73052: चजोः कु घिण्ण्यतोः

Padacheda: चजोः | S | 6 | 2 |

कु | S | 1 | 1 |

घित्-ण्यतोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

For the final च् or ज् of a root, there is substituted a corresponding guttural, before an affix having an indicatory ध् and before ण्यत्।

Vasu English Translation

For the final च् or ज् of a root, there is substituted a corresponding guttural, before an affix having an indicatory ध् and before ण्यत्।

As पाक, त्यागः, रागः with घञ्, and चाक्यम्, वाक्यम् and रेक्यम् with ण्यत् ॥ Compare (7.3.59).

Kashika

चकाराजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति — पाकः। त्यागः। रागः। ण्यति — पाक्यम्। वाक्यम्। रेक्यम्॥

Siddhanta Kaumudi

चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥<!निष्ठायामनिट इति वक्तव्यम् !> (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः (SK2473) ॥

Laghu Siddhanta Kaumudi

चजोः कुत्वं स्यात् घिति ण्यति च परे॥

Balamanorama

चजोः कु घिण्ण्यतोः - चजोः कु । ‘कु’ इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।

Tattvabodhini

चजोः कु घिण्ण्यतोः - चजोः । यथासङ्ख्यं नेह विवक्षितं,तेन रक्तं रागात् इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं । तदालोच्याह — चस्य जस्य चेत्यादि । घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः ।

Padamanjari

पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ऋहलोर्ण्यत् । यथासंख्यमत्र न भवति - घिति चकारस्य, ण्यति जकारस्येति; ‘भुजन्युब्जौ पाण्युपतापयोः’ ,’प्रयाजानुयाजौ यज्ञाङ्गे’ ,’वचोऽशब्दसंज्ञायाम्’ इत्यादेर्लिङ्गात् । क्वचित्तु पठ्यते - यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥

Nyaas

पाकः, त्यागः इति। भावे घञ्। पाक्यम्, वाक्यम् इति। ऋहलोर्ण्यत् (3.1.124) । ननु चात्र घिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति - चकारस्य घिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारस्य कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत् भुजन्युब्जौ पाण्युपतापयोः (7.3.61) , प्रयाजानुयाजौ यज्ञाङ्गे (7.3.62) इति घञि जकारस्य कुत्वाभावं निपातयति, तेन रक्तं रागात् (4.2.1) इति च निर्देशं करोति, तज्ज्ञापयति - यथासंख्यमिह न भवतीति ॥

Prakriyasarvasvam

घिति ण्यति च परे चजोः कुत्वं स्यात् । रेक्यं । योग्यम् मस्जेः कुत्वे सस्य ‘झलां जश्—’ (८-४-५३) इति जश्त्वम् । मद्ग्यम् ।

Vartika

निष्ठायामनिट इति वक्तव्यम् ।

Sutra Prayogas

  • सौभाग्यविशेषभाग्यम् (रघुवंशम्): चजोः कु घिण्यतोः इति कुत्वम्।

  • नासाविरोकपवनोल्लसितं (शिशुपालवधम्): चजोः कु घिण्यतोः इति कुत्वम्।