73083: जुसि च ============= **Padacheda:** जुसि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Before a personal ending जुस् (उस्) of the Imperfect, गुण is substituted for the final 1. इ 2. ई 3. उ. 4. ऊ 5. ऋ 6. ॠ and 7. ऌ। Vasu English Translation ------------------------ Before a personal ending जुस् (उस्) of the Imperfect, गुण is substituted for the final 1. इ 2. ई 3. उ. 4. ऊ 5. ऋ 6. ॠ and 7. ऌ। As अजुहवुः, अबिभयुः, अबिभरुः, अजागरुः ॥ This Personal ending is ङित् according to (1.2.4), and would not have caused *guna* (1.1.5), but for this *sutra*. The ending जुस (III.4. I08) comes in the लिङ् also. There, however, it does not cause *guna*. As चिन्युः, सुनुयुः ॥ Here there are two ङित् affixes, the augment यासुट्, and the *sarvadhatuka* जुस्; and the यासुट् prevents *guna*. The इक् is read into the *sutra* from (1.1.3). Bhashya ------- जुसि च जुसि गुणे यासुट्प्रतिषेधः जुसि गुणे यासुडादौ प्रतिषेधो वक्तव्यः । चिनुयुः सुनुयुरिति ॥ (स तर्हि प्रतिषेधो वक्तव्यः ? ) । न वक्तव्यः । नैवं विज्ञायते - मिदेर्गुणः जुसि चेति ॥ कथं तर्हि ? ॥ मिदेर्गुणोऽजुसि चेति ॥ किमिदम् - अजुसीति ? ॥ अजादावुस्यजुसीति ॥ इहाऽपि तर्हि प्राप्नोति - चक्रुः जह्रुरिति ? ॥ एवं तर्हि शितीति वर्तते ॥ एवमप्यजुहवुः अबिभयुरित्यत्र न प्राप्नोति ॥ ननु च(1) भूतपूर्वगत्या भविष्यति ॥ न सिध्यति, न ह्युस् शिद्भूतपूर्वः ॥ उस् शिद्भूतपूर्वो नास्तीति कृत्वा उसि यश्शिद्भूतपूर्वस्तस्मिन् भविष्यति ॥ अथ वा क्रियते न्यास एव - अविभक्तिको निर्देशः । नैवं विज्ञायते - मिदेर्गुणो जुसि चेति ॥ कथं तर्हि ? ॥ मिदेर्गुण उ जुसि(1) चेति ॥ किमिदमु जुसीति ? ॥ उकारादौ जुसि (उ जुसिति) । अथ वाऽचीति वर्तते तेन जुसं विशेषयिष्यामोऽजादौ जुसिति ॥ (जुसि च) ॥ Kashika ------- जुसि च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुरित्यत्र कस्माद् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयं यासुडाश्रयं च। तत्र नाप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुण आरभ्यमाणस्तमेव बाधते, यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते चाप्राप्ते चारभ्यत इति॥ Siddhanta Kaumudi ----------------- अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि (SK2268) इति निषिद्धा, ततः अतो हलादेः- (SK2284) इति बाधित्वा अतो ल्रान्तस्य (SK2330) इति प्राप्ता, ह्म्यन्त-(SK2299) इति निषिध्यते ॥ तदाहुः - गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । ।{$ {!1073 दरिद्रा!} दुर्गतौ$} । दरिद्राति ॥ Laghu Siddhanta Kaumudi ----------------------- इगन्ताङ्गस्य गुणोऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ {$ {! 2 ञिभी !} भये $} (धातुपाठे (03.0002)) ॥ बिभेति॥ Balamanorama ------------ **जुसि च** - जुसि च । अङ्गस्येत्यधिकृतम् । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः ।क्सस्याची॑इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः । तदाह — अजादावित्यादिना । अजगरुरिति । अजागः अजागृतमजागृत । अजागरमजागृव अजागृम । विधिलिङि यासुटो ङित्त्वान्न गुणः । जागृयात् जागृयताम् । जागृयुरिति ।जुसि चे॑त्यत्र अजादावित्युक्तेर्न गुण इति भावः । जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति — जागृ इसित्यत्रेति । तत्र कृते इति ।जाग्रोऽविचिण्ण॑लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । 'वृद्धा' इति शेषः । अजागरिष्टामजागरिषुरित्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः = धनहीनीभवनम् । दारिद्रातीति । धनहीनीभवतीत्यर्थः । Tattvabodhini ------------- **जुसि च** - जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः ।क्सस्याची॑त्यतोऽत्यतोऽचीत्यनुवर्तत इत्याह — अजादाविति । जागृयुरिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम् ।यासुटो ङित्तवाच्छृणुयुरित्यादौ गुणो ने॑ति प्राचोक्तिस्तु मनोरमायां दूषिता,जुसि चे॑ति गुणस्य निषेधापवादत्वादिति । केचित्तु — ॒जुसि चे॑त्यत्र उसीत्यावर्त्त्यउरुआऊपे जुसी॑ति व्याख्यानान्नोक्तदोष इत्याहुः ।अजादौ जुसी॑ति समाधानं तु भाष्यारूढम् । जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति — जागृ- इसित्यत्रेति.तत्र कृते इति । हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन बाधः, तेन गुणेनहलन्तत्वसंपादनात् । या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः । अजागरिष्टाम् । अजागरिषुः । अजागरीदित्यादि । दरिद्रा । Padamanjari ----------- उदाहरणेषु लङ् शिपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्,'सिजभ्यस्तविधिभ्यश्च' इति झेर्जुस् । अथेत्यादि । जुस्भक्तस्य यासुटस्तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सार्वधातुकाश्रयङ्त्विनिमित इति । सार्वधातुकमाश्रयो यस्य तत्सार्वधातुकाश्रंय तन् ङ्त्विं निमितं यस्य प्रतिषेधस्य स तथोक्तः । एतेन यासुडाश्रयङ्त्विनिमितमिति व्याख्यातम् । तत्र हि प्राप्ते चाप्राप्ते चेति । चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते । क्सस्याचीत्यनुवर्तते इति । परिहारान्तरम्, जकारोच्चारणं तु चक्रुः - इत्यादौ लिटि मा भूत् ॥ Nyaas ----- इकात्र सन्निहितेन प्रकृतमङ्गं विशिष्यते, विशेषणेन तदन्तविधिर्भवतीत्यत आह - `इगन्तस्य` इत्यादि। `अजुहवुः` इति। लङ्, `सिजभ्यस्तविदभ्यश्च` (3.4.109) इति झेर्जुस्, शपः श्लुः, `श्लौ` (6.1.10) इति द्विर्वचनम्। `अबिभयुः` इति। `ञिभो भये` (धातुपाठः-1084)। `अबिभरुः` इति। `डु भृञ्? धारणपोषणयोः` (धातुपाठः-1087), `भुञामित्` (7.4.76) इत्यभ्यासस्येत्त्वम्। `चिनुयुः सुनुयुः` इति। लिङ्, यासुट्? झेर्जुस्, **स्वादिभ्यः श्नुः** (3.1.73) **उस्यपदान्तात्** (6.1.96) इति पररूपत्वाम्। `तत्र नाप्राप्ते` इत्यादि। सार्वाधातुकमाश्रयो यस्यतत्? सार्वधातुकाश्रयम्। ङित्त्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः। स सर्वत्रैव जुसि प्राप्नोतीति तस्मिन्नाप्राप्तेऽयं गुण आरभ्यमाणस्तस्यैव बाधको भविष्यति; न तु यस्य यासुडाश्रयं ङित्त्वं निमित्तम्, तस्यापि। अत्र हि प्राप्ते चाप्राप्तेऽयमारभ्यते। चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते। चकारः समुच्चये। नान्यत्? समुच्चेतव्यमस्तीत्यस्यैव लक्षणस्य पुनरावृत्तिमाचष्टे। तेन प्रकृतलक्षणस्यापि प्रतिषेधविषये भवति। `अदीधयुः` इति। `दीधीङ्? दीप्तिदेवनयोः` (धातुपाठः-1076), लङ्? व्यत्ययेन परस्मैपदम्, झिः, **जक्षित्यादयः षट्** (6.1.6) इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुस्, अदादित्वाच्छपो लुक्। ततः **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः प्राप्तः, स **क्ङिति च** (1.1.5) इति प्रतिषिद्धः, सोऽप्यनेन पुनः प्राप्तौ **दीधीवेवीटाम्** (1.1.6) इति प्रतिषिद्धः समुच्चयार्थत्वाच्चकारस्य भवति॥ Prakriyasarvasvam ----------------- जुसि परे इगन्तस्य गुणः स्यात् । अजुहवुः । अजुहाः । अजुहुतम् । अजुहवम् । अजुहुव । लुङि अहौषीत् । अहौष्टाम् । अहौषुः । अहौषीः । अहौषम् । अहौष्व । कर्मणि अहावि । अहाविषाताम् । अहोषाताम् । लिटि,