73027: नातः परस्य

Padacheda: न | S | 0 | 0 |

अतः | S | 6 | 1 |

परस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

When the first vowel of the second member preceded by अर्ध and denoting mass is short अ before a तद्धित affix having an indicatory ञ् , ण् or क् and optionally so for the first vowel of the first member (i.e. अर्ध).

Vasu English Translation

When the first vowel of the second member preceded by अर्ध and denoting mass is short अ before a तद्धित affix having an indicatory ञ् , ण् or क् and optionally so for the first vowel of the first member (i.e. अर्ध). Thus अर्धप्रस्थिकः or आर्धप्रस्थिकः (5.1.18) ॥ अर्धकंसिकः or आर्धकंसिकः ॥ Why do we say ‘when it is a short अ’? Observe आर्धकौडविकः ॥ Why ‘short अ’ ? Observe अर्ध खार्याम् भवः = अर्धखारी ॥ Here Vriddhi is substituted for the आ of खारी, and though the form remains the same, the power of this word is changed. For अर्धखारी being formed by a Taddhita affix causing Vriddhi, in forming a Bahuvrihi compound, this word will retain its feminine form and will not be changed into masculine under (6.3.39) as अर्धखारीभार्यः (= अर्धखारीभार्यायस्य) (वृद्धिनिमित्तस्य च तद्धितस्य &c.) Whereever Vriddhi is prohibited with regard to a Taddhita affix, that affix cannot be called वृद्धिनिमित्त, and a word formed with such an affix will become masculine in a Bahuvrihi compound referring to a male person, वैयाकरणी भार्या अस्य = वैयाकरणभार्यः ॥ The word वैयाकरण is formed by prohibition of Vriddhi. See (7.3.3).

Kashika

अर्धात् परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अत इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत् — अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (६.३.३९) इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्य इति॥

Siddhanta Kaumudi

अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- (SK840) इति पुंवद्भावनिषेधो न स्यात् ॥

Balamanorama

नातः परस्य - नातः परस्य । परिमाणाऽकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडबेन क्रीतमित्यर्थः ।तेन क्रीत॑मिति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः । किन्तुअर्धात्परिमाणस्य॑त्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्ध्यभावपक्षे वृदिंध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृदिंध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् ।

Padamanjari

आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ् । कंसाट्टिठÄस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची । किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह - यत्र हीति । तदुक्तम् -‘कुर्वद्रूपे निमितशब्दो मुख्यः’ इति । परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च - यदि पूर्वस्य प्रतिषेधः स्यात्,’पूर्वस्य तु वा’ इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योतरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात् - अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः - अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मातदन्तविधिनिरासार्थम्’परस्य’ इत्युक्तम् ॥

Nyaas

पूर्वेण परिमाणस्य वृद्धिरुच्यमाना अकारस्याचमादेः प्राप्नोतीति प्रतिषिध्यते। पूर्वपदस्य तु विकल्पो भवत्येव; पूर्वस्य त्वित्यनुवृत्तेः। आर्धप्रस्थिकः इति। अर्धं नपुंसकम् (2.2.2) इति समासः, पूर्ववत्? प्रत्ययः।किञ्च स्यात् इति। एवं मन्यते - आकारो हि वृद्धिमानेव, ततर नास्ति विशेषः सत्यसति वा वृद्धिपरतिषेधे, तदेव रूपम्, अतोऽसत्यपि तपरकरणे नैव किञ्चिदनिष्टमापद्यत इति। वृद्धिनिमित्तस्य इत्यादि। यसति तपरकरणे तत्कालार्थे यदनिष्टमापद्यते तद्दर्शयति। किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात्? इत्यत आह - यत्र हि इत्यादि। वृदिंध कुर्वन्नेव हि तद्धितो वृद्धिनिमित्तं भवति। तस्माद्यत्र तद्धिते वृद्धिप्रतिषेधः क्रियते स वृद्धेनिमित्तं न भवति। तेन वृद्धिनिमित्तस्य तद्धितस्य पुंवद्भावो न प्रतिषिध्यत इति पुंवद्भावः स्यात्। क्व? यथा इत्यादि। वैयाकरणी भार्याऽस्य इति। वृद्धिप्रतिषेधः पुनरत्र न य्वाभ्याम् (7.3.3) इत्यादिना। अथ परस्येति किमर्थं, पूर्वस्य मा भूदिति? नैतदस्ति; अत इति विशेषणोपादानसामर्थ्यात्? पूर्वस्य न भविष्यति। न हि पूर्वस्यार्धशब्दस्यातोऽन्यो वृद्धिमाक्? सम्भवति, पूर्वस्य तु वा (7.3.26) इति च विकल्पशासनमनर्थकं स्यात्, यदि तस्य प्रतिषेधः स्यात्। इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति? तदन्तदिधौ सतीहापि प्रतिषेधः स्यात् - अर्धद्रौणिकमिति। पूर्वस्तु विधिः - अर्धेन मुष्टिना क्रोतमर्धमौष्टिकम्, आर्धमौष्टिकमित्येवमर्थः स्यात्, परग्रहणे तु सति यदर्धात्? परमनन्तरं तदेवाश्रितं भवतीति नास्ति तदन्तविधिप्रसङ्गः॥