73052: चजोः कु घिण्ण्यतोः ========================= **Padacheda:** चजोः | S | 6 | 2 | कु | S | 1 | 1 | घित्-ण्यतोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- For the final च् or ज् of a root, there is substituted a corresponding guttural, before an affix having an indicatory ध् and before ण्यत्। Vasu English Translation ------------------------ For the final च् or ज् of a root, there is substituted a corresponding guttural, before an affix having an indicatory ध् and before ण्यत्। As पाक, त्यागः, रागः with घञ्, and चाक्यम्, वाक्यम् and रेक्यम् with ण्यत् ॥ Compare (7.3.59). Kashika ------- चकाराजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति — पाकः। त्यागः। रागः। ण्यति — पाक्यम्। वाक्यम्। रेक्यम्॥ Siddhanta Kaumudi ----------------- चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥ (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः (SK2473) ॥ Laghu Siddhanta Kaumudi ----------------------- चजोः कुत्वं स्यात् घिति ण्यति च परे॥ Balamanorama ------------ **चजोः कु घिण्ण्यतोः** - चजोः कु । 'कु' इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् । Tattvabodhini ------------- **चजोः कु घिण्ण्यतोः** - चजोः । यथासङ्ख्यं नेह विवक्षितं,तेन रक्तं रागात् इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं । तदालोच्याह — चस्य जस्य चेत्यादि । घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः । Padamanjari ----------- पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ऋहलोर्ण्यत् । यथासंख्यमत्र न भवति - घिति चकारस्य, ण्यति जकारस्येति; 'भुजन्युब्जौ पाण्युपतापयोः' ,'प्रयाजानुयाजौ यज्ञाङ्गे' ,'वचोऽशब्दसंज्ञायाम्' इत्यादेर्लिङ्गात् । क्वचित्तु पठ्यते - यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥ Nyaas ----- `पाकः, त्यागः` इति। भावे घञ्। `पाक्यम्, वाक्यम्` इति। ऋहलोर्ण्यत् (3.1.124) । ननु चात्र घिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति - चकारस्य घिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारस्य कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत् **भुजन्युब्जौ पाण्युपतापयोः** (7.3.61) , **प्रयाजानुयाजौ यज्ञाङ्गे** (7.3.62) इति घञि जकारस्य कुत्वाभावं निपातयति, `तेन रक्तं रागात्` (4.2.1) इति च निर्देशं करोति, तज्ज्ञापयति - यथासंख्यमिह न भवतीति ॥ Prakriyasarvasvam ----------------- घिति ण्यति च परे चजोः कुत्वं स्यात् । रेक्यं । योग्यम् मस्जेः कुत्वे सस्य 'झलां जश्—' (८-४-५३) इति जश्त्वम् । मद्ग्यम् । Vartika ------- निष्ठायामनिट इति वक्तव्यम् । Sutra Prayogas -------------- * **सौभाग्यविशेषभाग्यम्** (रघुवंशम्): `चजोः कु घिण्यतोः` इति कुत्वम्। * **नासाविरोकपवनोल्लसितं** (शिशुपालवधम्): `चजोः कु घिण्यतोः` इति कुत्वम्।