73082: मिदेर्गुणः

Padacheda: मिदेः | S | 6 | 1 |

गुणः | S | 1 | 1 |

Sutrartha


Vasu English Summary

For इ in मिद् there is substituted a गुण before a शित् affix.

Vasu English Translation

For इ in मिद् there is substituted a गुण before a शित् affix. As मेद्यति, मेद्यतः, मेद्यन्ति ॥ Why मिद् only? Observe स्विद्यन्ति, क्लिद्यन्ति ॥ The root ञिमिदा belongs both to the Bhvadi and the Divadi classes. The Bhvadi मिद् will get guna before शप् by virtue of (7.3.86), but the Divadi मिद् would not have got guna before श्यन्, as this affix is ङित् (1.2.4): hence the necessity of this sutra. Before non शित् affixes there is no guna, as मिद्यते, मेमिद्यते ॥

Kashika

मिदेरङ्गस्येको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः मेद्यन्ति। शितीत्येव — मिद्यते॥

Siddhanta Kaumudi

मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ।{$ {!744 ञिष्विदा!} स्नेहनमोचनयोः$} । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ।{$ {!745 रुच!} दीप्तावभिप्रीतौ च$} । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट ।{$ {!746 घुट!} परिवर्तने$} । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ।{$ {!747 रुट!} {!748 लुट!} {!749 लुठ!} प्रतिघाते अरुटत्$} । अरोटिष्ट ।{$ {!750 शुभ!} दीप्तौ$} ।{$ {!751 क्षुभ!} संचलने$} ।{$ {!752 णभ!} {!753 तुभ!} हिंसायाम्$} । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च ।{$ {!754 स्रंसु!} {!755 ध्वंसु!} {!756 भ्रंसु!} अवस्रंसने$} । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ ।{$ {!757 स्रम्भु!} विश्वासे$} । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ।{$ {!758 वृतु!} वर्तने$} । वर्तते ॥

Balamanorama

मिदेर्गुणः - ॒मिमिदे॑ इत्यत्र लिटःअसंयोगा॑दिति कित्त्वेऽपि गुणं शङ्कितुमाह — मिदेर्गुणः ।मिदे॑रित्यवयवषष्ठी । गुणश्रुत्या ‘इको गुणवृद्धी’ इति परिभाषया इक इत्युपतिष्ठते,ष्ठिवुक्लमुचमां शिति॑ इत्यतः शितीत्यनुवर्तते । श् चासाविच्चेति कर्मधारयः । तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते । तदाह — मिदेरित्यादिना । दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह — एश आदिशित्त्वाभावादिति । ञिष्विदेति । षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति । अभिप्रीतिः- प्रीतिविषयीभवनम् । दीप्तौ उदाहरत — रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति — हरये रोचते भक्तिरिति । भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः ।रुच्यर्थाना॑मिति संप्रदानत्वाच्चतुर्थी । क्षुभ संचलने इति । क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुर्णोपदेश नभते । आद्योऽभावे चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति — नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह — मा भूवन्नन्यके सर्वे इति ।नभन्ता॑मित्यस्य विवरणं — भा भूवन्निति । न भवन्तीत्यर्थः ।समे॑इत्यस्य विवरणं — सर्वे इति । निरुक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । रुआंसु ध्वंसु भ्रंसु इति । त्रयो नोपधा इति भावः । नारुआसदिति । ‘नारुआंस’ दित्यपपाठः । नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात् । रुआम्भुदातुरकारमध्यः । वृतु वर्तने इति । उदित् ऋदुपधः सेट्कः । वर्तते इति । शपि गुणे रपरत्वम् । ववृते इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि — वर्तिता ।

Tattvabodhini

मिदेर्गुणः - मिदेर्गुणः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तते । तत्र शश्चासौ इच्चेति कर्मदारयात्समप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेनयस्मिन्विधि॑रिति तदादिविधिः प्रवर्तते । तदाह — इत्संज्ञकशकारादाविति । आदिशित्त्वाभावादिति । मेद्यति मेद्यत इत्यादौ तुदिवादिभ्य॑ इति श्यन आदिशित्त्वाद्गुणो भवत्येव । मिमिदे इति ।शिती॑ति बहुव्रीहौ त्विह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः । ञिष्विदा । अनिट्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेट् । स्वेदिता । स्वेदिष्यते । ञिक्ष्विदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम् । हरये इति ।रुच्यर्थाना॑मिति संप्रदानसंज्ञायां चतुर्थी । घुट् ।परिवर्तनम् — इतस्ततो भ्रमणम् । जुघुटे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । क्षुभ । संचलनं — प्रकृतिविपर्यासो,मन्थनं च । क्षोभते ।क्षुभ्यती॑ति दिवादौ ।क्षुभ्नाती॑ति क्र्यादौ । नारुआसदिति ।नारुआंस॑दित्यपपाठ एव । न चेदं लहो रूपं, तत्र परस्मैपदाऽसंभवादिति भावः ।

Padamanjari

मेद्यतीति । श्यन् । मिद्यत इति । भावे यक् ॥

Nyaas

ञिमिदा स्नेहने (धातुपाठः-743,1243) इति भौवादिको दैवादिकश्च, तत्र दिवादेरिह ग्रहणम्; इतरस्व ह्रङित्त्वाच्छपः पुगन्तलघूपधस्य च (7.3.86) इत्येवं गुणः सिद्धः। मिद्यते इति। भावकर्मणोः (1.3.13) इत्यात्मनेपदम्, सार्वधातुके यक् (3.1.67) ॥

Prakriyasarvasvam

मिदेः शिति परे गुणः स्यात् । मेद्यति । भावे मिद्यते । लुङि पुषाद्यङ् । अमिदत् । अमिदताम् । मिमेद । मिमिदतुः । मिमेदिथ । मिमिदिव । मिद्यात् । मेदिता । मेदिष्यति । भावे अमेदि । मिमिदे । मेदिषीष्ट । दीङ् क्षये । दीयते । भावेऽप्येवम् । लुङि सिचो गुणकृत्त्वाद् ‘मीनाति- मिनोति-’ इत्येज्निमित्त आत्वम् । अदास्त । अदासाताम् । अदाध्वम् । अदासि । भावे चिणि वृद्ध्यवात्वे युक् । अदायि लिटि,