73028: प्रवाहणस्य ढे ==================== **Padacheda:** प्रवाहणस्य | S | 6 | 1 | ढे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before the affix ढ (एय), the वृद्धि is substituted for the first vowel of the second member of प्रवाहण but optionally so for the first member (i.e. प्र). Vasu English Translation ------------------------ Before the affix ढ (एय), the वृद्धि is substituted for the first vowel of the second member of प्रवाहण but optionally so for the first member (i.e. प्र). Thus प्रवाहणस्यापत्यं = प्रावाहणेयः or प्रवाहणेयः ॥ The affix ढक् (4.1.123), is added, similarly प्रवाहणेयी भार्याऽस्य = प्रवाहणेयीभार्यः (6.3.39), masculation prohibited)). Or we may translate the *sutra* as "Before the affix ढ, the vowel of प्र in प्रवाहण optionally gets *Vriddhi*", and omit the rest. The masculation will still be prohibited by (6.3.41), (जाते) Bhashya ------- प्रवाहणस्य ढे परस्य वृद्धिर्नेत्यनुवर्तते उताहो न ? ॥ किं चातः ? ॥ यद्यनुवर्तते प्रवाहणेयी भार्याऽस्येति प्रवाहणेयीभार्यः, वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोति । अथ निवृत्तं, न दोषो भवति ॥ यथा न दोषस्तथास्तु ॥ अथवा पुनरस्त्वनुवर्तते । ननु चोक्तं- -प्रवाहणेयी भार्यास्य प्रवाहणेयीभार्यः - वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोतीति ॥ नैषः दोषः, मा भूदेवं जातेश्चेत्येवं(2) भविष्यति ॥ ( प्रवाहणस्य ढे ) ॥ Kashika ------- प्रवाहणस्य ढे परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वपदस्य वा भवति। प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः। **शुभ्रादिभ्यश्च** (४.१.१२३) इति ढक् प्रत्ययः॥ Siddhanta Kaumudi ----------------- प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥ Balamanorama ------------ **प्रवाहणस्य ढे** - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु 'प्रवाहणेयीभार्य' इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव । Tattvabodhini ------------- **प्रवाहणस्य ढे** - प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते ।अर्धात्परिमाणे॑त्यतःपूर्वस्य तु वा॑ इति अनुवर्तते । तदाह -उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तुप्रवाहणेयीभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावप्रतिषेधः । Nyaas ----- प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। `प्रवाहणेयः` इति। वहेः प्रपूर्वाण्णिच् - प्रवाहयतीति प्रवाहणः। णिजन्तात्? **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्तरि ल्युट्, प्रादिसमासः, **णेर्विभाषा** (8.4.30) इति णत्वम्, ततोऽपत्यार्थे ढक्। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते, यावता वृद्धिमवेवैतत्? यदप्येवम्, तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्, **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** (6.3.39) इति पुंवद्भावप्रतषेधो यथा स्यात्। यदि ह्रुत्तरपदवृद्धिर्न विधीयते, ततो यस्मिन्? पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन्? पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्; वृद्धेरनिमित्तत्वात्? तद्धितस्य। यथा - वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य` **जातेश्च** (6.3.41) इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्यत्रापि `गोत्रं च चरणैः सह` (म।भा।2।225) इति जातित्वम्? एवं तर्हि एतज्ज्ञापयति - अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र `भस्याढे तद्धिते` (वा।731) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति॥ Prakriyasarvasvam ----------------- अस्य ढकि परे पूर्वपदस्य वा वृद्धिरुत्तरपदस्य नित्यं स्यात् । प्रावाहणेयः ॥ प्रवाहणेयः ॥