73050: ठस्येकः

Padacheda: ठस्य | S | 6 | 1 |

इकः | S | 1 | 1 |

Sutrartha

अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ‘इक्’ आदेशः भवति ।

प्रत्ययस्य आदौ विद्यमानः यः ठकारः, तस्य अनेन सूत्रेण ‘इक्’ इति आदेशः भवति । ज्ञातव्यम् - 1. यद्यपि इदं सूत्रमङ्गाधिकारे अस्ति, तथाप्यत्र ‘अङ्गस्य’ अयम् शब्दः ‘अङ्गात्’ इति विपरिणम्यते । अतः अङ्गात् परस्य (प्रत्ययस्य) यः प्रत्ययः तस्मिन् विद्यमानस्य ठकारस्य अनेन सूत्रेण ‘इक्’ आदेशः भवति । 2. आदेः परस्य (1.1.54) अनेन सूत्रेण प्रत्ययस्य आदौ स्थितस्यैव ठकारस्य अनेन सूत्रेण आदेशः भवति । अतः ‘अठच्’, ‘इष्ठन्’ - एतादृशेषु प्रत्ययेषु विद्यमानस्य ठकारस्य अनेन सूत्रेण इक्-आदेशः न विधीयते । उदाहरणद्वयम् एतत् - 1. रेवत्यादिभ्यः ठक् (4.1.146) अनेन सूत्रेण रेवत्यादिगणस्य शब्देभ्यः तस्य अपत्यम् (4.1.92) अस्मिन् अर्थे ‘ठक्’ प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति । रेवती + ठक् → रेवती + ठ [ककारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः] → रेवती + इक [ठस्येकः (7.3.50) इति ठ्-इत्यस्य इक्-आदेशः] → रैवती + इक [किति च (7.2.118) इति आदिवृद्धिः] → रैवत् + इक [यस्येति च (6.4.148) इति ईकारलोपः] → रैवतिक 2. लवणात् ठञ् (4.4.52) अनेन सूत्रेण ‘लवण’शब्दात् तदस्य पण्यम् (4.4.51) अस्मिन् अर्थे ‘ठञ्’ प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति । लवण + ठञ् → लवण + ठ [ञकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः] → लवण + इक [ठस्येकः (7.3.50) इति ठ्-इत्यस्य इक्-आदेशः] → लावण + इक [तद्धितेष्वचामादेः (6.4.147) इति आदिवृद्धिः] → लावण् + इक [यस्येति च (6.4.148) इति ईकारलोपः] → लावणिक ज्ञातव्यम् - 1. प्रत्ययस्य आदौ स्थितस्य ठकारस्य चुटू (1.3.7) इत्यनेन इत्संज्ञा न भवति - प्रयोजनस्य अभावात् । 2. इसुसुक्तान्तात् कः (7.3.51) एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण आगच्छति ।

Sutrartha (English)

A ठकार present at the beginning of a प्रत्यय is converted to ‘इक्’.

Vasu English Summary

For ठ at the beginning of a तद्धित affix there is substituted इक्।

Vasu English Translation

For ठ at the beginning of a तद्धित affix there is substituted इक्। As आक्षिकः, शालाकिकः (ठक् (4.4.1)), लावणिकः (ठञ् (4.4.52)). In the affixes ठक्, ठञ् &c, if the affix is the consonant ठ्, and अ is only for euphony, then here also the अ is for pronunciation only: but if on the contrary, the aggregate ठ (ठ् + अ) is the affix, then the same is the case here. This rule does not apply in Unadi affixes always, as कणेष् ठः = कण्ठः (Unadi l. 103), for there is diversity (बहुल) in the Unadi.

माथितिकः (= मथितं पण्यमस्य (4.4.51)) is thus formed मथित + ठक् = मथित् + इक (6.4.148) theअ is dropped)). Now arises the doubt, should इक be replaced by क as taught in the next aphorism (7.3.51), as it comes after a त् ॥ This substitution, however, does not take place, because it was इक् which caused the elision of अ, and now त् which became final by such elision cannot cause the destruction of इक its producer (सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य). Or the elided अ (6.4.148) may be considered as sthanivat, and would thus prevent क substitution.

There are two views about this ठ ॥ Some say that the consonant ठ् only is the sthani, and the अ is only for the sake of pronunciation. The others hold that ठ, the consonant and the vowel are sthani in the aggregate. In the first view, the rule would apply to the consonant ठ् at the end of roots like पठ् in पठिता, पठितुं; in the other view the rule would apply to the affix अठच् in कर्मठः ॥ Hence, the commentary uses the word, that ठ must be the cause of अङ्ग ॥

Bhashya

ठस्येकः किमिदं ठादेशे वर्णग्रहणमाहोस्वित्सङ्घातग्रहणम् ? ॥ कश्चात्र विशेषः ? ठादेशे वर्णग्रहणं चेद्धात्वन्तप्रतिषेधः ठादेशं वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधो वक्तव्यः(1) । पठिता(2) । पठितुम् ॥ अस्तु तर्हि सङ्घातग्रहणम् सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेधः सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेधो वक्तव्यः । उणादीनां तावत् - कण्ठः(3) शण्ठः वण्ठः । इह च(4) मथितं पण्यमस्य माथितिक इति, - अकारलोपे कृते तान्तादिति कादेशः प्राप्नोति । वर्णग्रहणे पुनः सत्यल्विधिरयं भवति तस्माद्विशिष्टग्रहणम् तस्माद्विशिष्टस्य ठकारस्य ग्रहणं कर्तव्यम् ॥ ( तत्तर्हि कर्त्तव्यम्(5) ? । ) न कर्तव्यम् ॥ अस्तु तावद्वर्णग्रहणम् । ननु चोक्तं ठादेशे वर्णग्रहणं चेद्धात्वन्तप्रतिषेध(1)इति ॥ नैषः दोषः-अङ्गादिति वर्तते ॥ न वै अङ्गादिति पञ्ञ्चम्यस्ति ॥ एव तर्हि प्रत्ययस्थस्येति वर्तते ॥ क्व प्रकृतम् ? ॥ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुप इति ॥ तद्वै पञ्ञ्चमीनिर्दिष्टं षष्ठीनिर्दिष्टेन चेहाऽर्थः ॥ अर्थाद्विभक्तिविपरिणामो(2) भविष्यति । तद्यथा - उच्चानि देवदत्तस्य गृहाणि ॥ आमन्त्रयस्वैनम्। देवदत्तमिति गम्यते। देवदत्तस्य गावोऽश्वा हिरण्यञ्ञ्च(2) । आढ्यो वैधवेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं,द्वितीयानिर्दिष्टं च भवति । एवमिहापि -पुरस्तात्पञ्ञ्चमीनिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ॥ एवमप्युणादीनां प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि एवमपि कर्मठ इत्यत्र प्राप्नोति ॥ एवं तर्ह्यङ्गस्येति संबन्धषष्ठी विज्ञास्यते - अङ्गस्य यष्ठकारः ॥ किञ्ञ्चाऽङ्गस्य ठकारः ? ॥ निमित्तम् ॥ यस्मिन्नङ्गमित्येतद्भवति ॥ कस्मिंश्चैतद्भवति ? ॥ प्रत्यये ॥ अथ वा पुनरस्तु सङ्घातग्रहणम् ॥ ननु चोक्तं सङ्घातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेध इति ॥ उणादीनां तावत्प्रतिषेधो न वक्तव्यः । परिहृतमेतत् - उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति । यदप्युच्यते - ःइह च मथितं पण्यमस्य माथितिक इत्यकारलोपे कृते तान्तादिति कादेशः प्राप्नोतीति ॥ नैषः दोषः - अकारलोपस्य स्थानिवद्भावान्न भविष्यति ॥ न सिध्यति-पूर्वविधौ स्थानिवद्भावो न चायं पूर्वविधिः ॥ अयमपि पूर्वविधिः । पूर्वस्मादपि विधिः पूर्वविधिरिति ॥ अथाप्युणादयो व्युत्पाद्यन्ते एवमपि न दोषः, क्रियते न्यास एव विशिष्टग्रहणं - ठस्येति ॥ ( ठस्येकः ) ॥

Kashika

अङ्गस्य निमित्तं यष्ठः, कश्चाङ्गस्य निमित्तं भवति? प्रत्ययः, तस्य प्रत्ययठस्य इक इत्ययमादेशो भवति। प्राग् वहतेष्ठक् (४.४.१) — आक्षिकः। शालाकिकः। लवणाट् ठञ् (४.४.५२) — लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदेहाप्यकार उच्चारणार्थः, वर्णमात्रं तु स्थानित्वेनोपादीयते। संघातग्रहणे तु प्रत्ययेऽत्रापि संघातग्रहणमेव। तत्र कणेष्ठः (प०उ० १.१०३) — कण्ठ इत्येवमादीनामुणादीनाम् उणादयो बहुलम् (३.३.१) इति न भवति। मथितं पण्यमस्य माथितिक इत्यत्र तु यस्येति — (६.४.१४८) — लोपे कृत इसुसुक्तान्तात् कः (७.३.५१) इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षण्यो विधिरनिमित्तं तद्विघातस्य इति न भवति, यस्येति च (६.४.१४८) इति लोपस्य स्थानिवद्भावाद् वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः॥

Siddhanta Kaumudi

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥

Laghu Siddhanta Kaumudi

अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥

Balamanorama

ठस्येकः - ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । तदाह — अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकोऽदन्त आदेशः । अङ्गात्किम् । कर्मण इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते ।ठस्येति सङ्घातग्रहण॑मित्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् ।

Padamanjari

अत्र द्वौ पक्षौ - ठेति व्यञ्जनमात्रं स्थानित्वेन निर्द्दिश्यते, अकारस्तूच्चारणार्थः, एवं ढगादिष्वपीत्येकः पक्षः; सङ्घातः प्रत्ययः, स्थान्यप्यत्र स एवेति द्वितीयः । तत्राद्ये पक्षे पठिता, पठितुमित्यादौ धात्वन्तस्यापि प्रसङ्गः; द्वितीये तु अठचि कर्मठ इत्यत्रापि प्राप्नोति । तत्र द्वयोरपि पक्षयोर्यथा दोषो न भवति तथा दर्शयन्नाह - अङ्गस्य निमितं यष्ठ इति । सम्बन्धस्तत्र नावयवावयविभावलक्षणः, पठितेत्यादावपि प्रसङ्गात्; किं तर्हि ? निमितनिमितिभावलक्षणः । अङ्गस्य सम्बन्धीत्युक्ते तद्रूपसम्बन्ध्येव प्रतीयते; प्रत्ययश्च तद्रूपसम्बन्धी, तदायतत्वादङ्गव्यपदेशस्य । तदेवमङ्गव्यपदेशनिमितस्य प्रत्ययस्य ग्रहणादुभयोरपि पक्षयोर्दोषाभावः । किञ्च - सङ्घातपक्षे अर्थवतष्ठशब्दस्य ग्रहणान्न भवति कर्मठः - इत्यत्र प्रसङ्गः । वर्णग्रहणे त्वर्थवत्परिभाषा न प्रवर्तते । तत्र सङ्गातपक्षे दोषान्तरमाशङ्क्य परिहरति - तत्रेति । पुनरपि तस्मिन्नेव पक्षे चोदयति - मथितं पण्यमस्येति । वर्णग्रहणमे तु ठनल्विधौऽ इति स्थानिवत्वनिषेधादिकस्य कादेशाप्रसङ्गः । कादेशः । प्राप्नोतीति । ननु तान्तादङ्गादित्युच्यते, न चात्र तान्तमङ्गम्, ततः प्रत्ययस्याविधानात् ? नैतदस्ति; एकदेशविकृतस्यानन्यत्वादङ्गं भवति, तान्तं च; ततश्च यथा - अनुकम्पितो भानुदत इति ठचि द्वितीयादच ऊर्ध्वस्य लोपे कादेशो भवति - भानुक इति, तथात्रापि प्रसङ्गः ? परिहरति - सन्निपातेति । अजादिसन्निपातेन तान्तत्वमुपजायते, ततश्च तद्विघातस्य निमितं नोपपद्यते । परिहारान्तरमाह - यस्येतिलोपस्येति । स्थानिवद्भावस्तु ठचः परिस्मिन्पूर्वविधौऽ इत्यनेन । ननु पूर्वस्य विधावित्युच्यते, परस्यायम् ? तत्राह - पूर्वस्मादपिहीति । पञ्चमीसमासोऽपि तत्राश्रीयत इत्यर्थः । अन्ये त्वाहुः - वर्णग्रहणादेव तदन्तविधौ सिद्धे, अन्तग्रहणं प्रत्ययोपदेशकाले तान्तप्रतिपत्यर्थमिति ॥

Nyaas

अत्र यद्यविशेषेण ठस्य ग्रहणं स्यात्, पठिता, पठितुमित्यादौ धात्वन्तस्यापि स्यात्। अत एतद्दोषपरिजिहीर्षया प्रत्ययस्य ठस्य ग्रहणम्, न तु ठमात्रस्येति दर्शयितुमाह - अङ्गस्य निमित्तं यष्ठः इति। अङ्गस्येति सम्बन्धलक्षणा षष्ठी। अतर यद्यपि धात्ववयवो ह्रङ्गस्य सम्बन्धी भवति, तथापि यदा यतो ह्रङ्गस्यात्मलाभो यस्मिन्नङ्गमित्येतद्भवति, स एव प्रत्यासत्तेरङ्गस्य निमित्तीभूतः सम्बन्धी गृह्रते, न त्वरयवोऽपि। कश्चाङ्गस्य निमित्तं भवति इति। एवं मन्यते - यदि सामान्येनाङ्गस्य निमित्तं यत्तदिह गृह्रते धात्वन्तस्य ठस्य स्यादेव, भवन्ति हि अवयवा अङ्गसयावयविनो निमित्तम्; तैस्तस्यारभ्यमाणत्वादित्याह - प्रत्ययः इति। अस्यायमभिप्रायः - सत्स्वप्यवयवेषु यावत्प्रत्ययो नोत्पद्यते तावत्तस्यावयविनोऽङ्गात्मलाभो न भवति, तस्मस्तूत्पन्ने सति भवति; तस्मात्प्रत्यय एवाङ्गस्य निमित्तम्, नावयव इति। आक्षिकः, शालाकिकः इति। अक्षैर्दीव्यति, [अक्षैर्दीव्यतीत्यर्थे ठक् - मु। पाठः] शलाकाभिर्दीष्यतीत्यर्थे ठक्। `लावणिकः इति। अत्रापि लवणं पण्यमस्येति लवणाट्ठञ् (4.4.52) ।इह ठस्येति वर्णमात्रस्य ग्रहणं वा स्यात्? सङ्घातस्य वा? तत्र पूर्वस्मिन पक्षे ठस्येति निर्देशो नोपद्यते; इतरस्मस्त्वोणादिकेऽतिप्रसङ्गः - कणेष्ठः (द।उ।5-6) कण्ठ इत्यादौ। इह तु मथितं पण्यमस्येति माथितिक इति ठस्येकादेशे कृते प्रकृतेश्च यस्येति च (6.4.148) इत्यकारलोपे सति तान्ततायामुपजातायामिकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्? इसुसुक्तान्तात्? कः (7.3.51) इति कादेशः प्रसज्येतेति यश्चोदयेत्, तं प्रत्याह - ठगादिषु इत्यादि। आदिशब्देन ठञादीनां ग्रहणम्, यदि तेषु वर्णमात्रमनच्कप्रत्ययोऽकारस्तूच्चारणार्थः, तदा ठस्येकः (7.3.50) इत्यत्राप्यकार उच्चारणार्थः। एवं वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स निराकृतः। सत्यपि वर्णमात्रस्य ग्रहणे, आगन्तुकेनोच्चारणार्थेनाकारेण ठस्येति निर्देशस्योपादानात्। सङ्घातग्रहणे तु इत्यादि। अथ ठगादिषु सङ्घातः साच्कष्ठशब्दः प्रत्ययः, एवं सत्यत्रापि सूत्रे सङ्घातस्येति स्थानित्वेन ग्रहणं युक्तम्। यस्त्वस्मिन्? पक्षे प्रथमो दोषश्चोदयितुमिष्टः परस्य, तं जिहीर्षुराह - तत्र इत्यादि। योऽप्यस्मिन्? पक्षे द्वितीयो दोषस्तं मथित पण्यमस्य इत्यादिनाऽऽविष्कृत्य - सन्निपातलक्षणो विधिः इत्यादिना परिहरति। अजादिसन्निपातेन तकारान्ततोपजाता, सा नोत्सहतेऽजादित्वं विहन्तुमिति न भवति कादेशः। यस्येति चेति लोपस्य स्थानिवद्भावाद्वावाद्वा इति। न भवति कादेश इति प्रकृतेन सम्बन्धः; स्थानिवद्भावेन तकारान्ततया विहतत्वात्। स्थानिवद्भावः पुनः अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यादिना। पूर्वविधौ कर्तव्ये स्थानिवद्भवति, न चात्र पर्वस्य विधिः, किं तर्हि? पूर्वस्मादुत्तरस्य, तत्कुतः स्थानिवद्भावः? इत्याह - पूर्वस्मादपि इत्यादि। न केवलं पूर्वस्य विधिः पूर्वविधिरिति षष्ठसमासोऽभिमतः, अपि तु पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽपीत्यभिप्रायः॥

Prakriyasarvasvam

ठरूपस्य प्रत्ययस्य इकादेशः स्यात् । रेवतीपुत्रो रैवतिकः । दण्डग्राहस्य दाण्डग्राहिकः । ‘अश्वमणिद्वारेभ्यः पाल्याः’ । आश्वपालिकः । माणिपालिकः । ऐच्, दौवारपालिकः ॥

Sutra Prayogas

  • लावणिकेन (शिशुपालवधम्): ठस्येकः इति ठस्य इकादेशः।