73043: रुहः पोऽन्यतरस्याम् ========================== **Padacheda:** रुहः | S | 6 | 1 | पः | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- प् may optionally be substituted for the final of रुह् 'to mount' in the Causative. Vasu English Translation ------------------------ प् may optionally be substituted for the final of रुह् 'to mount' in the Causative. As व्रीहीन् रोपयति or रोहयति ॥ According to *Padamanjari* this *sutra* could be dispensed with. The form रोपयति could be obtained from the root रुप् of *Divadi* class : which though meaning मोहन may be taken to mean 'grow' also; अनेकार्थत्वाद् धातूनाम् ॥ Kashika ------- रुहेरङ्गस्यान्यतरस्यां पकारादेशो भवति णौ परतः। व्रीहीन् रोपयति, व्रीहीन् रोहयति॥ Siddhanta Kaumudi ----------------- णौ । रोपयति । रोहयति ॥ Balamanorama ------------ **रुहः पोऽन्यतरस्याम्** - रुहः पो । णावितिशेषपूरणम् । Nyaas ----- `रोपयति` इति। `रुह जन्मनि प्रादुर्भावे च` (धातुपाठः-859)। किमर्थं पुनरिदमुच्यते, यावता दिवादिषु `रुप लुप विमोहने` (धातुपाठः-1236,1237) इति रुपिः पठते, तस्य रोपयतीति भविष्यती, रुहेस्तु रोहयतीति? जन्मार्थेऽपि रोपयतीति प्रयोगो यथा स्यात्; अन्यथा हि विमोहनार्थस्यैव स्यात्। अनेकार्थत्वाद्धातूनां रुपिर्जन्मनि वर्त्तिष्यत इति चेत्? नैतदस्ति; अनेकार्था हि धातवः, न तु सर्वार्थाः। न हि रुप्यतीत्युक्ते अन्मार्थः प्रातीयते, किं तर्हि? विमोहनार्थ एव॥ Sutra Prayogas -------------- * **आरोपयांचक्रु** (भट्टिकाव्यम्): `रुहः पो ऽन्यतरस्याम्` इति णौ पादेशः।