73093: ब्रुव ईट् ================ **Padacheda:** ब्रुवः | S | 5 | 1 | ईट् | S | 1 | 1 | Sutrartha --------- **ब्रू-धातोः अङ्गात् परस्य सार्वधातुक-हलादि-पित्-प्रत्ययस्य ईट्-आगमः भवति ।** 1. किम् नाम सार्वधातुकप्रत्ययः ? **तिङ्शित्सार्वधातुकम्** (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 2. किम् नाम पित्-प्रत्ययः? सः प्रत्ययः यस्मिन् पकारः इत्संज्ञकः अस्ति । यथा - तिप्, सिप्, मिप् । 3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् **उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । 4. 'हलि' इति सार्वधातुके इत्यस्य विशेषणमस्ति । **यस्मिन् विधिः तदादौ अल्ग्रहणे** अनेन वार्तिकेन 'हलि सार्वधातुके' इत्यस्य अर्थः 'हलादि सार्वधातुके' इति भवति । अतः अस्य सूत्रस्य अर्थः जायते - हलादि-सार्वधातुकः-पित्-प्रत्ययः यदि ब्रू-धातोः अङ्गात् परमागच्छति, तर्हि तस्मात् प्रत्ययात् पूर्वम् 'ईट्' आगमः भवति । यथा - 'तिप्' इति हलादि-पित्-सार्वधातुकप्रत्ययः अस्ति । अस्मिन् प्रत्यये परे ब्रू-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'ब्रवीति' एवं सिद्ध्यति - ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट् ।] → ब्रू + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → ब्रू + शप् + तिप् [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् गणविकरणम् शप् ] → ब्रू + तिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक् ] → ब्रू + ईट् + तिप् [**ब्रुव ईट्** (7.3.93) इति ईट्-आगमः] → ब्रो + ई + तिप् [**यदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते** अनया परिभाषया आगमाः स्थानिनः एव अवयवाः सन्ति । अतः अत्र ब्रू-इत्यस्मात् परः 'ईति' अयम् पित्-सार्वधातुकप्रत्ययः अस्ति । अस्य उपस्थितौ **सार्वधातुकार्धधातुकयोः** (7.3.84) इति अङ्गस्य गुणः विधीयते ।] → ब्रव् + ई + ति [**एचोऽयवायावः** (6.1.78) इति अवादेशः] → ब्रवीति अनेनैव प्रकारेण मध्यमपुरुषैकवचनस्य रूपम् - ब्रवीषि, तथा उत्तमपुरुषैकवचनस्य रूपम् - ब्रवीमि - एते अपि सिद्ध्यतः । तथैव, लोट्लकारस्य 'ब्रवीतु', लङ्लकारस्य 'अब्रवीत्, अब्रवीः' - इत्यत्रापि अस्य सूत्रस्य प्रयोगः क्रियते । ज्ञातव्यम् - अनेन सूत्रेण ईडागमः हलादि पित्-प्रत्यये परे एव भवति - - अजादि-पित्-प्रत्यये परे अयमागमः न भवति । यथा - लोट्लकारस्य एकवचनस्य प्रत्ययः 'आनि' इत्यस्मिन् परे 'ब्रवाणि' इति रूपं सिद्ध्यति । - हलादि-अपित्-प्रत्यये परे अपि अयमागमः न भवति । यथा - लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रत्ययः 'तस्' इत्यस्मिन् परे 'ब्रूतः' इति रूपं सिद्ध्यति । Sutrartha (English) ------------------- A सार्वधातुक पित् प्रत्यय which begins with a हल्-letter gets ईट् आगम when attached to the verb ब्रू. Vasu English Summary -------------------- Before a पित् सार्वधातुक affix beginning with a consonant, the augment इट् is placed after ब्रू। Vasu English Translation ------------------------ Before a पित् सार्वधातुक affix beginning with a consonant, the augment इट् is placed after ब्रू। As ब्रवीति, ब्रवीषि, ब्रवीमि, अब्रवीत् ॥ But ब्रवाणि before such an affix beginning with a vowel, and ब्रूतः before an affix which is not पित् ॥ Kashika ------- ब्रू इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति। ब्रवीति। ब्रवीषि। ब्रवीमि। अब्रवीत्। हलीत्येव — ब्रवाणि। पितीत्येव — ब्रूतः॥ Siddhanta Kaumudi ----------------- ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥ Laghu Siddhanta Kaumudi ----------------------- ब्रुवः परस्य हलादेः पित ईट् स्यात्। ब्रवीति। ब्रूतः। ब्रुवन्ति। ब्रूते। ब्रुवाते। ब्रुवते॥ Balamanorama ------------ **ब्रुव ईट्** - सन्वल्लघुनि । 'अनग्लोपे' इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मदारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयथ्र्यात् । ननु बहुव्रीह्राश्रयणेऽपिअत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवृत्तौ चङपरके लघुनि परेऽभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यः श्रिद्रुरुआउभ्यश्चङि द्वित्वे अशिश्रियत् अदुद्रुवत् असुरुआउवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्चदीर्घो लघो॑रिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह — अन्यपदार्थो णिरिति । तथा च चङ्परे णौ इति लभ्यते । अशिश्रियादित्यादौ च णेरभावान्न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः, अङ्गस्येत्यावृत्तौ एकं चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चङपरके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णोऽर्थाण्णेरिकार एव, न तु श्रिद्रुरुआउवामन्त्यवर्णः, तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाऽभावात् । एतदर्थमेव अङ्गस्येत्स्य निमित्तषष्ठन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति न लभ्यते, श्रिद्रुरुआउषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति ।सन्व॑दिति सप्तम्यन्ताद्वतः । तदाह — अङ्गसंज्ञानिमित्तमित्यादिना । अथवेति । अस्मिन्व्याख्याने 'चङ्परे' इत्येतदङ्गस्येत्यत्रान्वेति, न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह — चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपेऽसतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, 'अजजागर' इत्यत्र चङ्परे णौ यल्लघु, तदभ्यासव्यवहितमिति न सन्वत्त्व॑मिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देण्र्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वाऽभावान्नाऽभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् — 'उन्दिद्' इत्येतत् , — तदीयोऽभ्यासश्चङमादाय,लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृते क कम त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् । Padamanjari ----------- 'ब्रुवः' इति पञ्चमी, न षष्ठी; व्याख्यानात् । तयाऽचरितार्थया पूर्वत्र कृतार्थायाः सार्वधातुक इति सप्तम्याः षष्ठी प्रकल्प्यते । तदाह - ब्रुव इत्येतस्मादुतरस्येति । इह ब्रूताद्भवानिति तातङ् औपदेशिकेन ङ्त्वेनि स्थानिवद्भावकृतं पित्वं बाध्यते -'ङ्च्चि पिन्न भवति' इति, तेनेड् न भवति ॥ Nyaas ----- ब्राउवः` इत्येषा पञ्चम्यकृतार्था पूर्वत्र कृतार्थायाः `सार्वधातुके` इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति तस्मादितयुत्तरस्य` (1.1.66) इति वचनात्। तेन हलादेः पितः सार्वधातुकस्यैवायमिड्? विज्ञायत इत्यत आह - `ब्राऊ इत्येतस्मादुत्तरस्य हलादेः` इत्यादि। कथं पूनर्हल आगमित्वेन तदादिर्लभ्यते, `यस्मिने विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत्युच्यते, न तु यस्य विधिरिति, असति हि तदादिविधावब्रावीदित्यादावेव स्यात्, ब्रावीतीत्यादौ न स्यात्? नैष दोषः; उत्तरत्र ह्रपृक्तग्रहणात्? तदादिविधेः सम्भवो गम्यते, अन्यथा ह्रसति तदादिविधौ विनाप्यपृक्तग्रहणेनापृक्त एव भविष्यति, अपृक्तग्रहणमनर्थकं स्यात्। `ब्रावीति` इति। पूर्ववच्छपो लुक्। `ब्रावाणि` इति। तदेव लोडुत्तमपुरुषैकवचनम्। `ब्राऊतः` इति। लट्, तस्॥ Prakriyasarvasvam ----------------- ब्रुवः परस्य हलादेः पितः सार्वधातुकस्य ईट् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीषि । ब्रूथः । ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः ।