादिलोपे पदान्ते हो ढः । अतृणेट् । अतृण्ढाम् । अतृंहन् । अतृणेढ् । अतृण्ढम् । अतृणहम् । अतृंह्वः । लुङि अतर्हीत् । अतर्हिष्टाम् । कर्मणि अतर्हि । अतर्हिषाताम् । ततर्ह । ततृह्तुः । ततर्हिथ । ततृहिव । कर्मणि ततॄहे । ततॄहिषे । ततॄहिध्वे, ततॄहिष्वे । तृह्यात् । तर्हिता । तर्हिष्यति । कर्मणि तर्हिषीष्ट । हिसि हिंसायाम् । इदित्त्वान्नुम् ।