73044: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः

Padacheda: प्रत्ययस्थात् | S | 5 | 1 |

कात् | S | 5 | 1 |

पूर्वस्य | S | 6 | 1 |

अतः | S | 6 | 1 |

इत् | S | 1 | 1 |

आपि | S | 7 | 1 |

असुपः | S | 5 | 1 |

Sutrartha


Vasu English Summary

इ is substituted for the अ which stands before the क् belonging to an affix when the feminine ending आ follows, provided that, it does not come after a case-affix (i.e. when such a word in अक does not stand at the end of a बहुव्रीहि समास).

Vasu English Translation

इ is substituted for the अ which stands before the क् belonging to an affix when the feminine ending आ follows, provided that, it does not come after a case-affix (i.e. when such a word in अक does not stand at the end of a बहुव्रीहि समास). That which stands in an affix is called प्रत्ययस्थ, i.e. क् must be the part of the affix. The अक् is changed into इक् in the feminine in आ ॥ As जटिलिका, मुण्डिका, गुणिका, दत्तिका, कारिका, हारिका So also एतिका from एतद् + अकच् + आप् एतकद् + आप् ॥ The द् is then replaced by अ (7.2.102). The क् must belong to the affix, therefore, not in शका from शक शक्नोति ॥ The स्थ in प्रत्ययस्थ is for the sake of distinctness, there is no affix which is only क ॥ The rule applies to क, therefore not to नन्दना, रमणा ॥ The इ is substituted for the अ which precedes (पूर्वस्य) क्, and not the अ which follows क्, as पटुका, मृदुका ॥ The must be preceded by short अ, therefore, not here गोका, नौका, nor in राका, धाका ॥ The substitution takes place when आ follows, therefore, not in कारकी ॥ The word आपि qualifies क् ॥ The क् should be followed by आ ॥ Objection: But in कारिका from कारक + आ, क् is not directly followed by आ, but by अ? Answer: When अ + आ = आ there is ekadesa, the क् is followed by आ, there being no third letter intervening then. Objection: But an ekadesa is sthanivat to what it replaces when a purva-vidhi is to be applied, therefore there still exists the intervention. Answer: The express text of this sutra will remove the intervention. Objection: Then इ should be substituted in रथकट्या and गर्गकाम्या ॥ These words are formed by the affixes कट्यच् and काम्यच्, as रथानां समूहः, (4.2.51) and गर्गमिच्छति आत्मनः (3.1.9) = रथकट्य and गर्गकाम्य ॥ Here also before the क् of the affix, the अ should be replaced by इ, when the feminine affix आ is added: for there is no intervention between क् and आ (the intermediate letters being non-existent, as you say). Answer: We say that intervention is no intervention, when it consists of only one letter, which even does not actually exist, but only through the fiction of sthanivat. Therefore, the feminine of the above words will not take इ, as क् is not followed immediately (in the sense above expressed) by आप्, as रथकट्या and गर्गकाम्या, because in these actually many letters are heard as intervening between the क् and आप् ॥

Why do we say असुप्ः ‘provided that the feminine affix आप् does not come after a case-affix? Observe बहवः परिव्राजका अस्यां मथुरायां = बहुपरिव्राजका मथुरा ॥ Here आप् comes after the noun बहुपरिव्राजक which ends in a case-affix, and hence the अ of ज is not changed to इ ॥ The case-affix is elided by (2.4.71), and it still exerts its influence by (1.1.62). The word असुपः is a प्रसज्यप्रतिषेधः (a simple prohibition of the particular matter specified without mentioning what is different from it): and not a पर्युदासः or exception. Had it been a Paryudasa, (सुपोऽन्यः = असुपः) then आप् coming after a full word not having a case-affix, would have caused the इ substitution in the last example. Nor should असुपः be explained as that in which there exists no case-affix. Had it been so, then in बहूनि चर्माण्यस्यां = बहुचर्मिका not इ ought to be added.

Vart:- मामक and नरक should be enumerated, for the क् of these is not part of the affix: as मामिका, नरिका ॥ Here ममक् is substituted for मम before the affix अण् (4.3.3), to which is then added टाप् ॥ The word ममक takes long ई in the feminine only when it is a Name or in the Vedas (4.1.30): therefore though मामक ends in अण्, it does not take ङीप् (4.1.15) but टाप् (4.1.4), नराम् कायति = नरक formed with the affix क (अ (3.2.3)).

Vart:- The rule applies to the words ending in त्यक् (4.2.98) and त्यप्, (4.2.104) in spite of the prohibition in (7.3.46). As दाक्षिणात्यिका, इहत्यिका ॥

The word in the sutra is कात् the fifth case of क ending in अ ॥ If then this be the condition, that the affix must end in ka क and not in k क्, then the rule will not apply to एतिका ॥ Because here the augment is अकच् (अक्) with क्; the final अ in अकच् is for euphony only, and not a portion of the affix, as we find in भिन्धकि, छिन्धकि, रुन्धकि ॥ The word कात therefore, is construed to mean ending in the consonant क ॥

Bhashya

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः स्थग्रहणं किमर्थम् ? ॥ इदं विचारयिष्यते - ःइत्वे कग्रहणं सङ्घातग्रहणं वा स्याद्वर्णग्रहणं वेति । तद्यदा सङ्द्यातग्रहणं तदा स्थग्रहणं कर्तव्यम् । इहापि यथा स्यात् - कारिका हारिका । यदा हि वर्णग्रहणं तदा केवलः ककारः प्रत्ययो नास्तीति कृत्वा वचनाद्भविष्यति ॥ अथाऽसुप इति, कथमिदं विज्ञायते - असुब्वतोङ्गस्येति, आहो स्विन्न चेत्सुपः पर आबिति ॥ किं चातः ? ॥ यदि विज्ञायते - असुब्वतोऽङ्गस्येति, - बहुचर्मिका - अत्र न प्राप्नोति । अथ विज्ञायते - न चेत्सुपः पर आबिति, न दोषो भवति ॥ यथा न दोषस्तथाऽस्तु ॥ इदं विचार्यते - ःइत्वे कग्रहणं सङ्घातग्रहणं वा स्याद्वर्णग्रहणं वेति ? ॥ कश्चात्र विशेषः इत्वे(1) कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिः इत्वे कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिः । एतिकाश्चरन्ति ॥ वचनाद्भविष्यति ॥ अस्ति वचने(2) प्रयोजनम् ॥ किम् ? ॥ कारिका हारिकेति(3) ॥ अस्तु तर्हि वर्णग्रहणम् वर्णग्रहणं चेद्व्यवहितत्वादप्रसिद्धिः(4) वर्णग्रहणं चेद्व्यवहितत्वान्न प्राप्नोति । कारिका हारिका । अकारेण व्यवहितत्वान्न प्राप्नोति ॥ एकादेशे कृते नास्ति व्यवधानम् ॥ एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ॥ एवं तर्ह्याहाऽयं - प्रत्ययस्थात्कात्पूर्वस्ये(1)ति, न(2क्व चिदव्यवधानं, तत्र वचनाद्भविष्यति वचनप्रामाण्यादिति चेद्रथकठ्यादिष्वतिप्रसङ्गः वचनप्रामाण्यादिति चेद्रथकठ्यादिषु दोषो भवति । रथकट्या गर्गकाम्या ॥ नैषः दोषः । येन नाऽव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्। केन च नाऽव्यवधानम् ? ॥ वर्णेनैकेन ॥ सङ्घातेन पुर्नव्यवधानं भवति(3), न भवति च । अथ वा पुनरस्तु सङ्घातग्रहणम् ॥ ननु चोक्त मित्वे कग्रहणं सङ्घातग्रहणं चेदेतिकास्वप्राप्तिरिति ॥ परिहृतमेतत् - वचनाद्भविष्यतीति(4) ॥ ननु चोक्तम्स्ति वचने प्रयोजनम् । किम् । कारिका हारिकेति ॥ अत्राप्येकादेशे कृते व्यपवर्गाऽभावन्न प्राप्नोति ॥ अन्तादिवद्भावेन व्यपवर्गः ॥ उभयत आश्रये नान्तादिवत् ॥ एवं तर्हि - एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यपवर्गः ॥ एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति - भवत्येवं जातीयकानामपीत्त्वमिति यदयं न यासयोरिति प्रतिषेधं शास्ति ॥ मामकनरनयोरुपसङ्ख्यानमप्रत्ययस्थत्वात्(1) मामकनरकयोरुपसङ्ख्यानं कर्तव्यम् । मामिका नरिका ॥ किं पुनः कारणं न सिध्यति ? ॥ अप्रत्ययस्थात्वात्(2) त्यत्तयपोश्च प्रतिषिद्धत्वात् त्यक्त्यपोश्चोपसङ्ख्यानं कर्तव्यम् । दाक्षिणात्यिका इहत्यिका(3) ॥ किं पुनः कारणं न सिध्यति ? ॥ प्रतिषिद्धत्वात् । उदीचामातः स्थाने यकपूर्वाया इति प्रतिषिद्धत्वात् ॥ ( प्रत्ययस्थात्कात् ) ॥

Kashika

प्रत्ययस्थात् ककारात् पूर्वस्याकारस्य इकारादेशो भवत्यापि परतः, स चेदाप् सुपः परो न भवति। जटिलिका। मुण्डिका। कारिका। हारिका। एतिकाश्चरन्ति। प्रत्ययग्रहणं किम्? शक्नोतीति शका। स्थग्रहणं विस्पष्टार्थम्। ककारमात्रं प्रत्ययो नास्तीति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम्। कादिति किम्? मण्डना। रमणा। पूर्वस्येति किम्? परस्य मा भूत् — पटुका। मृदका। अत इति किम्? गोका। नौका। तपरकरणं किम्? राका। धाका। आपीति किम्? कारकः। धारकः। अथापीत्यनेन किं विशिष्यते? ककारः। यद्येवम्, कारिकेत्यत्रापि न प्राप्नोति, अकारेण व्यवहितत्वात्। एकादेशे कृते नास्ति व्यवधानम्। एकादेशः पूर्वविधौ स्थानिवद् भवतीति व्यवधानमेव। वचनाद् व्यवधानमीदृशं यत् स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते। रथकट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्वं न भवति। असुप इति किम्? बहवः परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा। सुबन्तादयं परिव्राजकशब्दात् पर आबिति प्रतिषेधो भवति। प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः। पर्युदासे हि सति समुदायादसुबन्तात् पर आबितीत्वमत्र स्यादेव। अविद्यमानः सुप् यस्मिन् साेऽयमसुबित्येवमपि नाश्रीयते। तथा हि सति बहुचर्मिकेत्यत्रापि न स्यात्॥ मामकनरकयोरुपसंख्यानं कर्तव्यमप्रत्ययस्थत्वात्॥ ममेयं मामिका। नरिका। अणि ममकादेशः (४.३.३)। केवलमामक० (४.१.३०) इति नियमात् संज्ञाछन्सोरीकारो नान्यत्र। तेनाण्प्रत्ययान्तादपि टाब् भवति। नरान् कायतीति नरिका। आतोऽनुपसर्गे कः (३.२.३) इति कः प्रत्ययः॥ प्रत्यनिषेधे त्यक्त्यपोश्चोपसंख्यानम्॥ उदीचामातः स्थाने यकपूर्वायाः (७.३.४६) इति विकल्पो मा भूदिति। दाक्षिणात्यिका। इहत्यिका॥

Siddhanta Kaumudi

प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका । आपि किम् ? कारकः ।<!मामकनरकयोरुपसंख्यानम् !> (वार्तिकम्) ॥ मामिका । नरान् कायतीति नरिका ।<!त्यक्त्यपोश्च !> (वार्तिकम्) ॥ दाक्षिणात्यिका । इहत्यिका ॥

Laghu Siddhanta Kaumudi

प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत्। गोपालिका। अश्वपालिका। सर्विका। कारिका। अतः किम्? नौका। प्रत्ययस्थात्किम्? शक्नोतीति शका। असुपः किम्? बहुपरिव्राजका नगरी। सूर्याद्देवतायां चाब्वाच्यः । सूर्यस्य स्त्री देवता सूर्या। देवतायां किम्? सूर्यागस्त्ययोश्छे च ङ्यां च (वार्त्तिकम्)। यलोपः। सूरी - कुन्ती; मानुषीयम्॥

Balamanorama

प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः - प्रत्ययस्थात् । ककारादिति । क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । ‘वर्णात्कारः’ इत्युक्तेः । एवंच सूत्रे कादित्यत्राऽकार उच्चारणार्थ इति सूचितम् । स आबिति । इत्त्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति । सूत्रे ‘असुपः’ इति पञ्चम्यन्तम्, असमर्थसमासः । आपि सुपः परस्मिन्सति इत्त्वं न भवतीत्यर्थो विवक्षित इति भावः । सर्विकेति । सर्वशब्दाट्टापि सवर्णदीर्घे सर्वाशब्दः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सर्वनामकार्यम् । ततश्च अव्ययसर्वनाम्ना॑मिति टेः प्रागकच् । तत्र ककारादकार उच्चारणार्थः । चकार इत् । अक् इति ककारान्तः प्रत्ययष्टेः प्राग्भवति । सर्वकाशब्देऽस्मिन्ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य अकारस्य कथमित्त्वम्, ककारेण व्यवहिततया आप्परकत्वाऽभावादिति चेत्, न,येन नाव्यवधान॑मिति न्यायेन तद्व्यवधानस्य अबाधकत्वात् । कारिकेति । कृञो ण्वुल्, अकादेशःअचो ञ्णिती॑ति ऋकारस्य वृद्धिः, रपरत्वं कारकशब्दाट्टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम् । कादिति सङ्घातग्रहणे तु एतिका इति न सिध्यति । एतच्छब्दे टेः प्रागकचि एतकच्छब्दाज्जसि, त्यदाद्यत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे एतिका इति रूपम् । अत्राऽकचि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाऽभावादित्त्वं न स्यात्, ककारादुत्तराऽडवर्णस्याऽकजनवयवत्वात् । न चाऽकचि अकारस्य नोच्चारणार्थत्वमिति शङ्क्यम्, एवं सति निरित्यव्यये अकचि नकिरिति न स्यात् । अतः कादित्यनेन कककारादित्येव विवक्षितम् । यका सकेत्यत्र ‘न यासयोः’ इतीत्त्वनिषेधाल्लिङ्गाच्च । अन्यथा तत्र प्रत्ययस्थककाराऽभावेन इत्त्वस्याऽप्राप्तेः किं तन्निषेधेनेत्यलम् ।नौकेति । नौशब्दात्स्वार्थिकः कः, टाप् । अत्र ककारात्पूर्वस्य औकारस्य इत्त्वनिवृत्त्यर्थमत इति वचनम् । शकेति । ‘शक्लृ शक्तौ’ पचाद्यच्, टाप् । अत्र ककारस्य प्रत्ययस्थत्वाऽभावान्न ततः पूर्वस्य इत्त्वम् । बहुपरिव्राजकेति । परिपूर्वाद्व्रजेर्ण्वुल् । बहवः परिव्राजका यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दाट्टाप् । अत्राऽकारस्य कात्पूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुबपेक्षया परत्वात् ।न लुमते॑ति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः । इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः । यदि तु ‘असुपः’ इति पर्युदासाअश्रीयते, तर्हि ‘बहुपरिव्राजक’ इति समुदायस्य सुब्भिन्नत्वादापस्ततः परत्वादित्त्वं दुर्वारं स्यादिति भावः । राकेति ।कृदाधारार्चिकलिभ्यः कः॑ इति राधातोरौणादिकः कप्रत्ययः ।उणादयो बहुल॑मिति बहुलग्रहणात् ‘केऽणः’ इति ह्रस्वो न, ककारस्य च नेत्वम् । टाप् । स्त्रीत्वं लोकात् ।कलाहीने सानुमतिः पूर्णे राका निशाकरे॑ इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः ।मामकेति । मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः । मामिकेति । ममेयमिति विग्रहेयुष्मदस्मदोरन्यतरस्यां खञ्चे॑त्यणि, ‘तवकममकावेकवचने’ इति ममकादेसे, आदिवृद्धिः, टाप्, ‘टिड्ढाणञ्’ इत्यादिना ङीप्तु न,केवकमामके॑त्यादिना संज्ञाच्छन्दसोरेव मामकशब्दान्ङीब्नियमात् । ततस्चात्र ककारस्य प्रत्ययस्थत्वाऽबावात्प्रत्ययस्था॑दित्यप्राप्तौ वचनमिदम् । नरानिति । कैशब्दे ‘आदेच उपदेशे’ इत्यात्त्वे, ‘आतोऽनुपसर्गे कः’ इति कप्रत्ययेआतो लोप इटि चे॑ति आलोपः, उपपदसमासः, सुपो लुक्, टाप् । अत्रापि ककारस्य प्रत्ययस्थत्वाऽभावात् ।॒प्रत्ययस्था॑दित्यप्राप्तौ वचनम् । त्यक्त्यपोश्चेति । त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याऽकारस्य इत्त्वं वक्तव्यमित्यर्थः । ‘उदीचामातः स्थाने’ इति विकल्पस्यापवादः । दाक्षिणात्यिकेति । दक्षिणस्या दिशि अदूरे इति विग्रहे ‘दक्षिणादाच्’ इत्याच्,तद्धितश्चासर्वविभक्तिः॑ इत्यव्ययत्वम् । दक्षिणाशब्दाद्भवाद्यर्थेदक्षिणापश्चात्पुरसस्त्यक् इति त्यक्,किति चे॑त्यादिवृद्धिः, दाक्षिणात्यशब्दाट्टाप् । ततः स्वार्थिकः कः, ‘केऽणः’ इति टारो ह्रस्वः, पुनष्टाप्, इत्त्वम#इति भावः ।दक्षिणस्यां दिशि भवे॑ति विग्रहे दक्षिणाशब्दाट्टाबन्तादेव त्यकन् इति मतं तु प्रौढमनोकमायां दूषितम् । इहत्यिकेति ।अव्ययात्य॑बिति त्यप्, टाप्, स्वार्थिकः कः, ‘केऽणः’ इति ह्रस्वः, पुनः टाप् ।

Tattvabodhini

प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः - प्रत्ययस्थात्कात्पूर्वस्य ।का॑दित्यकार उच्चारणार्थः । व्यञ्जनमात्रं विवक्षितम् । अन्यथा एतिकाश्चरन्तीत्यादावकचि इत्वं न स्यात् । तत्र हि अकारविशिष्टककारस्य प्रत्ययस्थत्वाऽभावात् । न चाकच्यप्यकारान्तककार एल प्रत्ययस्थो भवतु,अतो गुणे॑इति पररूपे सत्येतिका इत्यादिरूपसिद्धेरिति वाच्यम्,पचतकी॑त्यादिवक्ष्यमाणरूपाऽसिद्धिप्रसङ्गादित्याशयेनाह — ककासादिति । वर्णनिर्देशे हि कारप्रत्ययो विहितः । क्वचित्समुदायात्प्रयोगस्तुउच्चैस्तरां वा वषट्कारः॑इत्यादिनिर्देशरूपत्रसाध्य इति भावः । आपि पर इति । एतच्चाऽकारविशेषणम् । तत्सामर्थ्यात्ककाराकाराभ्यां व्यवायेऽपि भवति, न तुपुत्रकाभ्या॒॑स्थकटये॑त्यादौ त्रिचतुरादिव्यवाये । अतएवसर्विके॑त्यादावाद्याकारस्य न भवति, तदेतदुक्तम् -अकारस्येकारः स्यादापि पर इति । यदि त्वापीति ककारविशेषणं स्यात्तर्हिरथकठए॑त्यादावतिप्रसङ्गः, व्यवहितस्यापि परत्वाऽपायात् । न च निर्दिष्टपरिभाया निस्तारः, अनुवादे परिभाषाणामित्यत्राऽनुवाद इत्यस्याऽनूद्यमानविशेषणेष्वित्यर्थाभ्युपगमात् ।कात्पूर्वस्यात् इ॑दित्यत्र हि॒अत॑इत्यनूद्येत्वविधानादनुवाद्यत्वमेवाऽत इत्यस्य, न त्वनूद्यमानविशेषणत्वम् ।का॑दित्यस्य त्वनूद्यमानविशेषणत्वं स्पष्टमेवेति न तत्र निर्दिष्टपरिभाषोपतिष्ठत इति वैषम्यात्ष । अनूद्यमानविशेषणे परिभाषा नोपतिष्ठत इत्येतत्उदिचामातः॑इति सूत्रस्थस्थाने ग्रहणेन ज्ञापयिष्यते । यदिअसुपः॑इति पर्युदासः स्यात्तर्हिबहुपरिव्राजका नगरी॑त्यत्रापि स्यादेव, उत्तरपदस्य सुबन्तत्वेऽपि समुदायस्याऽसुबन्तत्वात्ततः परष्टाबिति । तेनाऽत्रप्रसज्यप्रतिषेध इत्याह — स आप्सुपः परो न चेदिति । सुबन्तात्परो न चेदित्यर्थः । सर्विकेति ।अव्यय सर्वनाम्ना॑मित्यज्ञातार्थेऽकच् । कारिकेति । करोतेर्ण्वुल् । णित्त्वाद्वृद्धिः । नौकेति ।नौ॑शब्दात्स्वार्थे कः, ततष्टाप् । शकेति । शक्नोतीति विग्रहः । पचाद्यत् । ततष्टाप् । बहुपरिव्राजकेति । परिपूर्वद्व्रजेर्ण्वुल् । बहवः परिव्राजका यस्यामिति बहुव्रीहौ तदवयवस्य सुपो लुकि कृतेऽपि प्रत्ययलक्षणेनोत्तरपदस्य सुबन्तत्वाट्टापः सुबन्तात्परत्वमस्तीतीत्वमत्र न भवति । नन्दनेति ।नन्दीग्रही॑ति ल्युः । पूर्वस्य किमति । अर्थादेवेदं लभ्यते । टाबेकादेशे कृते परत्र ह्रस्वाऽकाराभावादिति प्रश्नः । इतरो निर्दिष्टपरिभाषया कात्पूर्वस्येति न लभ्यते, किंतु टाबेकादेशं बाधित्वा कात्परस्यैवाकारस्य स्यादित्याशयेनाह -परस्येत्यादि । कटुकेति । कटुरत्र कटुरसवति । आज्ञातादौ कः । वस्तुतस्तु सूत्रेप्रत्ययस्थे की॑ति सप्तमीनिर्देशमेव कृत्वापूर्वस्ये॑ति ग्रहणं सुत्यजमित्याहुः । राकेति ।कृदाधारार्चिकलिभ्यः कः॑ । बाहुलकादित्संज्ञाऽभावः । संज्ञापूर्वकविधेरनित्यत्वात्केऽणः॑इति ह्रस्वो न ।मामकनरकयोरुपसङ्ख्यानम् । मामकनरकयोरिति । ककारस्य प्रत्ययस्थत्वाभावादप्राप्ते वचनम् । मानिकेति । ममेयं मामिका ।युष्मदस्मदोरन्यतरस्यां खञ्चेत्यण्,तवकममकावेकवचने॑इति ममकादेशः, आदिवृद्धिः ।केवलमानके॑त्यादिनासंज्ञाछन्दसोरेवे॑ति नियमान्नङीप् । नरकेति ।कै शब्दे॑आदेच उपदेशे॑इत्यत्वम्,आतऽनुपसर्गे कः॑,आतो लोप इटि चे॑त्यलोपः टाप, इत्वम् । त्यक्त्यपोश्च ।उपसङ्ख्यान॑मित्यनुषज्यते ।उदीचामातः॑इति विकल्पापवादः । दाक्षिणात्यिकेति । दक्षिणस्यामदूरे दक्षिणा ।दक्षिणादाच्दक्षिणा भवेति विग्रहेदक्षिणापश्चात्पुरसस्त्यत्,किति च॑ इत्यादिना वृद्धिः, टाप् । ततोऽज्ञातार्थे कः ।केऽणः॑इति ह्रस्वः, टाप् । प्राचा तुदक्षिणस्यां दिशि भवे॑ति विगृहीतं, तच्च मनोरमायां दूषितम् । त्यग्विधावव्साहचर्यादाजन्तस्यैव दक्षैणाशब्दस्य ग्रहणात् । अन्यथा सर्वनाम्नो वृत्तिमात्रे पुंवद्भावापत्तेश्चेति । इहत्यिकेति ।अव्ययात्त्यप् ।

Padamanjari

अत्र यदि कादित्यत्राकारो विवक्षितः स्यात्, एतिकाश्चरन्तीत्यत्रेत्वं न स्यात् । एतदोऽकचि जसि त्यदाद्यत्वे टापि च रूपम् । अकचो ह्यन्त्योऽकार उच्चारणार्थो न श्रवणार्थः; भिन्धिकि, रुन्धकि इत्यादेरसिद्धिप्रसङ्गात्, ततश्च कशब्दस्याभावादेतिका इत्यत्र न स्यादेव ।’न यासयोः’ इति च प्रतिषेधः सङ्घातग्रहणेऽनर्थकः स्यात् । तस्मादुच्चारणार्थोऽकारः, वर्णमात्रमेव विवक्षितमित्याह - प्रत्ययस्थात्ककारादिति । स चेदिति । स चेदाप्सुपः परस्तान्न भवति तदेत्वमित्यर्थः । प्रत्ययग्रहणपरिभाषया सुबन्थादिति द्रष्टव्यम् । जटिलिका, मुण्डिकेति । टाबन्ताभ्यामज्ञातादिषु’प्रागिवात्कः’ ,’के’ णःऽ इति ह्रस्वत्वम्, ततष्टाप्, तत इत्वम् । यद्यप्ययमकारो लाक्षणिकः, तथापि ठुदीचामातः स्थानेऽ इति लिङ्गातस्यापि भवति । ककारमात्रं हाति । उक्तमिदम् -‘कादिति वर्णमात्रं विवक्षितम्’ इति, न ककारमात्रं कश्चिप्रत्ययोऽस्ति, तस्मात् कात्प्रत्ययादित्युच्यमानेऽपि प्रत्ययावयवे प्रत्ययशब्दो वर्तिष्यते इति किं स्थग्रहणेनेत्यर्थः । पटुअका, मृदुकेति । पटुअमृदुशब्दाभ्यां स्त्र्यर्थवृत्तिभ्यां के कृते टाप् । असति पूर्वग्रहणे’तस्मादित्युतरस्य’ इति कात्परस्यैवाकारस्य’वार्णादाङ्गं बलीयः’ इत्येकादेशं बाधित्वा इत्वं स्यात् । यद्यपि जटिलिका, मुण्डिकेत्यादावयं प्रसङ्गः शक्यो दर्शयितुम्; तथापि विस्पष्टार्थमुदाहरणान्तरमुपन्यस्तम् । राका, धाकेति ।’कृदाधारार्चिकलिभ्यः कः’ । अथापीत्यनेन किं विशिष्यतीति । ककारः, प्रत्ययो वेति सन्देहात्प्रश्नः । ककार इति । प्रत्यये तु विशिष्यमाणे रथकट।लदिष्वतिप्रसङ्ग इति भावः । यद्यपि प्रत्ययोऽपि श्रुतः, तथापि तस्योपसर्जनत्वात् ककार एव विशिष्यते । कारिकेत्यत्रापि न स्यादिति । अतिप्रसङ्गस्तिष्ठतु तावत्, इष्टमपि न सिद्ध्यतीत्यपिशब्दस्यार्थः । ठापि परतो यः ककारःऽ - इत्येवं विज्ञायमाने कारिकेत्यपि न स्यात्; एकादेशस्य यो द्वितीयोऽकारस्तेन व्यवधानात् । वचनाद्व्यवधानमीदृशमिति । आश्रीयत इति वक्ष्यमाणेन सम्बन्धः । ईदृशमित्येतद्व्याचष्टे - स्थानिकद्भावकृतमिति । एकेन वर्णेनेत्युपलक्षणम् । स्थानिवद्भावकृतमित्येतावति तात्पर्यम्; अन्यथा एतिकेत्यत्र द्वाभ्यामकाराभ्यां व्यवधानादित्वं न स्यात् । एक एतदः सम्बन्धी, द्वितीयः’त्यदादीनामः’ इत्यकारः; तत्राकारयोर्यः पररूपमेकादेशः, यश्च टापा सह दीर्घः - द्वयोरपि तयोः स्थानिवद्भावः । अन्ये त्वाहुः - अत्रापि टापा सह य एकादेशस्तस्यैव स्थानिवद्भावः, न त्वकारयोः कृतस्य पररूपस्य; सकृत्पवृत्या लक्षणस्य चरितार्थत्वात् । तेनात्राप्येकेनैव व्यवधानमिति । वचनाद्व्यवधानेऽपि भविष्यतीति वक्तव्ये, ईदृशं व्यवधानमिति यदुक्तम्, तस्य व्यावर्त्यं दर्शयति - रथकट।लदिष्विति । रथानां समूहो रथकट।ल, ठिनित्रकट।ल्चश्चऽ । आदिशब्देन गर्गकाम्यादेग्रहणम् । गर्गमिच्छत्यात्मन इति काम्यजन्तादप्रत्ययः, ततष्टाप् । एतदुक्तं भवति - आपीति सप्तम्या यदानन्तर्यमुपातं तन्नात्यन्ताय त्यज्यते, किन्तु यावत्सम्भवमाश्रीयत इति । सुवन्तादयं परिव्राजकशब्दादिति । प्रत्ययलक्षणेन सुबन्तत्वम् । पर्युदासे हीति । सुपोऽन्यो।डसुप्, ततश्चेदाप्पर इत्याश्रीयमाण इत्यर्थः । समुदायादसुबन्तादिति । अवयवात्परिव्राजकशब्दात्सुबुत्पन्नः, न समुदायादिति तस्यासुबन्तत्वम् । एवमपि नाश्रीयते इति । बहुव्रीहिरपि नाश्रीयत इत्यर्थः । किं कारणम् ? इत्यत आह - तथा हीति । बहुचर्मिकेति । बहूनि चर्माण्यस्यामिति बहुव्रीहिः,’शेषाद्विभाषा’ इति कप् । तत्पुरुषे त्वस्मिन्, नात्र सुबन्तात्परष्टाव् भवति; कपा व्यवहितत्वात् । मामिकेति । ममेयमित्यण्,’तवकममकावेकवचने’ इति ममकादेशः । दाक्षिणाअत्यिकेति ।’दक्षिणादाच्’ , दक्षिणा, ततो भवादौ’दक्षिणापश्चात्पुरसस्त्यक्’ । इहत्यिकेति । ठव्ययात्यप्ऽ ॥

Nyaas

सुपः परो न भवति इति। सुबन्तात्परो न भवतीत्यर्थः। एवं चार्थः प्रत्ययग्रहणपरिभाषया वेदितव्यः। जटिलिका, मुण्डिका इति। अज्ञातादिष्वर्थेषु प्रागिवात्? कः (5.3.70) । कारिका, हारिका इति। ण्वुल्। एतिका इति। एतदः अव्ययसर्वनाम्नाम् (5.3.71) इत्यकच्, त्यादाद्यत्वम्, अतो गुणे (6.1.97) पररूपत्वम्, टाप्, अकः सवर्णे दीर्घत्वम्? (6.1.97) । शका इति। पचाद्यच्, टाप्। स्थग्रहण विस्पुष्टार्थम् इति। अत्र यत्र ककारमात्रं हि प्रत्ययसतत्र मा भूदित्येवमर्थं कस्मान्न भवति? इत्याह - ककारमात्रं हि इत्यादि। कादिति वर्णग्रहणम्। अकारस्तूच्चारणार्थः। न तु केवलः ककारः प्रत्ययोऽस्ति यन्निवृत्त्यर्थं स्थग्रहणं स्यात्। कात्? प्रत्ययात् इत्युच्यमाने प्रत्ययावयवे प्रत्ययशब्दो वर्त्तिष्यते, अतोऽन्तरेणापि स्थग्रहणं प्रत्ययस्थस्य ककारस्य ग्रहणं शक्यते विज्ञातुम्। तस्माद्वस्पष्टार्थं स्थग्रहणम्। मण्डना, रमणा इति। नन्द्यादभ्यो लयुः (3.1.134। पटुक मृदुका, गोका, नौका` इति। पूर्ववत् कः। राका, धाका इति। रालाऽदाने (धातुपाठः-1057,1058) इत्यस्माद्दषातेश्च कृदाधारार्चिकलिभ्यः कः (द।उ।3।18) इत्यौणादिकः कप्रत्ययः।अथ इत्यादि। चोदतः। ककारः इतीतरः। ककरस्य श्रुतत्वात्? तस्यैवापीति विशेषणं युक्तमित्यभिप्रायः। येनाभिप्रायेण चोदकः पृष्टवांस्तमाविष्कर्तुमाह - यद्येवम् इत्यादि। यद्यपीत्यनेन ककारो विशिष्यते - आपि परतो यः ककार इति। एवं सति करिकेत्यत्र न प्राप्नोति; ककारस्याकारेणायो व्यवहितत्वात्। एकादेशे कृते इत्यादीतरः। व्यवसर्गे हि सति व्यवधानं भवति। न चैकादेशे कृते व्यवसर्गोऽस्तीत्यतो नास्ति व्यवधानम्। एकादेशः पूर्व इत्यादि। चोदकः। स्थानिवद्भावस्तु अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यनेन। वचनात् इतीतरः। उच्यते चेदं वचनम्, न चाप्यनन्तरं ककारः सकम्भवतीति तत्र वचनसामर्थ्यात् स्थानिवद्भावे कृते नैकेन वर्णेन सर्वत्र व्यवधानमाश्रीयते। यद तर्हि वचनसामर्थ्यात्? कारिकेत्यादौ व्यवधानेऽपि भवति, तदारथकटआ, पुत्रकाम्येत्यत्रापि स्यात्? इत्यत आह - रथकटआदिषु इत्यादि। रथानां समूहः इनित्रकट्यचश्च (4.2.51) इति कटच्, ततष्टाप्। पुत्रमिच्छतीति कम्यच्च (3.1.9) इति काम्यच्प्रत्ययः। अ प्रत्ययात् (3.3.102) ततष्टाप्। तत्र श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्त्वं न भवति। येन नावयवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते। येन नावयवधानमपि तु सर्वत्र व्यवधानम्, तेनैकेन वर्णेन व्यवहिते भवित्तुं युक्तम्। स्थानिवद्भवकृतमेकेन वर्णेन सर्वत्र वयवधानमस्ति, सङ्घातेन त्वस्ति नास्ति च। तस्मात्? तदिह नाश्रीयते। सुबन्तादयम् इति। परिव्राजकशब्दात्? पर आबिति प्रत्ययलक्षणे सुबन्तता वेदितव्या। प्रसज्यप्रतिषेधश्चायम् इति। न चेत्सुबन्तादाप्? परो भवति। कः पुनः परयुदासे दोषो यतः स साश्रोयते? इत्याह - पर्युदासे हि इत्यादि। यद्ययं पर्युदासः स्यात्? सुपोऽन्योऽसप्, ततश्चोदाप्? परो भवतीति; ततो बहुपरिब्राआजकेत्यत्रापि स्यादेवेत्त्वम्, असुबन्तात्? पूर्वोत्तरपदसमुदायात्? पर आबिति कृत्वा। असुबन्ततवं पुनः समुदायस्य, तस्मात्? सुदनुत्पत्तेः; अवयवाद्धि परिव्राजकशब्दादत्र सुबुत्पत्तिः, न तु समुदायात्। अविद्यमानः सुब् यस्मिन्? सोऽयमसुबित्ययमपि नाश्रीयते इति। बहुव्रीहिरपि नाश्रीयत इत्यर्थः। कः पुनस्तदाश्रयणे दोषो यतः स नाश्रीयते? इत्याह - तथा हि` इत्यादि। एवं तर्हीत्यर्थः। बहुव्रीहौ पूर्वोत्तरपदयोः प्रत्ययलक्षणेन सुबन्तव्यपदेशोऽस्तीति नासावसुप, अपि तु विद्यमानसुबेव। तेन बहुचर्मिकेत्यत्र नासुपः पर आबितीत्त्वं न स्यात्। बहूनि चर्माण्यस्यां विद्यन्त इति बहुव्रीहिः। शेषाद्विभाषा (5.4.154) इति कप्, टाप्। मामिका इति। ममेयमिति तस्येदम् (4.3.120) इत्यण्? तवकममकौ (4.3.3) इति ममकादेशः। नन्वणन्तान्ममकशब्दात्? टिड्ढाणञ् (4.1.15) इति ङीपा भवितव्यम्, तत्? कथं टाब्भवति? केवलमामकेति नियमात् इत्यादि। नरिका इति। कै गे शब्दे (धातुपाठः-916,917)। आदेच उपदेशेऽशिति (6.1.45) इत्यत्त्वम्, आतोऽनुपसर्गे कः (3.2.3) , ततष्टाप्। दाक्षिणात्यिका, इहत्यिका इति। दक्षिणस्यां दिशि भवेत दक्षिणापश्चात्पुरसस्त्यक् (4.2.98) इति त्यक्। इह भवेति अव्ययात्त्यप् (4.2.104) । उभयत्राज्ञातादिष्वर्थेषु प्रागिवात्कः (5.3.70) । उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम् - उदीचामातः, स्थाने (7.3.46) इत्यत्र व्यवस्थितविभाषाविज्ञानात्? त्यक्त्ययोर्नित्यं भविष्यतीति॥

Praudhamanorama

कादित्यकार उच्चारणार्थः। व्यञ्जनमात्रं विवक्षितम्। विशिष्टविवक्षायां तु एतिकाश्चरन्तीत्यादौ अकचि न स्यादित्याशयेनाह— ककारादिति। वर्णनिर्देशे हि कारप्रत्ययो विहितः। क्वचित्समुदायात् प्रयोगस्तु ‘उच्चैस्तरां वा वषट्कारः’ इति निर्देशरूपयत्नसाध्य इति भावः। आपि पर इति। एतच्च अकारस्य विशेषणम्। तत्र सामर्थ्यात् ककाराऽकाराभ्यां व्यवायेऽपि भवति। न तु रथकट्येत्यादौ त्रिचतुरादिव्यवाये। अत एव सर्विकादौ आद्याऽकारस्य न भवति। तदेतदुक्तम्— अकारस्येकारः स्यादापि पर इति। ककारविशेषणत्वे तु विवक्षिते आप्परात्ककारात् पूर्वस्यात इत्यवक्ष्यत्। यत्तु प्राञ्चः— आपीति ककारविशेषणं सर्विकेत्यादौ तु एकादेशस्य स्थानिवद्भावादकारेण व्यवधानेऽपि वचनसामर्थ्याद्भविष्यतीति; तन्न, रथकट्यादावतिप्रसङ्गात्, व्यवहितस्यापि परत्वानपायात्। न च निर्दिष्टपरिभाषया निस्तारः, अनुवादे परिभाषाणामनुपस्थितेः। अनूद्यमानस्य विशेषणेष्विति हि तदर्थः। अत्र च ‘उदीचामात’ इति सूत्रे स्थानेग्रहणं लिङ्गम्। फलं तु वृद्धसंज्ञायामिक्परिभाषानुपस्थानात् शालीयदिसिद्धिः। यदप्याहुः— आपीति विधीयमानस्येतो विशेषणमिति; तत्स्थवीयः। आपीत्यस्याऽङ्गविशेषणत्वं तु नाऽऽशङ्क्यमेव, रथकट्या पुत्रकाम्येत्यत्रातिप्रसङ्गात्। शकेति। पचाद्यच्। स्थग्रहणं विस्पष्टार्थम्। ककारमात्रस्य प्रत्ययस्याभावादेव तात्स्थ्यलाभात्। पूर्वस्य किम्। सर्विकेत्यादौ टाबेकादेशं बाधित्वा कात्परस्य मा भूत् ‘तस्मादित्युत्तरस्य’ इति परिभाषणात्। यत्तु - ‘वार्णादाङ्गम्’ इति परिभाषया एकादेशो बाद्ध्येतेत्याहुः। तन्न अपवादे परत्वस्येव उक्तपरिभाषाया अपि निष्फलत्वात्। वस्तुतस्तु ‘प्रत्ययस्थे कि’ इति सप्तमीनिर्देश एवोचितः। पूर्वग्रहणं च सुत्यजम्। अत इति तपरः किम्ॽ ‘कृदाधारार्चिकलिभ्यः कः’। धाका। राका। मामिकेति। ‘केवलमामक’ इत्यादिना संज्ञाच्छन्दसोरेवेति नियमान्न ङीप्। त्यक्त्यपोरिति। ‘उदीचामातः स्थान’ इति विकल्पस्यापवादः। दाक्षिणात्यिकेति। दक्षिणस्यामदूरे दक्षिणा आजन्तः। दक्षिणा भवेति विग्रहः। यत्तु— दक्षिणस्यां दिशि भवेति प्राचा विगृहीतम्; तन्न, त्यग्विधावव्ययसाहचर्यादाजन्तस्यैव दक्षिणाशब्दस्य ग्रहणात्। अन्यथा— ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवद्भावापत्तेश्च। यत्तु- समासे एव पुंवदिति तन्नेति वक्ष्यते। त्यकि ‘किति च’ इत्यादिवृद्धौ टाप्, ततोऽज्ञाताद्यर्थे कः। ‘केऽणः’ इति ह्रस्वष्टाप्। इहत्यिकेति। ‘अव्ययात्यप्’।

Prakriyasarvasvam

असुब्व्यवहिते आपि परे प्रत्ययस्थात् ककारात् पूर्वस्यात इत् स्यात् । प्रच्छर्दिका । एवं प्रवाहिका ग्रहणी । बहुलोक्तेः क्वचित् स्त्रीत्वं न । अरोचकोऽ- रुचिव्याधिः ।<!धात्वर्थमात्रे ण्वुल् वाच्यः!> (वा० ३-३-१०८) । आसिका । शायिका । <karika>इक्शितपौ धातुनिर्देशे वाच्यौ पुंसि च तौ मतौ । भिदिश्च पचतिर्हन्तिः शितपः शित्त्वाच्छबादयः ॥ १५९ ॥</karika> द्वौ भावेऽपीति भोजः । पचि हन्ति मार्ष्टि वा करोति । ‘वर्णनिर्देशे कारो वाच्यः’ (वा० ३-३-१०८) । अकारः । बाहुलकादेवकारस्वाहाकारादि ।<!रादिफः!> (वा० ३-३-१०८) । (रेफः) । एतावपि पुंसि । इणजादिभ्यः स्त्रियाम् । आजिः । बाहुलकाद् *वीत्वं न । ‘वण शब्दे’ वाणिर्वाक् । पुनर्ङीषि वाणीत्यपि । ‘इक् कृषादिभ्यः’ (वा० ३-३-१०८) । कृषिरियम् । कुटिः कौटिल्यम् । त्रुटिः काललवः । त्रुटिरित्यरेफमाह माधवः । भ्रमणं भ्रमिः । गरणं गिरिः । शैले त्वौणादिकः ॥

Vartika

मामकनरकयोरुपसंख्यानम् ।

Sutra Prayogas

  • समुद्रोपत्यका (भट्टिकाव्यम्): प्रत्ययस्थात् इति प्रतिषेधे त्यकन उपसंख्यानम् इतीकारो न भवति।