73083: जुसि च¶
Padacheda: जुसि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Before a personal ending जुस् (उस्) of the Imperfect, गुण is substituted for the final 1. इ 2. ई 3. उ. 4. ऊ 5. ऋ 6. ॠ and 7. ऌ।
Vasu English Translation¶
Before a personal ending जुस् (उस्) of the Imperfect, गुण is substituted for the final 1. इ 2. ई 3. उ. 4. ऊ 5. ऋ 6. ॠ and 7. ऌ। As अजुहवुः, अबिभयुः, अबिभरुः, अजागरुः ॥ This Personal ending is ङित् according to (1.2.4), and would not have caused guna (1.1.5), but for this sutra. The ending जुस (III.4. I08) comes in the लिङ् also. There, however, it does not cause guna. As चिन्युः, सुनुयुः ॥ Here there are two ङित् affixes, the augment यासुट्, and the sarvadhatuka जुस्; and the यासुट् prevents guna. The इक् is read into the sutra from (1.1.3).
Bhashya¶
जुसि च जुसि गुणे यासुट्प्रतिषेधः जुसि गुणे यासुडादौ प्रतिषेधो वक्तव्यः । चिनुयुः सुनुयुरिति ॥ (स तर्हि प्रतिषेधो वक्तव्यः ? ) । न वक्तव्यः । नैवं विज्ञायते - मिदेर्गुणः जुसि चेति ॥ कथं तर्हि ? ॥ मिदेर्गुणोऽजुसि चेति ॥ किमिदम् - अजुसीति ? ॥ अजादावुस्यजुसीति ॥ इहाऽपि तर्हि प्राप्नोति - चक्रुः जह्रुरिति ? ॥ एवं तर्हि शितीति वर्तते ॥ एवमप्यजुहवुः अबिभयुरित्यत्र न प्राप्नोति ॥ ननु च(1) भूतपूर्वगत्या भविष्यति ॥ न सिध्यति, न ह्युस् शिद्भूतपूर्वः ॥ उस् शिद्भूतपूर्वो नास्तीति कृत्वा उसि यश्शिद्भूतपूर्वस्तस्मिन् भविष्यति ॥ अथ वा क्रियते न्यास एव - अविभक्तिको निर्देशः । नैवं विज्ञायते - मिदेर्गुणो जुसि चेति ॥ कथं तर्हि ? ॥ मिदेर्गुण उ जुसि(1) चेति ॥ किमिदमु जुसीति ? ॥ उकारादौ जुसि (उ जुसिति) । अथ वाऽचीति वर्तते तेन जुसं विशेषयिष्यामोऽजादौ जुसिति ॥ (जुसि च) ॥
Kashika¶
जुसि च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुरित्यत्र कस्माद् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयं यासुडाश्रयं च। तत्र नाप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुण आरभ्यमाणस्तमेव बाधते, यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते चाप्राप्ते चारभ्यत इति॥
Siddhanta Kaumudi¶
अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि (SK2268) इति निषिद्धा, ततः अतो हलादेः- (SK2284) इति बाधित्वा अतो ल्रान्तस्य (SK2330) इति प्राप्ता, ह्म्यन्त-(SK2299) इति निषिध्यते ॥ तदाहुः - गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । ।{$ {!1073 दरिद्रा!} दुर्गतौ$} । दरिद्राति ॥
Laghu Siddhanta Kaumudi¶
इगन्ताङ्गस्य गुणोऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ {$ {! 2 ञिभी !} भये $} (धातुपाठे (03.0002)) ॥ बिभेति॥
Balamanorama¶
जुसि च - जुसि च । अङ्गस्येत्यधिकृतम् । ‘मिदेर्गुण’ इत्यतो गुण इत्यनुवर्तते । ‘इको गुणवृद्धी’ इति परिभाषया ‘इक’ इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः ।क्सस्याची॑इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः । तदाह — अजादावित्यादिना । अजगरुरिति । अजागः अजागृतमजागृत । अजागरमजागृव अजागृम । विधिलिङि यासुटो ङित्त्वान्न गुणः । जागृयात् जागृयताम् । जागृयुरिति ।जुसि चे॑त्यत्र अजादावित्युक्तेर्न गुण इति भावः । जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति — जागृ इसित्यत्रेति । तत्र कृते इति ।जाग्रोऽविचिण्ण॑लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । ‘वृद्धा’ इति शेषः । अजागरिष्टामजागरिषुरित्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः = धनहीनीभवनम् । दारिद्रातीति । धनहीनीभवतीत्यर्थः ।
Tattvabodhini¶
जुसि च - जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः ।क्सस्याची॑त्यतोऽत्यतोऽचीत्यनुवर्तत इत्याह — अजादाविति । जागृयुरिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम् ।यासुटो ङित्तवाच्छृणुयुरित्यादौ गुणो ने॑ति प्राचोक्तिस्तु मनोरमायां दूषिता,जुसि चे॑ति गुणस्य निषेधापवादत्वादिति । केचित्तु — ॒जुसि चे॑त्यत्र उसीत्यावर्त्त्यउरुआऊपे जुसी॑ति व्याख्यानान्नोक्तदोष इत्याहुः ।अजादौ जुसी॑ति समाधानं तु भाष्यारूढम् । जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति — जागृ- इसित्यत्रेति.तत्र कृते इति । हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन बाधः, तेन गुणेनहलन्तत्वसंपादनात् । या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः । अजागरिष्टाम् । अजागरिषुः । अजागरीदित्यादि । दरिद्रा ।
Padamanjari¶
उदाहरणेषु लङ् शिपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्,’सिजभ्यस्तविधिभ्यश्च’ इति झेर्जुस् । अथेत्यादि । जुस्भक्तस्य यासुटस्तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सार्वधातुकाश्रयङ्त्विनिमित इति । सार्वधातुकमाश्रयो यस्य तत्सार्वधातुकाश्रंय तन् ङ्त्विं निमितं यस्य प्रतिषेधस्य स तथोक्तः । एतेन यासुडाश्रयङ्त्विनिमितमिति व्याख्यातम् । तत्र हि प्राप्ते चाप्राप्ते चेति । चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते । क्सस्याचीत्यनुवर्तते इति । परिहारान्तरम्, जकारोच्चारणं तु चक्रुः - इत्यादौ लिटि मा भूत् ॥
Nyaas¶
इकात्र सन्निहितेन प्रकृतमङ्गं विशिष्यते, विशेषणेन तदन्तविधिर्भवतीत्यत आह - इगन्तस्य इत्यादि। अजुहवुः इति। लङ्, सिजभ्यस्तविदभ्यश्च (3.4.109) इति झेर्जुस्, शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्। अबिभयुः इति। ञिभो भये (धातुपाठः-1084)। अबिभरुः इति। डु भृञ्? धारणपोषणयोः (धातुपाठः-1087), भुञामित् (7.4.76) इत्यभ्यासस्येत्त्वम्। चिनुयुः सुनुयुः इति। लिङ्, यासुट्? झेर्जुस्, स्वादिभ्यः श्नुः (3.1.73) उस्यपदान्तात् (6.1.96) इति पररूपत्वाम्। तत्र नाप्राप्ते इत्यादि। सार्वाधातुकमाश्रयो यस्यतत्? सार्वधातुकाश्रयम्। ङित्त्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः। स सर्वत्रैव जुसि प्राप्नोतीति तस्मिन्नाप्राप्तेऽयं गुण आरभ्यमाणस्तस्यैव बाधको भविष्यति; न तु यस्य यासुडाश्रयं ङित्त्वं निमित्तम्, तस्यापि। अत्र हि प्राप्ते चाप्राप्तेऽयमारभ्यते। चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते। चकारः समुच्चये। नान्यत्? समुच्चेतव्यमस्तीत्यस्यैव लक्षणस्य पुनरावृत्तिमाचष्टे। तेन प्रकृतलक्षणस्यापि प्रतिषेधविषये भवति। अदीधयुः इति। दीधीङ्? दीप्तिदेवनयोः (धातुपाठः-1076), लङ्? व्यत्ययेन परस्मैपदम्, झिः, जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा, सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुस्, अदादित्वाच्छपो लुक्। ततः सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः प्राप्तः, स क्ङिति च (1.1.5) इति प्रतिषिद्धः, सोऽप्यनेन पुनः प्राप्तौ दीधीवेवीटाम् (1.1.6) इति प्रतिषिद्धः समुच्चयार्थत्वाच्चकारस्य भवति॥
Prakriyasarvasvam¶
जुसि परे इगन्तस्य गुणः स्यात् । अजुहवुः । अजुहाः । अजुहुतम् । अजुहवम् । अजुहुव । लुङि अहौषीत् । अहौष्टाम् । अहौषुः । अहौषीः । अहौषम् । अहौष्व । कर्मणि अहावि । अहाविषाताम् । अहोषाताम् । लिटि,