73029: तत्प्रत्ययस्य च¶
Padacheda: तत्प्रत्ययस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Even so from a new derivative from this stem ending in ढ, formed with a तद्धित affix having an indicatory ञ् , ण् or क् there is वृद्धि substitution for the first vowel of the second member and optionally for the first vowel of the first member in प्रवाहणेय and प्रावाहणेय।
Vasu English Translation¶
Even so from a new derivative from this stem ending in ढ, formed with a तद्धित affix having an indicatory ञ् , ण् or क् there is वृद्धि substitution for the first vowel of the second member and optionally for the first vowel of the first member in प्रवाहणेय and प्रावाहणेय। As प्रवाहणेयस्यापत्यं = प्रावाहणेयिः or प्रवाहणेयिः, प्रा or प्र-वाहणेयकम् ॥
Kashika¶
ढक्प्रत्ययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वस्य तु वा। प्रवाहणेयस्यापत्यं प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुमशक्येति सूत्रारम्भः॥
Siddhanta Kaumudi¶
ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥
Padamanjari¶
प्रवाहणेयिरिति । यून्यपत्ये ठत इञ्ऽ । प्रवाहणेयकमिति ।’गोत्रचरणाद् वुञ्’ । किमर्थमिदमुच्यते ? ढेअ परतः पूर्वेण विकल्प उक्तः, ठान्तस्येञादौ नित्यवृद्धिर्मा भूदिति । वैतदस्ति प्रयोजनम्, इञादिनिमिताया अपि वृद्धेर्ढाश्रय एव विकल्पो बाधको भविष्यति,’ढेअ’ इति हि परसप्तमी, न निमितसप्तमी, तेना न्यनिमिताया अपि वृद्धेर्ढेअ परतः प्रतिषेधो लभ्यत एव ? अत आह - ब्राह्यतद्धितनिमितेति । अयमभिपायः - ढेअ उत्पन्ने तदाश्रयां वृद्धिं बाधित्वा विकल्पस्तावत्प्रवृतः, पश्चादिञादिरुत्पन्नः, तन्निमिता च वृद्धिः प्राप्ता, न त्विदानीं डनिमितो विकल्पः, पूर्वमेव प्रवृतत्वात्, आवृत्ययोगादिति ॥
Nyaas¶
प्रावाहणेयिः इति। अत इञ् (4.1.95) । प्रावाहणेयकम् इति। गोत्रचरणादषुञ् (4.3.126) । अथ किमर्थमिदमुच्यते, यावता ढप्रत्ययन्तस्य प्रवाहणेयशब्दस्योत्तरपदं नित्यं वृद्धिमदेदेति, तदर्थस्तावदारम्भो न युक्तः; पूर्वपदस्य वृद्धेर्विकल्पो यथा स्यादित्येवमर्थोऽपि नैवास्यारम्भो युज्यते; इञादावपि तद्धिते तन्निमित्तां वृदिंध बाधित्वा पूर्वसूत्रेण च निमित्त एव विकल्पो भविष्यति, न हीञादावुतपन्ने तद्धिते ढस्य परत्वमपैति? इत्याह - बाह्रतद्धित इत्यादि। बाह्रतद्धिनो निमित्तं यस्याः सा तथोक्ता। बाहृत्वं पुनरित्रदेस्तद्धितस्य प्रावाहणेयशब्देऽनन्तर्भावात्। सैवं बाह्रं तद्धितं निमित्तमाश्रित्य भवन्ती बहिरङ्गा। प्रागेव तु ब्राआहृतद्धितोत्पत्तेर्ढाश्रयो विकल्पो भवन्नन्तरङ्गस्तां बाधितुं न शक्नोति। ततश्च यदीदं नारभ्येत तदा स्यादेव। तस्माद्विकल्पार्थमिदमारभ्यते॥
Prakriyasarvasvam¶
ढप्रत्ययान्तस्यास्य वृद्धिनिमित्तप्रत्ययान्तरे परेऽपि पूर्वपदस्य वृद्धिर्वा स्यात् । प्रावाहिणेयिः प्रवाहणेयिः । गोत्राद्यून्यत इञयम् ॥