73051: इसुसुक्तान्तात् कः ========================= **Padacheda:** इस्-उस्-उक्-त-अन्तात् | S | 5 | 1 | कः | S | 1 | 1 | Sutrartha --------- **इस्/उस्-प्रत्ययान्त-अङ्गात् , तकारान्त-अङ्गात्, तथा च उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अन्ति तादृशात् अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य ककारादेशः भवति ।** **ठस्येकः** (7.3.50) अनेन सूत्रेण प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्'-आदेशे प्राप्ते तस्य अपवादत्वेन केभ्यश्चन अङ्गेभ्यः परस्य ठकारस्य वर्तमानसूत्रेण 'क्' इति आदेशः विधीयते । तानि अङ्गानि एतानि - 1. इस्-प्रत्ययान्त-अङ्गम् - 'इस्' इति कश्चन उणादिप्रत्ययः अस्ति । **अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ** अनेन उणादिसूत्रेण अस्य प्रत्ययस्य विधानम् भवति । अर्चिस्, शुचिस्, सर्पिस् - एते शब्दाः इस्-प्रत्ययान्तशब्दाः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् - सर्पिस् + ठक् → सर्पिस् + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → सार्पिस् + क [**किति च** (7.2.118) इति आदिवृद्धिः] → सार्पिः + क [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → सार्पिष् + क [**इणः षः** (8.3.39) इति विसर्गस्य षत्वम् ] → सार्पिष्क । 2. उस्-प्रत्ययान्त-अङ्गम् - 'उस्' इति अपि कश्चन तद्धितप्रत्ययः । ** अर्तिपॄवपियजितनिधनितपिभ्यो नित्ः ** अनेन उणादिसूत्रेण (तथा अन्यैः कैश्चन उणादिसूत्रैः) अस्य विधानम् क्रियते । वपुस्, धनुस्, यजुस्, तनुस् - आदयः शब्दाः उस्-प्रत्ययान्ताः सन्ति । एतेषाम् परस्य प्रत्ययादिठकारस्य ककारादेशः भवति । प्रक्रियायाः उदाहरणम् इदम् - धनुस् + ठक् [**प्रहरणम्** (4.4.57) इति ठक्] → धनुस् + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → धानुस् + क [**किति च** (7.2.118) इति आदिवृद्धिः] → धानुः + क [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → धानुष् + क [**इणः षः** (8.3.39) इति विसर्गस्य षत्वम् ] → धानुष्क 3. उक्-प्रत्याहारस्य वर्णः यस्य अन्ते अस्ति तादृशमङ्गम् - उक्-प्रत्याहारे उ, ऋ, ऌ - एते वर्णाः वर्तन्ते । अतः यत् अङ्गमुकारान्तम् / ऋकारान्तम् / ऌकारान्तमस्ति, तस्मात् परस्य प्रत्ययादि-ठकारस्य वर्तमानसूत्रेण ककारादेशः भवति । उदाहरणे एते - (अ) उवर्णान्तमङ्गम् - धेनु + ठक् [**तस्य समूहः** (4.2.37) अस्मिन् अर्थे **अचित्तहस्तिधेनोष्ठक्** (4.2.47) इत्यनेन धेनु-शब्दात् ठक्-प्रत्ययः] → धेनु + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → धैनु + क [**किति च** (7.2.118) इति आदिवृद्धिः] → धैनुक (आ) ऋवर्णान्तमङ्गम् पितृ + ठञ् [**ततः आगतः** (4.3.74) अस्मिन् अर्थे **ऋतष्ठञ्** (4.3.78) इति ठञ्-प्रत्ययः] → पितृ + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → पैतृ + क [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → पैतृक 4. तकारान्तमङ्गम् - यदि तकारान्त-अङ्गात् परः ठकारादिप्रत्ययः आगच्छति, तर्हि तस्य ठकारस्य ककारादेशः भवति । यथा - यकृत् + ठक् [**संसृष्टे** (4.4.22) इति ठक्] → यकृत् + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ठकारस्य ककारादेशः] → याकृत् + क [**किति च** (7.2.118) इति आदिवृद्धिः] → याकृत्क । अत्र एकम् वार्त्तिकमपि ज्ञातव्यम् - । इत्युक्ते, 'दोष्' इत्यस्मात् शब्दात् यदि ठकारादिप्रत्ययः विधीयते, तर्हि तस्य ठकारस्य अपि ककारादेशः एव कर्तव्यः । यथा - दोष् + ठक् → दौष्क । स्मर्तव्यम् - सर्वे 'इस्' समुदायान्तशब्दाः इस्-प्रत्ययान्ताः न सन्ति । यथा, 'आशिस्' अयं शब्दः इस्-प्रत्ययान्तः नास्ति, अपितु 'आङ् + शास्' धातोः क्विप् प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्य शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा, आशिस् + ठक् → आशिषिक । अत्र **ठस्येकः** (7.3.50) इत्यनेन ठकारस्य इक्-आदेशः एव जायते । Sutrartha (English) ------------------- A ठकार present at the beginning of a प्रत्यय is converted to 'क्' for an इस्-प्रत्ययान्त अङ्ग, उस्-प्रत्ययान्त अङ्ग, उक्-वर्णान्त अङ्ग and तकारान्त अङ्ग. Vasu English Summary -------------------- क is substituted for ठ after a अङ्ग (stem) ending in 1. इस् 2. उस् 3. उ or ऊ 4. ॠ and 5. त्। Vasu English Translation ------------------------ क is substituted for ठ after a अङ्ग (stem) ending in 1. इस् 2. उस् 3. उ or ऊ 4. ॠ and 5. त्। As सार्पिष्कः, धानुष्कः, याजुष्कः, नैषादकर्षुकः, शाम्बरजम्बुकः, मातृकम्, पैतृकम्, औदश्वित्कः, शाकृत्कः, याकृत्कः ॥ The इस् and उस् are the affixes of that name, therefore not here, आशिषिकः (= आशिषा चरति), औषिका (= उषा चरति) ॥ Vart:- So also after दोष, as दौष्कः (दोर्भ्यां चरति) ॥ The word सार्पिष्कः is formed by ठक् of तदस्य पण्यं, (4.4.51) and स is changed to ष by इणः षः (8.3.39). भानुष्कः is by ठक् of प्रहरणं ॥ याजुष्क is by ठक् of दीव्यति ॥ नैषादकर्षुकः &c by ठञ् of भवादावर्थे ओर्देशे ठञ् ॥ मातृकः by ठञ् of तत आगतः, ऋतष्ठञ् ॥ औदाश्वत्कः by ठक् (4.2.19) शाकृत्कः by ठञ् of संसृष्टे (4.4.12). Bhashya ------- इसुसुक्तान्तात्कः इह कस्मान्न भवति, - आशिषा तरति(1) - आशिषिकः । उषा तरति औषिकः ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ अथेह कथं भवितव्यं - दोर्भ्यां तरति(2) ? ॥ दौष्क इति भवितव्यम् ॥ कथम् ? ॥ यदि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते ॥ ( इसुसुक्तान्तात्कः ) ॥ Kashika ------- इस् उस् इत्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य क इत्ययमादेशो भवति। इस् — सार्पिष्कः। उस् — धानुष्कः। याजुष्कः। उक् — नैषादकर्षुकः। शाबरजम्बुकः। मातृकम्। पैतृकम्। तान्तात् — औदश्वित्कः। शाकृत्कः। याकृत्कः। इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति — आशिषा चरति आशिषिकः, उषा चरति औषिकः॥ दोष उपसंख्यानम्॥ दोर्भ्यां तरति दौष्कः॥ Siddhanta Kaumudi ----------------- इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः । (वार्तिकम्) ॥ दोर्भ्यां चरित दौष्कः ॥ Laghu Siddhanta Kaumudi ----------------------- इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥ Balamanorama ------------ **इसुसुक्तान्तात् कः** - इसुसुक्तान्तात्कः । इसुसुक्ता अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत् । अकार उच्चारणार्थः, ठकारस्य शिष्यस्य ककार आदेश इति 'ठस्येकः' इत्यत्रोक्तम् ।आयती॑त्यस्य विवरणम् — वर्धते इति ।टु ओ इआ गतिवृद्ध्योः॑ इति धातुरिह वृद्धयर्थक इति भावः । उदइआदिति । क्विपि तुक् ।उदकस्योदः संज्ञाया॑मित्युदादेशः ।तक्रं हृदुइआन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्, इत्यमरः । प्रतिपदोक्तयोरिति । इत्त्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्क इति । आशिषिक इति ।चरती॑ति ठक् । शासुधातो क्विपि 'आशासः क्वौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्त्य Tattvabodhini ------------- **इसुसुक्तान्तात् कः** - इसुसुक्तान्तात् ।ता॑दित्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धेऽन्तग्रहणं प्रत्ययोपदेशकाले यस्तान्तस्तस्मात्परस्य ठस्य कादेशो न भवतीतिठस्येकः॑इति सूत्रे कैयटः । संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्युक्तं शक्यमित्यन्ये । उदइआदिति । आयतेः क्विपि तुक् ।उदकस्योदः॑इत्युदादेशः । इहैव निपातनात्संप्रसारणाऽभावः । Padamanjari ----------- सार्पिष्क इति ।'तदस्य पण्यम्' इति ठक्, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् । धानुष्क इति । प्रहरणमिति ठक् । याजुष्क इति । दीव्यत्यर्थे ठक् । नैषादकर्षुकः, शाबरजम्बुक इति । भवादावर्थे ठोर्देअशे ठञ्ऽ, कादेशे कृते'के' णःऽ इति ह्रस्वत्वम् । मातृकम्, पैतृकमिति । तत आगतः, ठृतष्ठञ्ऽ । औदश्वित्क इति ।'संस्कृत भक्षाः' ,'दध्नष्ठक्' , ठुदश्वितोऽन्यतरस्याम्ऽ इति सप्तम्यन्ताट्ठक् । शाकृत्कः, याकृत्कः, याकृत्क इति ।'संसृष्टे' इति ठञ् । आशिषेति । ठाङ्ः शासु इच्छायाम्ऽ इत्यस्मादाशासनमाशीरिति सम्पदादित्वाद् भावे क्विप्, ठाशासः क्वावुपसंख्यानम्ऽ इतीत्वम् । उषेति । वसेः क्पिप्, यजादित्वात्सम्प्रसारणे लाक्षणिकं रूपमिति । सर्पिरादौ तु ठर्चिशुचिहूसृपिच्छादिभ्य इसिःऽ,'जनेरुसिः' , ठर्तिवपियजित्रापिधनिभ्यो नित्ऽ इति प्रतिपदोक्तमिसुसो रूपम् । दोष उपसंख्यानमिति । वर्णैकदेशानां वर्णग्रहणेनाग्रहणादोकारे य उकारः, तस्य उकारग्रहणेनाग्रहणादुपसंख्यानम् ॥ Nyaas ----- पूर्वेणेकादेशे प्राप्त इसाद्यन्तात्? कादेश उच्यते। `सर्पिष्कः` इति। `तदस्य पच्यम्` (4.4.51) इति प्राग्वहतीयष्ठक्, रुत्वविसर्जनीयौ, विसर्जनीयस्य **इसुसोः सामर्थ्ये** (8.3.44) इति षत्वम्। `धानुष्कः` इति। `तदस्य ग्रहणम्` (4.4.57) इति ठक्। `याजुष्कः` इति। `तेन दीव्यति` (4.4.2) इति ठक्। `नैषादकर्षुकः, शाबरजम्बूकः` इति। निषादकर्ष्वां जातः, शाबरजम्बां जात इति **ओर्देशे ठञ्** (4.2.119) , `केऽणः` (7.4.13) इति ह्रस्वः। `मातृकम्` पैतृकम्` इति। मातुरागतम्, पितुरागतमिति - **ऋतष्ठञ्** (4.3.78) । `औदइआत्कः` इति। **उदश्वितोऽन्यतरस्याम्** (4.2.19) इति ठक्। शाकृत्कः, याकृत्कः` इति। शकृता यकृता संसृष्टे (4.4.22) इति ठक्। अथेह कस्मान्न भवति - आशिषा चरतीत्याशिषिकः, उषा चरतीत्यौषिकः? इत्याह - `इसुसोः` इत्यादि। `अर्चिसुचिहुसृपिछादिछर्दिभ्य इसिः` (द।उ।9।30), `जनेरुसिः` (द।उ।9।37), `अर्त्तिपृवपियजितनिधनितपिभ्यो नित्` (द।उ।9।39) इत्यादिना प्रकरणेन यौ विहितौ तयोर्लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) प्रतिपदोक्तयोरिसुसोग्र्रहणम्। तेनाशिषिकः, औषिक इत्यत्रापि न भवति; लाक्षणिकत्वादिसुसोः। तथा ह्राङपूर्वात्? `शासु इच्छायाम्` (धातुपाठः-1022) इत्यस्मात्, `वस निवासे` (धातुपाठः-1005) इत्येतस्माच्च केवलात्? क्विपि कृते **शास इदङ्हलोः** (6.4.34) सम्प्रसारणे परपूर्वत्वे च कृत इसुसति रूपं प्रतिपद्यते। `आशिषिकः, औषिकः` इति। `शासिवसिधसीनां च। (8.3.60) इति षत्वम्। तस्य त्वसिद्धत्वात्? कादेश प्राप्तिराशङ्किता। `दोष उपसंख्यानम्` इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - `नञ्पूर्वाणामपि` (7.3.47) इत्यतोऽपगरहणमनुवर्तते; स चानुक्तसमुच्चयार्थः, तेन दोषोऽपि भविष्यति॥ Vartika ------- दोष उपसंख्यानम् । Sutra Prayogas -------------- * **धानुष्कस्य** (शिशुपालवधम्): `इसुसुक्तान्तात्कः` इति ठकः कादेशः। * **औपजानुकौ** (भट्टिकाव्यम्): `इसुसुक्तान्तात्कः` इति। * **पैतृकं** (भट्टिकाव्यम्): `इसुसुक्तान्तात्कः` इति कः। * **धानुष्क** (भट्टिकाव्यम्): `इसुसुक्कान्तात्कः` इति ततः सेनाङ्गत्वात्कृतैकवद्भावः तेनान्वितावनुगतौ । * **भावत्कं** (भट्टिकाव्यम्): `इसुसुक्तान्तात्कः` इति क-प्रत्ययः।