73043: रुहः पोऽन्यतरस्याम्

Padacheda: रुहः | S | 6 | 1 |

पः | S | 1 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

प् may optionally be substituted for the final of रुह् ‘to mount’ in the Causative.

Vasu English Translation

प् may optionally be substituted for the final of रुह् ‘to mount’ in the Causative. As व्रीहीन् रोपयति or रोहयति ॥ According to Padamanjari this sutra could be dispensed with. The form रोपयति could be obtained from the root रुप् of Divadi class : which though meaning मोहन may be taken to mean ‘grow’ also; अनेकार्थत्वाद् धातूनाम् ॥

Kashika

रुहेरङ्गस्यान्यतरस्यां पकारादेशो भवति णौ परतः। व्रीहीन् रोपयति, व्रीहीन् रोहयति॥

Siddhanta Kaumudi

णौ । रोपयति । रोहयति ॥

Balamanorama

रुहः पोऽन्यतरस्याम् - रुहः पो । णावितिशेषपूरणम् ।

Nyaas

रोपयति इति। रुह जन्मनि प्रादुर्भावे च (धातुपाठः-859)। किमर्थं पुनरिदमुच्यते, यावता दिवादिषु रुप लुप विमोहने (धातुपाठः-1236,1237) इति रुपिः पठते, तस्य रोपयतीति भविष्यती, रुहेस्तु रोहयतीति? जन्मार्थेऽपि रोपयतीति प्रयोगो यथा स्यात्; अन्यथा हि विमोहनार्थस्यैव स्यात्। अनेकार्थत्वाद्धातूनां रुपिर्जन्मनि वर्त्तिष्यत इति चेत्? नैतदस्ति; अनेकार्था हि धातवः, न तु सर्वार्थाः। न हि रुप्यतीत्युक्ते अन्मार्थः प्रातीयते, किं तर्हि? विमोहनार्थ एव॥

Sutra Prayogas

  • आरोपयांचक्रु (भट्टिकाव्यम्): रुहः पो ऽन्यतरस्याम् इति णौ पादेशः।