73028: प्रवाहणस्य ढे

Padacheda: प्रवाहणस्य | S | 6 | 1 |

ढे | S | 7 | 1 |

Sutrartha


Vasu English Summary

Before the affix ढ (एय), the वृद्धि is substituted for the first vowel of the second member of प्रवाहण but optionally so for the first member (i.e. प्र).

Vasu English Translation

Before the affix ढ (एय), the वृद्धि is substituted for the first vowel of the second member of प्रवाहण but optionally so for the first member (i.e. प्र). Thus प्रवाहणस्यापत्यं = प्रावाहणेयः or प्रवाहणेयः ॥ The affix ढक् (4.1.123), is added, similarly प्रवाहणेयी भार्याऽस्य = प्रवाहणेयीभार्यः (6.3.39), masculation prohibited)). Or we may translate the sutra as “Before the affix ढ, the vowel of प्र in प्रवाहण optionally gets Vriddhi”, and omit the rest. The masculation will still be prohibited by (6.3.41), (जाते)

Bhashya

प्रवाहणस्य ढे परस्य वृद्धिर्नेत्यनुवर्तते उताहो न ? ॥ किं चातः ? ॥ यद्यनुवर्तते प्रवाहणेयी भार्याऽस्येति प्रवाहणेयीभार्यः, वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोति । अथ निवृत्तं, न दोषो भवति ॥ यथा न दोषस्तथास्तु ॥ अथवा पुनरस्त्वनुवर्तते । ननु चोक्तं- -प्रवाहणेयी भार्यास्य प्रवाहणेयीभार्यः - वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोतीति ॥ नैषः दोषः, मा भूदेवं जातेश्चेत्येवं(2) भविष्यति ॥ ( प्रवाहणस्य ढे ) ॥

Kashika

प्रवाहणस्य ढे परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वपदस्य वा भवति। प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः। शुभ्रादिभ्यश्च (४.१.१२३) इति ढक् प्रत्ययः॥

Siddhanta Kaumudi

प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥

Balamanorama

प्रवाहणस्य ढे - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु ‘प्रवाहणेयीभार्य’ इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव ।

Tattvabodhini

प्रवाहणस्य ढे - प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते ।अर्धात्परिमाणे॑त्यतःपूर्वस्य तु वा॑ इति अनुवर्तते । तदाह -उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तुप्रवाहणेयीभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावप्रतिषेधः ।

Nyaas

प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। प्रवाहणेयः इति। वहेः प्रपूर्वाण्णिच् - प्रवाहयतीति प्रवाहणः। णिजन्तात्? कृत्यल्युटो बहुलम् (3.3.113) इति कर्तरि ल्युट्, प्रादिसमासः, णेर्विभाषा (8.4.30) इति णत्वम्, ततोऽपत्यार्थे ढक्। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते, यावता वृद्धिमवेवैतत्? यदप्येवम्, तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्, वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इति पुंवद्भावप्रतषेधो यथा स्यात्। यदि ह्रुत्तरपदवृद्धिर्न विधीयते, ततो यस्मिन्? पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन्? पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्; वृद्धेरनिमित्तत्वात्? तद्धितस्य। यथा - वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य` जातेश्च (6.3.41) इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्यत्रापि गोत्रं च चरणैः सह (म।भा।2।225) इति जातित्वम्? एवं तर्हि एतज्ज्ञापयति - अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे तद्धिते (वा।731) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति॥

Prakriyasarvasvam

अस्य ढकि परे पूर्वपदस्य वा वृद्धिरुत्तरपदस्य नित्यं स्यात् । प्रावाहणेयः ॥ प्रवाहणेयः ॥