73051: इसुसुक्तान्तात् कः¶
Padacheda: इस्-उस्-उक्-त-अन्तात् | S | 5 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
इस्/उस्-प्रत्ययान्त-अङ्गात् , तकारान्त-अङ्गात्, तथा च उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अन्ति तादृशात् अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ककारादेशः भवति ।
ठस्येकः (7.3.50) अनेन सूत्रेण प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ‘इक्’-आदेशे प्राप्ते तस्य अपवादत्वेन केभ्यश्चन अङ्गेभ्यः परस्य ठकारस्य वर्तमानसूत्रेण ‘क्’ इति आदेशः विधीयते । तानि अङ्गानि एतानि - 1. इस्-प्रत्ययान्त-अङ्गम् - ‘इस्’ इति कश्चन उणादिप्रत्ययः अस्ति । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ** अनेन उणादिसूत्रेण अस्य प्रत्ययस्य विधानम् भवति । अर्चिस्, शुचिस्, सर्पिस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् - सर्पिस् + ठक् → सर्पिस् + क [**इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → सार्पिस् + क [किति च (7.2.118) इति आदिवृद्धिः] → सार्पिः + क [ससजुषोः रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → सार्पिष् + क [इणः षः (8.3.39) इति विसर्गस्य षत्वम् ] → सार्पिष्क । 2. उस्-प्रत्ययान्त-अङ्गम् - ‘उस्’ इति अपि कश्चन तद्धितप्रत्ययः । ** अर्तिपॄवपियजितनिधनितपिभ्यो नित्ः ** अनेन उणादिसूत्रेण (तथा अन्यैः कैश्चन उणादिसूत्रैः) अस्य विधानम् क्रियते । वपुस्, धनुस्, यजुस्, तनुस् - आदयः शब्दाः उस्-प्रत्ययान्ताः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् - धनुस् + ठक् [प्रहरणम् (4.4.57) इति ठक्] → धनुस् + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → धानुस् + क [किति च (7.2.118) इति आदिवृद्धिः] → धानुः + क [ससजुषोः रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → धानुष् + क [इणः षः (8.3.39) इति विसर्गस्य षत्वम् ] → धानुष्क 3. उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अस्ति तादृशमङ्गम् - उक्-प्रत्याहारे उ, ऋ, ऌ - एते वर्णाः वर्तन्ते । अतः यत् अङ्गमुकारान्तम् / ऋकारान्तम् / ऌकारान्तमस्ति, तस्मात् परस्य प्रत्ययादि-ठकारस्य वर्तमानसूत्रेण ककारादेशः भवति । उदाहरणे एते - (अ) उवर्णान्तमङ्गम् - धेनु + ठक् [तस्य समूहः (4.2.37) अस्मिन् अर्थे अचित्तहस्तिधेनोष्ठक् (4.2.47) इत्यनेन धेनु-शब्दात् ठक्-प्रत्ययः] → धेनु + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → धैनु + क [किति च (7.2.118) इति आदिवृद्धिः] → धैनुक (आ) ऋवर्णान्तमङ्गम् पितृ + ठञ् [ततः आगतः (4.3.74) अस्मिन् अर्थे ऋतष्ठञ् (4.3.78) इति ठञ्-प्रत्ययः] → पितृ + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → पैतृ + क [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पैतृक 4. तकारान्तमङ्गम् - यदि तकारान्त-अङ्गात् परः ठकारादिप्रत्ययः आगच्छति, तर्हि तस्य ठकारस्य ककारादेशः भवति । यथा - यकृत् + ठक् [संसृष्टे (4.4.22) इति ठक्] → यकृत् + क [इसुसुक्तान्तात् कः (7.3.51) इति ठकारस्य ककारादेशः] → याकृत् + क [किति च (7.2.118) इति आदिवृद्धिः] → याकृत्क । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - <!दोष उपसंख्यानम् !> । इत्युक्ते, ‘दोष्’ इत्यस्मात् शब्दात् यदि ठकारादिप्रत्ययः विधीयते, तर्हि तस्य ठकारस्य अपि ककारादेशः एव कर्तव्यः । यथा - दोष् + ठक् → दौष्क । स्मर्तव्यम् - सर्वे ‘इस्’ समुदायान्तशब्दाः इस्-प्रत्ययान्ताः न सन्ति । यथा, ‘आशिस्’ अयं शब्दः इस्-प्रत्ययान्तः नास्ति, अपितु ‘आङ् + शास्’ धातोः क्विप् प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्य शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, आशिस् + ठक् → आशिषिक । अत्र ठस्येकः (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः एव जायते ।
Sutrartha (English)¶
A ठकार present at the beginning of a प्रत्यय is converted to ‘क्’ for an इस्-प्रत्ययान्त अङ्ग, उस्-प्रत्ययान्त अङ्ग, उक्-वर्णान्त अङ्ग and तकारान्त अङ्ग.
Vasu English Summary¶
क is substituted for ठ after a अङ्ग (stem) ending in 1. इस् 2. उस् 3. उ or ऊ 4. ॠ and 5. त्।
Vasu English Translation¶
क is substituted for ठ after a अङ्ग (stem) ending in 1. इस् 2. उस् 3. उ or ऊ 4. ॠ and 5. त्। As सार्पिष्कः, धानुष्कः, याजुष्कः, नैषादकर्षुकः, शाम्बरजम्बुकः, मातृकम्, पैतृकम्, औदश्वित्कः, शाकृत्कः, याकृत्कः ॥ The इस् and उस् are the affixes of that name, therefore not here, आशिषिकः (= आशिषा चरति), औषिका (= उषा चरति) ॥
Vart:- So also after दोष, as दौष्कः (दोर्भ्यां चरति) ॥
The word सार्पिष्कः is formed by ठक् of तदस्य पण्यं, (4.4.51) and स is changed to ष by इणः षः (8.3.39). भानुष्कः is by ठक् of प्रहरणं ॥ याजुष्क is by ठक् of दीव्यति ॥ नैषादकर्षुकः &c by ठञ् of भवादावर्थे ओर्देशे ठञ् ॥ मातृकः by ठञ् of तत आगतः, ऋतष्ठञ् ॥ औदाश्वत्कः by ठक् (4.2.19) शाकृत्कः by ठञ् of संसृष्टे (4.4.12).
Bhashya¶
इसुसुक्तान्तात्कः इह कस्मान्न भवति, - आशिषा तरति(1) - आशिषिकः । उषा तरति औषिकः ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ अथेह कथं भवितव्यं - दोर्भ्यां तरति(2) ? ॥ दौष्क इति भवितव्यम् ॥ कथम् ? ॥ यदि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते ॥ ( इसुसुक्तान्तात्कः ) ॥
Kashika¶
इस् उस् इत्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य क इत्ययमादेशो भवति। इस् — सार्पिष्कः। उस् — धानुष्कः। याजुष्कः। उक् — नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात् — औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति — आशिषा चरति आशिषिकः, उषा चरति औषिकः॥ दोष उपसंख्यानम्॥ दोर्भ्यां तरति दौष्कः॥
Siddhanta Kaumudi¶
इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः ।<!दोष उपसंख्यानम् !> (वार्तिकम्) ॥ दोर्भ्यां चरित दौष्कः ॥
Laghu Siddhanta Kaumudi¶
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥
Balamanorama¶
इसुसुक्तान्तात् कः - इसुसुक्तान्तात्कः । इसुसुक्ता अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत् । अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति ‘ठस्येकः’ इत्यत्रोक्तम् ।आयती॑त्यस्य विवरणम् — वर्धते इति ।टु ओ इआ गतिवृद्ध्योः॑ इति धातुरिह वृद्धयर्थक इति भावः । उदइआदिति । क्विपि तुक् ।उदकस्योदः संज्ञाया॑मित्युदादेशः ।तक्रं हृदुइआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः । प्रतिपदोक्तयोरिति । इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्क इति । आशिषिक इति ।चरती॑ति ठक् । शासुधातो क्विपि ‘आशासः क्वौ’ इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य
Tattvabodhini¶
इसुसुक्तान्तात् कः - इसुसुक्तान्तात् ।ता॑दित्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धेऽन्तग्रहणं प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो न भवतीतिठस्येकः॑इति सूत्रे कैयटः । संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्युक्तं शक्यमित्यन्ये । उदइआदिति । आयतेः क्विपि तुक् ।उदकस्योदः॑इत्युदादेशः । इहैव निपातनात्संप्रसारणाऽभावः ।
Padamanjari¶
सार्पिष्क इति ।’तदस्य पण्यम्’ इति ठक्, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् । धानुष्क इति । प्रहरणमिति ठक् । याजुष्क इति । दीव्यत्यर्थे ठक् । नैषादकर्षुकः, शाबरजम्बुक इति । भवादावर्थे ठोर्देअशे ठञ्ऽ, कादेशे कृते’के’ णःऽ इति ह्रस्वत्वम् । मातृकम्, पैतृकमिति । तत आगतः, ठृतष्ठञ्ऽ । औदश्वित्क इति ।’संस्कृत भक्षाः’ ,’दध्नष्ठक्’ , ठुदश्वितोऽन्यतरस्याम्ऽ इति सप्तम्यन्ताट्ठक् । शाकृत्कः, याकृत्कः, याकृत्क इति ।’संसृष्टे’ इति ठञ् । आशिषेति । ठाङ्ः शासु इच्छायाम्ऽ इत्यस्मादाशासनमाशीरिति सम्पदादित्वाद् भावे क्विप्, ठाशासः क्वावुपसंख्यानम्ऽ इतीत्वम् । उषेति । वसेः क्पिप्, यजादित्वात्सम्प्रसारणे लाक्षणिकं रूपमिति । सर्पिरादौ तु ठर्चिशुचिहूसृपिच्छादिभ्य इसिःऽ,’जनेरुसिः’ , ठर्तिवपियजित्रापिधनिभ्यो नित्ऽ इति प्रतिपदोक्तमिसुसो रूपम् । दोष उपसंख्यानमिति । वर्णैकदेशानां वर्णग्रहणेनाग्रहणादोकारे य उकारः, तस्य उकारग्रहणेनाग्रहणादुपसंख्यानम् ॥
Nyaas¶
पूर्वेणेकादेशे प्राप्त इसाद्यन्तात्? कादेश उच्यते। सर्पिष्कः इति। तदस्य पच्यम् (4.4.51) इति प्राग्वहतीयष्ठक्, रुत्वविसर्जनीयौ, विसर्जनीयस्य इसुसोः सामर्थ्ये (8.3.44) इति षत्वम्। धानुष्कः इति। तदस्य ग्रहणम् (4.4.57) इति ठक्। याजुष्कः इति। तेन दीव्यति (4.4.2) इति ठक्। नैषादकर्षुकः, शाबरजम्बूकः इति। निषादकर्ष्वां जातः, शाबरजम्बां जात इति ओर्देशे ठञ् (4.2.119) , केऽणः (7.4.13) इति ह्रस्वः। मातृकम् पैतृकम्` इति। मातुरागतम्, पितुरागतमिति - ऋतष्ठञ् (4.3.78) । औदइआत्कः इति। उदश्वितोऽन्यतरस्याम् (4.2.19) इति ठक्। शाकृत्कः, याकृत्कः` इति। शकृता यकृता संसृष्टे (4.4.22) इति ठक्। अथेह कस्मान्न भवति - आशिषा चरतीत्याशिषिकः, उषा चरतीत्यौषिकः? इत्याह - इसुसोः इत्यादि। अर्चिसुचिहुसृपिछादिछर्दिभ्य इसिः (द।उ।9।30), जनेरुसिः (द।उ।9।37), अर्त्तिपृवपियजितनिधनितपिभ्यो नित् (द।उ।9।39) इत्यादिना प्रकरणेन यौ विहितौ तयोर्लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) प्रतिपदोक्तयोरिसुसोग्र्रहणम्। तेनाशिषिकः, औषिक इत्यत्रापि न भवति; लाक्षणिकत्वादिसुसोः। तथा ह्राङपूर्वात्? शासु इच्छायाम् (धातुपाठः-1022) इत्यस्मात्, वस निवासे (धातुपाठः-1005) इत्येतस्माच्च केवलात्? क्विपि कृते शास इदङ्हलोः (6.4.34) सम्प्रसारणे परपूर्वत्वे च कृत इसुसति रूपं प्रतिपद्यते। आशिषिकः, औषिकः इति। शासिवसिधसीनां च। (8.3.60) इति षत्वम्। तस्य त्वसिद्धत्वात्? कादेश प्राप्तिराशङ्किता। `दोष उपसंख्यानम् इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - नञ्पूर्वाणामपि (7.3.47) इत्यतोऽपगरहणमनुवर्तते; स चानुक्तसमुच्चयार्थः, तेन दोषोऽपि भविष्यति॥
Vartika¶
दोष उपसंख्यानम् ।
Sutra Prayogas¶
धानुष्कस्य (शिशुपालवधम्): इसुसुक्तान्तात्कः इति ठकः कादेशः।
औपजानुकौ (भट्टिकाव्यम्): इसुसुक्तान्तात्कः इति।
पैतृकं (भट्टिकाव्यम्): इसुसुक्तान्तात्कः इति कः।
धानुष्क (भट्टिकाव्यम्): इसुसुक्कान्तात्कः इति ततः सेनाङ्गत्वात्कृतैकवद्भावः तेनान्वितावनुगतौ ।
भावत्कं (भट्टिकाव्यम्): इसुसुक्तान्तात्कः इति क-प्रत्ययः।