73042: शदेरगतौ तः¶
Padacheda: शदेः | S | 6 | 1 |
अगतौ | S | 7 | 1 |
तः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
For the final of शद् is substituted त् in the Causative, when it does not mean ‘to drive’.
Vasu English Translation¶
For the final of शद् is substituted त् in the Causative, when it does not mean ‘to drive’. As पुष्पाणि शातयति, फलानि शातयति, but गाः शादयति गोपालकः ॥
Kashika¶
शदेरङ्गस्यागतावर्थ वर्तमानस्य तकारादेशो भवति णौ परतः। पुष्पाणि शातयति। अगताविति किम्? गाः शादयति गोपालकः॥
Siddhanta Kaumudi¶
शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥
Balamanorama¶
शदेरगतौ तः - शदेरगतौ तः ।अर्तिह्यी॑त्यतो णावित्यनुवृतिंत मत्वाह — शदेर्णाविति । तोऽन्तादेश इति । तकार इत्यर्थः । अकार उच्चारणार्थः ।
Nyaas¶
किमर्थं पुनरिदमुच्यते, यावता शद्लृ शातने (धातुपाठः-1428) इत्यस्मादेव निपातनात्? तकारो भविष्यतीति? गतेरन्यत्र यथा स्यात्? गतौ मा भूदिति चेत्? न; शातनशब्दो हि गतेरन्यमर्थमाचष्टे। एवं तर्हि एतज्ज्ञापयति - अबाधकान्यपि निपातनानि भवन्ति (पु।ल।प।वृ।99) इति। तेन पुराशब्दात्? सायञ्चिरम् (4.3.23) इत्यादिना विधीयमानयोष्टउटउलोः पुराणप्रोक्तेषु (4.3.105) इति निपातनेन तुदो बाधनं न भवतीतित। तेन पुरातनमित्यपि सिद्धं भवति॥
Prakriyasarvasvam¶
शदेरगत्यर्थस्य णावन्त्यस्य तः स्यात् । शस्त्रं शातयति, वृक्षात् फलं शातयति । तीक्ष्णीभावयति, विशीर्णयतीति चार्थः । चङि अशीशतत् ।
Sutra Prayogas¶
अशीशतद् (भट्टिकाव्यम्): शदेणौं शदेरगतौ इति तत्वम्।