73053: न्यङ्क्वादीनां च¶
Padacheda: न्यङ्क्वादीनाम् | S | 6 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The guttural is substituted in न्यङ्क्वु etc..
Vasu English Translation¶
The guttural is substituted in न्यङ्क्वु etc.. (1) By the sutra नावङ्चेः (Unadi I.17), the affix उ is added to the root अञ्च् preceded by नि ॥ (2) मद्गु is formed by adding उ to the root मस्ज (Unadi I.7) (3) भृगुः, is formed by the affix उ added to the root भ्रस्ज, the स् is elided, and र is vocalised (Unadi I.28). (4 and 5) दूरेपाकः, फलेपाकः formed by the अच् affix of पचादि class, (= दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव) ॥ The vriddhi is by nipatana. The seventh case-affix is not elided in these compound words by (6.3.14). (6) क्षणेपाकः ॥ This word is read by some. Others read these as दूरेपाका, फलेपाका with टाप् ॥ A third reading is दूरेपाकुः फलेपाकुः, by the affix उ added irregularly. (7 and 8) तक्र and वक्र ॥ These are formed from the roots तञ्च and वञ्च with the affix रक् (Unadi II.13). (9) व्यतिषङ्गः formed from व्यतिषजति with पचादि अच् ॥ (10) अनुषङ्गः ॥ (11) अवसर्गः ॥ (12) उपसर्गः ॥ (13) मेघः ॥ (14) श्वपाकः ॥ (15) मांसपाकः (16) कपोतपाकः (17) उलूकपाकः ॥ (18) पिण्डपाकः formed by the affix अण् with an accusative word in construction as upapada. (19) अर्घः when it denotes a name meaning ‘price’. This is formed from the root अर्ह with the affix घञ् ॥ When it is not a name, the form is अर्हः ॥ (20 and 21) अवदाघः and निदाघः, when they are names meaning “Summer or Hot season”. These are formed from the root दह् preceded by अव and नि ॥ But when they are not names, the forms are अवदाहः, निदाहः ॥ (22) न्यग्रोधः formed from the root रुह् preceded by न्यक् and by adding the पचादि अच् ॥ The ह् is changed to ध ॥ (23) वीरुत् ॥ Formed from रुह् with वि and the affix क्विप्, and ह changed toध ॥ न्यग्रोहयति and विरोहयति ॥
1 न्यङ्कु, 2 मद्गु, 3 भृगु, 4 दुरेपाक, 5 फलेपाक, 6 क्षणेपाक, 7 दूरेपाका, 8 फलेपाका, 9 दूरेपाकु, 10 फलेपाकु, 11 तक्र, 12, वक्र, 13 व्यतिषङ्ग, 14 अनुषङ्ग, 15 अवसर्ग, 16 उपसर्ग, 17 श्वपाक, 18 मांसपाक, 19 मूलपाक, 20 कपोतपाक, 21 उलूकपाक, 22 संज्ञायां मेघनिदाघावदाघार्षाः मेघ 23 न्यग्रोध, 24 वीरुध् ॥
Kashika¶
न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति। न्यङ्कुः। नावञ्चेः (प०उ० १.१७) इत्युप्रत्ययः। मद्गुः। मिमस्जिभ्य उः (प०उ० १.७) इति मस्जेरुप्रत्ययः। भृगुः। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (प०उ० १.२८) इत्युप्रत्ययः। दूरेपाकः। फलेपाकः। दूरे पच्यते स्वयमेव फले पच्यते स्वयमेव। पचाद्यच् (३.१.१३४) निपातनाद् वृद्धिः। तत्पुरुषे कृति बहुलम् (६.३.१४) इति सप्तम्या अलुक्। क्षणेपाक इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इति टाबन्तमपरेऽधीयते। उकारान्ता वपरे — दूरेपाकुः, फलेपाकुरिति। तेषामुप्रत्ययो निपातनादेव। तक्रम्, वक्रमिति। तञ्चतेर्वञ्चतेश्च स्फायितञ्चिवञ्चि० (प०उ० २.१३) इत्यादिना सूत्रेण रक्। व्यतिषङ्गः। व्यतिषजतीति पचाद्यच् (३.१.१३४)। अनुषङ्गः। अवसर्गः। उपसर्गः। मेघः। श्वपाकः। मांसपाकः। कपोतपाकः। उलूकपाक इति। कर्मोपपदादण् (३.२.१) प्रत्ययः। संज्ञायाम् — अर्घः, अवदाघः, निदाघः। अर्हतेर्घञ्, अर्घः। अवपूर्वस्य निपूर्वस्य च दहेरवदाघः, निदाघः। संज्ञाया अन्यत्र अर्हः। अवदाहः। निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहतीति न्यग्रोधः। विरोहतीति वीरुत्॥
Siddhanta Kaumudi¶
कुत्वं स्यात् । न्यङ्कुः । नावञ्चेः (उणादिः 1.17) इत्युप्रत्ययः ॥
Tattvabodhini¶
न्यङ्क्वादीनां च - न्यङ्कुरिति ।कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः॑ इत्यमरः ।
Padamanjari¶
न्यङ्कु इत्येवमादीनां चेति ।’सिद्धये’ इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् । संज्ञायां मेघ इत्यादि । मेघःउपरोयघरः, निदाघःउघर्मः, अवदाघोऽपि स एव । अर्घःउविक्रीयमाणस्य धान्यादेरियता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ॥
Nyaas¶
अधिण्ण्यदर्थोऽयमारम्भः। नावञ्चतेरित्युप्रत्ययः इति। तत्र भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः (द।उ।1।92) इत्यनुवृत्तेः। मद्गुः इति। टुमस्जो शुद्धौ (धातुपाठः-1415), झलां जश् झशि (8.4.53) इति सकारस्य दकारः। मिमस्जिभ्य उः इति। अनेन भृमृशीतृचरि (द।उ।1।92) इत्यादिकमुपलक्षयति। भृगुः इति। भ्रस्ज पाके (धातुपाठः-1284)। प्रथिभ्रदि (द।उ।1।113) इत्यादिके सूत्रऽत एव सूत्रा(द।उ।1।92)दुप्रत्ययोऽनुवर्तते। दूरेपाकः`[`दूरेपाकाः - मु।पाठ] इति। कर्मकर्तरि पचाद्यच्। उकारान्तावपेर इति। अधीयत इत्यपेक्ष्यते। तञ्चतेः इति। तन्चु त्वन्चु गतौ (धातुपाठः-191,192) इति, वन्चु प्रलम्भने (धातुपाठः-1703) स्फायितञ्चिवञ्चि इति सूत्रैकदेशः स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दिइआतिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक् (द।उ।8।31) इत्येतत्? सूत्रमुपलक्षयति। व्यतिषङ्गः इति। षन्ज सङ्गे (धातुपाठः-987) अवसर्गः इति। सृज विसर्गे (धातुपाठः-1178) पचाद्यच। मेधः इति। मिह सेचने (धातुपाठः-992)। अजेव। आपाकः इति। कर्मोपपदादण्प्रत्ययः कर्मष्यण् (3.2.1) इत्यनेन। अर्हतेः इति। अर्ह पूजायाम् (धातुपाठः-740)। दहेः इति। दहभस्मीकरणे (धातुपाठः-992)। रुहेः इति। रुह बीजजन्मनि प्रादुर्भावे (धातुपाठः-859)।ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठन्ते, तत्किमर्थमिदम्, यथैव हि कुत्वादन्यत्? कार्यं भवति निपातनात्? तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्रतस्मिन्? प्रमादपाठो विज्ञायतेत॥
Prakriyasarvasvam¶
एषां दृष्टं कुत्वादिकार्यं साधु स्यात् । इति मिहेः कुः रुहेर्घः ।